संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| पंचमोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - पंचमोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश पंचमोऽध्याय: । Translation - भाषांतर अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान् ।तेषां नामानि वर्गाश्च सत्वानि तद्गुणांस्तथा ॥१॥अष्टमहारसा: ।क्रमेण गगनं ताप्यं वैक्रान्तं विमलं तथा ।सस्यकं शैलसंभूतं राजावर्तकमेव हि ॥२॥एते महारसाश्चष्टावुदिता रसवादिभि: ।अभ्रकभेदा: ।क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम् ॥३॥श्वेतं रक्तं तथा पीतं कृष्णं परमसुन्दरम् ।श्वेतं श्वेतक्रियायोग्यं रक्तपीतं हि पीतकृत् ॥४॥कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ।वज्रं पिनाकं नागं च मण्डूकमभिधीयते ॥५॥अनेन विधिना प्रोक्ता भेदा: सन्तीह षोडश ।अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा ॥६॥शेषाणि त्रीणी चाभ्राणि घोरान् व्याधीन् सृजन्ति हि ।तस्माद्यत्नेन स्द्वैद्यैर्वर्जनीयानि नित्यश: ॥७॥वज्राभ्रलक्षणम् गुणाश्च ।वज्राभं धम्यमानेऽग्नौ विकृतिं न भजेत् कदा ।सेवितं तन्मृतिं हन्ति वज्राभ्र कुरुते वपु: ॥८॥पिनाकाभ्रलक्षणं गुणाश्च ।पिनाकं चाग्रिसन्तप्तं विमुश्चति द्लोच्चयम् ।सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥९॥नागाभ्रलक्षणं गुणाश्च ।नागाभ्रं ध्मापितं सम्यड्रागवत्स्फूर्जते धुवम् ।सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥१०॥विषं हालाहलं पीतं मारयेत्येव निश्चितम् ।तथा नागाभ्रनामानं सद्वैद्य: कथयत्यलम् ॥११॥मण्डूकाभ्रलक्षणम् गुणाश्च ।मण्डूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यश: ।क्षणं चाग्रौ न तिष्ठेत मण्डूकसद्दशां गतिम् ।मण्डूकाभ्रं न सेव्यं हि कथितं रसवेदिना ॥१२॥मृतवज्राभ्रकगुणा: ।मृतं वज्राभ्रकं सम्यक् सेवनीयं सदा बुधै: ।वलीपलितयाशाय द्दढतायै शरीरिणाम् ॥१३॥सर्वव्याधिहरं त्रिदोषशमनं वह्येश्च संदीपनं वीर्यस्तम्भविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् ।भूतोन्मादनिवारणं स्मृतिकरं शोफामध्वंसकं सद्य: प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥१४॥सचन्द्रिकाभ्रभक्षणे दोषा: ।यथा विषं यथा वज्रं शस्त्राग्री प्राणहा यथा ।भक्षितं चन्द्रिकायुक्तमभ्रकं ताद्दशं गुणै: ॥१५॥अभ्रकशोधनम् ।स्वेदयेद्दिनमेकं तु काज्जिकेन तथाभ्रकम् ।पश्चात्कुलत्थजे काथे तक्रे मूत्रेऽथ वह्यिना ॥१६॥पाचितं दोषशून्य़ं तु शुध्दिमायाति निश्चितम् ।तथाग्रौ परितप्तं तु निषिश्चेत्स्प्तवारकम् ॥१७॥काज्जिके चापि निर्दोषमभ्रकं जायते ध्रुवम् ।वराक्काथे तथा दुग्धे गवां मूत्रे तथैव च ॥१८॥मार्कवस्य रसेनापि दोषशून्यं प्रजायते ।अभ्रमारणस्य प्रथम: प्रकार: ।सूक्ष्मचूर्णं तत: कृत्वा पिष्ट्वा हंसपदीरसै: ॥१९॥चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्यये ।षट् पुटानि ततो दत्वा पुनरेवं पुनर्नवा- ॥२०॥रसेन मर्दितं गाढमभ्रांशेन तु टड्कणम् ।पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु ॥२१॥तण्डुलीयरसेनैव तद्वद्वासारसेन च ।पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम् ॥२२॥अनेन विधिना चाभ्रं म्रियते नात्र संशय: ।चन्द्रिकारहितं सम्यक् सिन्दूराभं प्रजायते ॥२३॥अभ्रसत्वपातनम् ।पादांशं टड्कणं दत्वा मुशलीरसमर्दितम् ।ध्मापितं कोष्ठिकायत्रे सत्वरुपं प्रजायते ॥२४॥खल्वे पिष्ट्वा तु मतिमान् सूक्ष्म्चूर्णं तु कारयेत् ।गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥२५॥भर्जितं दशवाराणि लोहखर्परकेण वै ।अग्रिवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत ॥२६॥शुकपिच्छ्समं पिष्ट्वा काथे तु वटमूलजे ।ततो विंशतिवाराणि पुटेच्छूकरसंज्ञिकै: ॥२७॥वराकषायैर्मतिमान् तथा कुरु भिषग्वर: ।नीलीगुज्जावरापथ्यामूलकेन सुभावयेत् ॥२८॥संशुष्कं भक्षयेद्विद्वान् सर्वरोगहरं परम् ।अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥२९॥यदि चेच्छतवाराणि पाचयेत्तीव्रवह्यिना ।तदाऽमृतोपमं चाभ्रं देहलोहकरं परम् ॥३०॥ अभ्रमारणस्य द्वितीय: प्रकार: ।कासमर्दरसेनैव धान्यभ्रं पाचितं शुभम् ।शतवारेण म्रियते नात्र कार्या विचारणा ॥३१॥एवं मुस्तारसेनापि तण्डुलीयशिवारसै: ।टड्कणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥३२॥षष्टिसंख्यपुटै: पक्वं सिन्दूरसद्दशं भवेत् ।कुष्ठक्षयादिरोगघ्नमभ्रकं जायते ध्रुवम् ॥३३॥ अभ्रमारणस्य तृतीय: प्रकार: ।नागवल्लीदलरसैर्वटमूलत्वचा तथा ।वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥३४॥वटवृक्षस्य मूलेन मर्दितं पुटितं घनम् ।सिन्दूरसद्दशं वर्णे भवेद्विंशतिमे पुटे ॥३५॥सूक्ष्मं रुक्षं जलप्लावं रक्तवर्णसमुद्भवम् ।सर्वरोगहरं चापि जायते बहुभि: पुटै: ॥३६॥ अभ्रसत्त्वपातनस्यान्य: प्रकार: ।धार्न्याभ्रकं तत: कृत्वा व्दात्रिंशत्पलमात्रकम् ।लाक्षा गुज्जा क्षुद्रमीनाष्टक्कणं दुग्धमाविकम् ॥३७॥सर्षपा: शिग्रुपिण्याकं सिन्धूत्थं मृगशॄडकम् ।माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥३८॥धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान् भिषक् ।पुनर्नवाया वासाया: कासमर्दस्य तन्दुले: ॥३९॥मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसै: पृथक् ।खलगोधूमयोश्र्वूर्णै: कारयेव्दकांश्र्छुभान् ॥४०॥पश्चात्कोष्ठयां धमेच्छुष्कान् भस्त्रिकाव्दितयेन तान् ।खदिरस्य तु चाडारै: सत्वं नि:सरति ध्रुवम् ॥४१॥पृथक्कृत्वा तु रवकान् कांस्यवर्णान् विशेषत: ।तत्किट्टं गोमयेनाथ वटकान् कारयेत्पुन: ॥४२॥ध्मापयेत्पूर्वविधिना पुन: सत्वं हि नि:सरेत ।अनेन विधिना कांर्य पञ्चगव्येन मिश्रितम् ॥४३॥पञ्चाजेनाथ माहिष्यपञ्चकेन समं कुरु ।पतत्येवमसंदिग्ध सत्यं गुरुवचो यथा ॥४४॥अथाभ्रसत्वरवकानम्लवर्गेण पाचयेत् ।शोधनीयगणेनैव भूषामध्ये तु शोधयेत् ॥४५॥काचटडकणगुज्जाज्यसारघै: शोधयेत्खलु ।मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥४६॥मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा ।सत्वस्य गोलाकानेवं तप्तानेव तु काज्जिके ॥४७॥निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया ।अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत ॥४८॥भर्जयेध्दतमध्ये तु त्रीणि वाराणि यत्नत: ।पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नत: ॥४९॥धात्रीपत्ररसेनापि तस्या: फलरसेन वा ।पुनर्भुवा वासया च काज्जिकेनाथ गन्धकै: ॥५०पुटयेद्दशवाराणि म्रियते चाभ्रसत्वकम् ।मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम् ।क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥५१॥ज्वरान्मेहांश्च कासांश्च गुल्मान् पज्चविधानपि ।मन्दाग्रिमुदराण्येवमर्शांसि विविधानि च ॥५२॥अनुपानप्रयोगेण सर्वरोगान्निहन्ति च ।अभ्रसत्वगुणा वक्तुं शक्यते न समाशतै: ॥५३॥राजावर्तलक्षणम् ।किज्चिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभ: सदा ।तौल्ये गुरुश्च मसृणो राजावर्तो वर: स्मृत: ॥५४॥राजावर्तगुण: ।श्लेष्मप्रमेहदुर्नामपाण्डुक्षयनिवारण : ।पाचनो दीपनश्चैव वृष्योऽनिलविषापह: ॥५५॥राजावर्तशोधनम् ।गोमूत्रेणाथ क्षारैश्च तथाम्लै: स्वेदिता: खलु ।त्रिवारेण विशुध्दयन्ति राजावर्तादयो हि वै ॥५६॥राजावर्तमारणम् ।चूर्णित: शुकपिच्छेन भृडराजरसेन वै ।सप्तवारेण पुटितो राजावर्तो मरिष्यति ॥५७॥राजावर्तंसत्वपातनम् ।कोशातकी क्षीरकन्दो वन्ध्याकर्कोटकी तथा ।काकमाची राजशमी त्रिफला गृहधूमक: ॥५८॥राजावर्तो रसैरेषां सत्वं मुज्जति मर्दित: ।ध्मापित: खदिराडारैर्भस्त्रिकाव्दितयेन वै ॥५९॥वैक्तान्तलक्षणम् ।अष्टधारोऽष्टफलक: षट्कोणो मसृणो गुरु: ।शुध्दमिश्रितवर्णैश्च युक्तो वैक्तान्त उच्च्ते ॥६०॥वैक्तान्तलक्षणम् ।श्वेत: पीतस्तथा कृष्णो नील: पारावतच्छवि: ।कर्बुर: श्याववर्णाश्च वैक्तान्तश्चाष्टधा स्मृत: ॥६१॥वैक्तान्तलक्षणम् ।आयु:प्रदस्त्रिदोषघ्रो वृष्य: प्राणप्रद: सदा ।वेगप्रदो वोर्यकर्ता प्रज्ञावर्णौ करोति हि ॥६२॥रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा ।वज्रवद्रुणकारी च वैक्तान्तो रसबन्धक: ॥६३॥वैक्तान्तलक्षणम् ।क्काथे कुलत्थजे खिन्नो वैक्रान्त: शुध्दयति ध्रुवम् ।गन्धनिम्बुरसैर्मर्घ: पुटितो म्रियते ध्रुवम् ॥६४॥वैक्तान्तलक्षणम् ।सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधै: ।शुष्कायितो वटीकृत्वा मूषास्थो ध्मापितोऽपि वै ॥६५॥सत्वं मुज्जति वैक्रान्ता: सत्यं गुरुवचो यथा ।मृतसूतेन तुल्यांशं सत्वं वैक्रान्तसंभवम् ॥६६॥मृताभ्रसत्वसंयुक्तं मर्दितं सममातकम् ।कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥६७॥सर्वान् रोगान्निहन्त्याशु जीवेव्दर्षशतं सुखी ॥वर्षत्रयप्रमाणेन वलीपलितनाशन: ॥६८॥सस्यकलक्षणम् ।सद्यो हालहलं पीततमृतं गरुडेन च ।सुधायुक्ते विषे वान्ते पर्वते मरुताहृये ॥६९॥घनीभूतं च संजातं सस्यकं खलु कथ्यते ।नीलं मरकतच्छायं तेजाढयमतिशस्यते ॥७०॥सस्यकगुणा: ।विषेण सहितं यस्मात्तस्माव्दिषगुणाधिकम् ।सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥७१॥त्रिदोषशमनं चैव विषंहृद्रुशूलनुत् ।अम्लपित्तविबन्धघ्रं रसायनवरं सदा ॥७२॥वान्तिं करोति वैरेकंअ श्वित्रकुष्ठापहं तथा ।नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥७३॥सस्यकशोधनम् ।खेदितं माहिषाजाभ्य़ां गवां मूत्रैर्नरस्य वा ।दोलायन्त्रेण यामौ व्दौ शुध्दयत्येव हि सस्यकम् ॥७४॥सस्यकमारणम् ।गन्धाश्मटडकणाभ्यां च लकुचद्रावमर्दितम् ।कुक्कुटाह्रै: सप्तर्म्रियते चान्धमूषया ॥७५॥सस्यकसत्वपातनम् ।निघृष्टं टड्कणेनैव निम्बूद्रावेण मूषयाध्यातं च ताम्ररुपं हि सत्वं मुज्चति सस्यकम् ॥७६॥सस्यकसत्वमुद्रिका ।भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम् ।अनयोर्मुद्रिका कार्या शूलहा सा भवेत्खलु ॥७७॥डाकिनीभूतसंवेशचराचरविषं जयेत् ।राज्ञां सदैव रक्षार्थ विधातव्या सुमुद्रिका ॥७८॥विमलभेदा गुणाश्च ।प्रथमो हेमविमलो हेमवव्दर्णसंयुत: ।व्दितीयो रुप्यविमलो रुप्यवदृश्यते खलु ॥७९॥तृतीय: कांस्यविमल: कांस्यवर्णसमो हि स: ।स्निग्धश्च वर्तुलश्चैव षट्कोण: फलकान्वित: ॥८०॥वृष्य: पित्तानिलहरो रसायनवर: खलु ।विमलशोधनम ।वासारसे मर्दितो हि शुध्दोऽतिविमलो भवेत् ॥८१॥विमलमारणम् ।गन्धाश्मनिम्बुकद्रावैर्मर्दित: पुटितो मृतिम् ।शृडस्य भस्मना चापि पुटैश्च दशभि: पुटेत् ॥८२॥विमलसत्वपातनम् ।निन्बूरसेन संपिष्टा मूषामध्ये निरुन्ध्य च ।विमल: सीससदृशं ध्मातो मुज्चति सत्वकम् ॥८३॥विमलसत्वप्रयोग: ।पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम् ।द्रुते गन्धे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥८४॥मन:शिला पज्चगुणा वालुकायन्त्रके खलु ।ज्वालयेत्क्रमतश्चैव पश्चाद्रजतभस्मकम् ॥८५॥सममात्रं हि वैक्रान्तं सर्व संचूर्णयेत्खलु ।संगाल्य यत्नतो वस्त्रात्स्थापयेत्कुपिकान्तरे ॥८६॥वह्रिं कुर्यादष्टयामं स्वाड्शीतं समुध्दरेत् ।वल्लमात्रं च मधुना लेहयेव्द्योषसंयुतम् ॥८७॥बालांना रोगहरणं ज्वरपाण्डुप्रमेहनुत ।ग्रहणीकामलाशूलमन्दाग्रिक्षयपित्तहृत् ॥८८॥अनुपानविशेषण सर्वरोगान्निहन्ति वै ।शिलाजतु व्दिधा प्रोक्तं गोमूत्रं घनसारकम् ॥८९॥तत्राद्यं व्दिविधं चैव ससत्वं सत्वहीनकम् ।गुणाधिकं तयोर्मध्ये यत्पूंर्व सर्वदोषहृत् ॥९०॥निदाघे तीव्रतापाध्दि हिमप्रत्यन्तपर्वतात् ।हेमतारार्कगर्भेभ्य: शिलाजतु विनि:सरेत् ॥९१॥बन्धूकपुष्पसदृशं गुरु स्त्रिग्धं सुशीतलम् ।रुक्मगर्भगिरेर्जातं, परमं तद्रसायनम् ॥९२॥किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ।तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम् ॥९३॥पित्तपाण्डुक्षयघ्रं हि शिलाजतु तु पाण्डुरम् ।शुल्बगर्भगिरेर्जातं कृष्णवंर्ण घनं गुरु ॥९४॥गिरिजं कफवातघ्रं विशेषात्सर्वरोगजित् ।शुध्दशिलाजतुपरीक्षा ।अग्रौ यज्जायते क्षिप्तं लिडाकारमधूमकम् ॥९५॥उद्केन विलीयेत तच्छुध्दं च विधीयते ।शिलाजतुगुणा: ।शिलाजतु तु संशुध्दं सेवते य: पुमान् सदा ॥९६॥जीवेव्दर्षशतं साग्रं न रोगैर्बाध्यते खलु ।मूत्रकृच्छ्राश्मरीरोगा: प्रयान्त्येव न संशय: ॥९७॥महारसे चोपरसे धातुरलेपु पारदे ।ये गुणा: कथितो: सध्दि: शिलाधातौ भवन्ति ते ॥९८॥शिलाजतुशोधनम् ।अम्लैश्व गुग्गुलोपेतै: क्षारद्यैर्भाण्डमध्यत: ।विशुध्दयति शिलाजातं खेदितं घटिकाव्दयम् ॥९९॥शिलाजतुमारणम् ।मन: शिलालुंरसै: शिलया गन्धकेन वा ।तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥१००॥छगणैरष्टभि: कृत्वा, भस्मीभूतं शिलोदंवम् ।वैक्रान्तकान्तत्रिफलात्रिकटुभि: समन्वितम् ॥१०१॥वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ।पलितं वलिभि: सांर्ध हन्यादेव न संशय: ॥१०२॥कर्पुरशिलाजतुलक्षणं गुणाश्च ।कर्पुरसदृशं श्वेतं कर्पुराख्यं शिलाजतु ।अश्मरीमेहकृचछ्रघ्रं कामलापाण्डुनाशनम् ॥१०३॥अम्लतोयेन संखिन्नं शुष्कं शुध्दिमुपैति च ।नोदितं मारणं तस्य सत्वपातनकं बुधै: ॥१०४॥रसकभेदा: ।व्दिविधो रसक: प्रोक्त: कारवेल्लश्व दर्दुर: ।सत्वपाते पर: प्रोक्त: प्रथमश्वौषधादिषु ॥१०५॥सर्वमेहहरश्वैव पित्तश्लेष्मविनाशन: ।नागार्जुन कथितौ सिध्दौ श्रेष्ठरसावुभौ ॥१०६॥कृतौ येनाग्रिसहनौ सूतखर्परकौ शुभौ ।तेन स्वर्णमयी सिध्दिरर्जिता नात्र संशय: ॥१०७॥रसकशोधनम् ।रसकस्तापित: सम्यंक्षिप्तो रसपुरके ।निर्मलत्वमवाप्रोति सप्तवारं निमज्जित: ॥१०८॥काज्जिके वाऽथ तक्रे वा नृमूत्रे मेषमूत्रके ।द्रावितो ढालित: सम्यक् खर्पर: परिशुध्दयति ॥१०९॥खर्परं रेतितं शुध्दं स्थापितं नरमूत्रके ।रज्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥११०॥रसकसत्वपातनम् ।शिलाहरिद्रात्रिफलागृहधूमै: ससैन्धवै: ।भल्लातकैष्टंणैश्च क्षारैरम्लैश्च वर्तितम् ॥१११॥रसप्रकाशसुधाकर: ।पादांशसंयुतैर्मूषां वृन्ताकफलसन्निभाम् ।निरुध्य शोषयित्वाऽथ मूषां मूषोपरि न्यसेत ॥११२॥प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा ।लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥११३॥भूम्यामाढालयेत्सत्वं यथा नालं न भज्यते ।तदा सीसोपमं सत्वं पतत्येव न संशय: ॥११४॥अनेनैव प्रकारेण त्रिवारं हि कृते सति ।विनि: सरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥११५॥रसकसत्वप्रयोग: ।तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे ।घर्षयेल्लोहदण्डेन म्रियते च न संशय: ॥११६॥मृतं सत्वं मृतं कान्तं समांशेनापि योजितम् ।माषमात्रमितं चूंर्ण वराक्काथेन संयुतम् ॥११७॥लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।निहन्ति मधुमेहं च क्षयं पाण्डुं तथाऽनिलम् ॥११८॥योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि ।स्त्रीरोगान् हन्ति संर्वाश्व श्वासकासपुरोगमान् ॥११९॥माक्षिकभेदा: ।माक्षिकं व्दिविधं ज्ञेयं रुक्मताप्यप्रभेदत: ।प्रथमं माक्षिकं स्वर्ण कान्यकुब्जसमुत्थितम् ॥१२०॥सुवर्णवर्णसदृशं नववर्णसमन्वितम् झ।तटे तपत्या: संजातं ताप्याख्यं माक्षिकं वदेत् ॥१२१॥पाषाणदलसंमिश्रं पाण्डुरं पज्चवर्णवत् ।गुणाल्पकं भवत्येतत्स्वल्पं सत्वं विमुज्चति ॥१२२॥माक्षिकगुणा: ।सर्वामयघ्रं सततं पारदस्यामृतं परम् ।मेलनं कृरुते लोहे परमं च रसायनम् ॥१२३॥मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च।गन्धाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥१२४॥पज्चवाराहपुटकैर्दग्धं मृतिमवामुयात् ।माक्षिकसत्वपातनम् ।लोहपात्रे सुसंदिग्धं लोहदण्डेन घर्षितम् ॥१२५॥यदा रक्तं धातुनिभं जायते निम्बुकद्रवै: ।घर्षयेत्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु ॥१२६॥दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ।वस्त्रस्था पिष्टिका लग्रा त्वध: पतति पारद: ॥१२७॥अनेनैव प्रकारेण व्दित्रिवारेण गालयेत ।तत्पिष्टीगोलकं ग्राह्यं यत्रे डमरुके न्यसेत् ॥१२८॥प्रहराव्दयमात्रं चेदग्रिं प्रज्वालेद्ध: ।इन्द्रगोपसमं सत्वमध:स्थं ग्राहयेत्सुधी: ॥१२९॥अनेनैव विधानेन ताप्यसत्वं समाहरेत ।टंणेन समायुक्तं द्रावितं मूषया यदा ॥१३०॥तदा ताम्रप्रभं सत्वं जायते नात्र संशय: ।देहलोहकरं सम्यग्देवीशास्त्रेण भाषितम् ॥१३१॥इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचित्ते रसप्रकाशसुधाकरेमहारसनिरुपणं नाम पश्चमोऽध्याय: । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP