संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| प्रथमोध्याय:। रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - प्रथमोध्याय:। श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश रसोत्पत्तिवर्णनम्। Translation - भाषांतर हिमालयात्पश्चिमदिग्विभागेगिरिन्द्रनामा रुचिरोऽपि भूधर:।तस्मिन् समीपेऽतिसुवृत्तकूपेसाक्षाद्र्सेन्द्रो निवसत्ययं हि ॥१॥कुमारिका रुपगुणेन युक्तासाऽल्कृता वाहवरेऽधिरुढा ।तत्रागता कूपमवेक्षणानिवर्तिता सा मह्ता जवेन ।प्रधावित: सूतवरश्चतुर्षु ककुप्सु भूमौ पतितौ हि नूनम् ॥२॥परित: पर्वतात्सम्यक् क्षेत्रं द्वादशयोजनम्।विस्तीर्णं च सुवृतं हि सूतकस्य समीरितीम् ॥३॥तन्मृद: पातने यत्रे पातित: खलु रोगहा ।जायते रुचिर: साक्षादुच्यते पारद: स्वयम् ॥४॥कूपाद्विनिसृत: सूतश्चतुर्दिक्षु गतो द्विज: ।क्षत्रियो वैश्यशूद्रौ च चतुर्धा जायते खलु ॥५॥श्चेता कृष्णा तथा पीता रक्ता वै जायते छवि:।ग्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥६॥द्युगुल: कण्डविस्तारो मध्येतिमसृणीकृत: ।अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशागुल: ॥२७॥सूत: पश्चपलस्तस्मिन् शोधनियो भिषग्वरै: ।खेदनोद्दिष्टभैषज्यैर्मर्दयेत्काज्जिकैरुयहम् ॥२८॥बहिर्मलविनाशाय रसराजं तु निश्चितम् ।उष्णकाज्जिकतोयेन क्षालयेत्तदनन्तरम् ॥२९॥मूर्च्छनम्अत: परं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम् ।मूर्च्छनं दोषरहितं सप्तकस्चुकनाशनम् ॥३०॥खर्जिका यावसुकश्च तथा च पटुपश्चकम् ।अम्लौषधानि सर्वाणि सूतेय सह मर्दयेत ॥३१॥खल्वे दिनत्रयं तावद्यावनष्टत्वमाप्नुयात ।स्वरुपस्य विनाशेन मूर्च्छनं तदिहोच्यते ॥३२॥निर्मलत्वमवाप्नोति ग्रन्थिभेदश्च जायते ।उत्थापनम्अथोत्थापनकं कर्म पारदस्य भिषग्वरे: ॥३३॥करणीयं प्रयत्नेन रससास्त्रस्य वर्त्मना ।दोलायत्रे तत: खेद्य: पूर्ववद्दिवसत्रयम् ॥३४॥सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले ।उत्थापनं भवेत्सम्यडरुर्च्छादोषविनाशनम् ॥३५॥पातनभेदा:।पातनं हि महत्कर्मं कथयामि सुविस्तरम् ॥३६॥त्रिधा पातनमित्युक्तं रसदोषविनाषनम् ।ऊर्ध्वपातस्त्वध:पातस्तिर्यकपात: क्रमेण: हि ॥३७॥ऊर्ध्वपातनम् ।ऊर्ध्वपातन्नस्य लक्षणं तदिहोच्यते।मृण्मयी स्थालिका कार्या चोर्छितां तु षड्न्गुला ॥३८॥मुखे सप्तान्गुलायामा परितस्त्रिदशान्गुला ।इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥३९॥क्षारद्वयं रामठं च तथा हि पटुपश्चकम् ।अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥४०॥लेपयेक्तेन कल्केन अध:स्थां स्थालिकां शुभाम् ।उपरिस्थामधोवक्रां दत्वा संपुटमाचरेत् ॥४१॥सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् ।चुल्यां स्थालिं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥४२॥तस्योपरि जलाधानं चतुर्यामावधिं कुरु ।स्वान्गशीतलतां ज्ञात्वां ऊर्ध्वगं ग्राहयेद्रसम् ॥४३॥ऊर्ध्वपातनयत्रं हि तदेवम परिकीर्तितम् ।अध:पातनम ।पूर्वोक्तां स्थालिकां सम्यग्विपरितां तु पन्किले ॥४४॥ गर्ते तु स्थापितां भूमौ ज्वालयेन्मून्ध्रि पावकम् ।यामत्रितयपर्यन्तमध: पतति पारद: ॥४५॥अध:पातययत्रं हि कीर्त्तितं रसवेदिभि: ।तीर्यकपातनम् ।पूर्वोक्तैरोषधै: सार्ध रसराजं विमर्दयेत् ॥४६॥तीर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घट: कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् ॥४७॥नलिकां जलपात्रस्थां कार्येच्च भिषग्वर: ।अधस्ताद्रसयन्नस्य तीव्राग्निं ज्वालयेद्धुध: ॥४८॥यामत्रितयपर्यन्तं तिर्यकपातो भवेद्रस:।यत्राणां पातनानां च त्रितय़ं सुकरं खलु ॥४९॥कथितं हि मया सम्यग्रसागमनिदर्शनात् ।रोधनम्अधुना कथयिष्यामि रसरोधनकर्म च ॥५०॥यत्कृते चपलत्वं हि रसरजस्य शाम्यति।सिन्धूद्भवं दशपलं जतप्रस्थत्रयं तथा ॥५१॥धारयेध्द्टमध्ये च सूतकं दोषवर्जितम् ।पिधानेन यथा सम्यक् मुद्रितं मृतस्नया खलु ॥५२॥निर्वाते निर्जने देशे धारयेतेद्दिवसत्रयम् ।अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥५३॥नियमनम्अत: परं प्रवक्ष्यामि नियमं पारदस्य च ।जलसैन्धवसंयुक्तो घटस्थो हि रसोत्तम: ॥५४॥दिनत्रयं खेदितश्व वीर्यवानपि जायते ।दीपनम्अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम् ॥५५॥बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ।राजिका लवणोपेता मरिचं शिग्रुटक्कणे ॥५६॥कासीससंयुक्ता काक्षी काज्जिकेन समन्वितै: ।दिनानि त्रीणी संस्वेद्य पश्चात्क्षारेण मर्दयेत् ॥५७॥अनेनैव प्रकारेण दीपनं जायते ध्रुवम ।तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता ॥५८॥बलवत्वं विशेषेणं कृते सम्यक् प्रजायते ।मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि ॥५९॥कथयामि समासेन यथाव्द्रससाधनम् ।अष्टाद्शांशभागेन कनकेन च सूतक: ॥६०॥निम्बूरसेन संमर्द्यो वासरैकमत: परम् ।क्षारैश्च लवणै रम्यै: खेदित: काज्जिकेन हि ॥६१॥क्षालिते काज्जिकेनैव वक्रं भोक्तुं प्रजायते ।ताप्यसत्वं कलांशेन हेम्ना तद्दिगुणेन हि ॥६२॥तप्तमायसखत्वेन तप्तेनाथ प्रमर्दयेत् ।व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि ॥६३॥जम्बीरपूरकजलैर्मर्दयेदेकविंशतिम् ।वासरे याममेकं तु प्रत्येकं हि विमर्दयेत् ॥६४॥यातुधानमुखं सम्यक् यात्येव हि न संशय़: ।द्वितीयो दीपनस्यैवं प्रकार: कथितो मया ॥६५॥सूतस्याष्टौ च संस्कारा: कथिता देहकर्मणि ।तथा च दश कर्माणि देहलोहकराणि हि ॥६६॥अभ्रकग्रासनम्अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि ।(करोटीविधीना सम्यक्कर्तव्यं लोहसंपुटम् ॥६७॥) जलयत्रस्य योगेन बिडेण सहितो रस: ।भक्षयत्येव चाभ्रस्य कवलानि न संशय: ॥६८॥अतो हि जलयत्रस्य लक्षणं कथ्यते मया ।सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥६९॥तन्मध्ये सुद्दढं सम्यकर्तव्यं लोहसंपुटम् ।लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥७०॥बिडेन सहितं चैव षोडशांशेन यत्नत: ।चतु:षष्टयंशकं चाभ्रसत्वं संपुटके तथा ॥७१॥संपुटं मुद्रयेत्पश्चाद्दृढया तोयमृत्त्स्त्रया ।वह्यिमृत्तकया वापि सन्धिरोधं तु कारयेतं ॥७२॥चुल्ल्यां निवेश्य तं यत्रं जलेनोष्णेन पूरितम् ।क्रमादग्नि: प्रकर्तव्यो दिवसार्धकमेव हि ॥७३॥एवं कृते ग्रासमानं भक्षयेन्नात्र संशय: ।अनेनैव प्रकारेण षड्ग्रासं भक्षयेतद्भुवम् ॥७४॥भक्षिते चाभ्रसत्वे वै सर्वकार्येषु सिद्बिद: ।मानं मानविहीनेन कर्तु केन न शक्यते ॥७५॥तस्मान्मानं मया कर्म कथितव्यं यथोदितम् ।चतु:षष्टयंशतो बीजं पारदान्मुखकारकम् ॥७६॥पश्चात द्वात्रिंशभागेन दातव्यं बीजमुत्तमम् ।तत: षोडशभागेन बीजस्य कवलं न्यसेत ॥७७॥रसादष्टमभागेन दातव्यं भिषगुत्तमै: ।चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥७८॥तथा च समभागेन ग्रासनैव च साधयेत् ।बिडेन षोडशांशेन क्षुधितो जायते रस: ॥७९॥यदा जीर्णो भवेद्भास: पातितश्च बिडेन हि । कासीससिन्धुलवणसौवर्चलसुराष्ट्रिका: ॥८०॥गन्धकेन समं कृत्वा बिडोऽयं वह्यिकृद्भवेत् ।चारणम् ।अथगर्भद्रुते: कर्म चारणं गुणवर्धनम् ॥८१॥कथयामि यथातथ्यं रसराजस्य सिध्दिदम् ।ताप्यसत्वाभ्रसत्वं च घोषाकृष्टं च ताम्रकम् ॥८२॥समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ।भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् ॥८३॥तद्भ्रसत्वं सूतस्य चारयेत समभागिकम् ।गर्भद्रुति: ।अनेनैव प्रकारेण त्रिगुणं जारणं रसे ॥८४॥गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमै: ।बाह्यद्रुति: ।बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गत: ॥८५॥अभ्रसत्वं हि मुषायां वज्रवल्लीरसेन हि ।सौवर्चलेन संध्मातं रसरुपं प्रजायते ॥८६॥अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ।तेन बन्धत्वमायाति द्रुतिर्बाह्यस्य कथ्यते ॥८७॥बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ।गुरो: प्रसादात्सततं महाभैरववन्दनात् ॥८८॥शिवयोरर्चनादेव सिध्यति बाह्यगा द्रुति: ।अथ जारणकं कर्म कथयामि सुविस्तरम् ॥८९॥अभ्रकं ताप्यसत्वं च समं कृत्वा तु सन्धमेत् ।अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे ॥९०॥एवं पुतिद्वयेनैव घनसत्वं हि साधयेत् ।धातुवादविधानेन लोहकृद्देहकृन्न हि ॥९१॥गजवन्गौ महाघोरावसेव्यो हि निरन्तरम् ।साधितं घनसत्वं तद्रेतितं रजसन्निभम् ॥९२॥बुभुक्षितरसस्यासे निक्षिप्तं वल्लमात्रकम् ।रसो गद्याणकस्यापि तुर्यभाग: प्रकीर्तित: ॥९३॥ताम्रपात्रस्थमम्लं वै सैन्धवेन समन्वितम् ।क्षीरेण सहितं वाऽपि प्रहितं त्रिदिनावधि॥९४॥जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधै: कल्केनानेन सहितं सूतकं च विमर्यदेत ॥९५॥दिनत्रयं तप्तखल्वे धौत: पश्चाश्च काज्जिकै: ।स्थापयेत्काचपात्रे तु तदूर्ध्वाधो बिडं न्यसेत् ॥९६॥रसस्याष्टमभागेन संपुटं कारयेत्तत: ।भूर्जपत्रैर्मुखं रुध्वा सूत्रेणैव तु वेष्टयेत् ॥९७॥संपुटं वाससा वेष्टय दोलायां खेदयेत्तत: ।गोमूत्रेणाम्लवर्गेण काज्जिकेन दिनं दिनम् ॥९८॥अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ।उष्णकाज्जिकतोयेन क्षालयेत्वा रसं तत: ॥९९॥द्दढे चतुर्गुणे वस्त्रे क्षिप्तवऽध: पीडनाद्रस: । निपतत्यन्यपात्रे तु सर्वोपि यदि पारद: ॥१००॥ तदाऽभ्रं जारितं सम्यग्दण्डदारी भवेद्रस: ।ग्रासमाने पुनर्देयमभ्रबीजमनुत्तमम् ॥१०१॥अष्टग्रासेन सर्वं हि जारयेद्गुरुमर्गत: ।एवं कृते समं चाभ्रं सूतके जीर्यती ध्रुवम् ॥१०२॥स्वहस्तेन कृतं सम्यग जारणं न श्रुतं मया ।समाभ्रे जारिते सम्यग्दण्डधारी भवेद्रस: ॥१०३॥बालश्च कथ्यते सोऽपि किश्चित्कार्यकरो भवेत् ।द्विगुणे त्रिगुणे चैव कथ्यते मया खलु ॥१०४॥चतुर्गुणेऽभ्रके जीर्णे किशोर: कथ्यते मया ।जीर्णे पश्चगुणे चाभ्रे युवा चैव रसोत्तम: ॥१०५॥षडगुणे जारिते त्वभ्रे वृध्द्श्चैव रसोत्तम: ।सप्ताष्टगुणिते चाभ्रसत्वे जीर्णेऽतिवृध्द्क: ॥१०६॥सर्वसिध्दिकर: सोऽपि पारद: पारद: स्वयम् ।अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥१०७॥सारणम्अथेदानीं प्रवक्ष्यामि वेधवृध्देश्च कारणम् ।महासिध्दिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥१०८॥धूर्तपुष्पसमाकारा मूषाऽष्टाड्गुलदीर्घिका ।मुखे सुविस्तृता कार्या चतुरड्गुलसंमिता ॥१०९॥मृण्मया साऽपि शुष्का ओ मध्येऽतिमसृणीकृता ।अन्या दिधानिका मूषा सुनिम्रा छिद्रसंयुक्ता ॥११०॥सुध्दं सुजारितं सूतं मूषामध्ये निधापयेत ।मत्स्यकच्छपमण्डूकजलौकामेषसूकरा: ॥१११॥एकीकृत्य वसामेषामेवं तैलं तु सारणम् ।भुनागविट् तथा क्षौद्रं वायसानां पुरीषकम् ॥११२॥तथैव शलभादीनां महिषिकर्णयोर्मलम् ।रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥११३॥पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् ।सारणार्थे कृतं तैलं तस्मिन् तैले सुपाचयेत ॥११४॥बीजं च कल्ममिश्रं हि कृत्वा मूषोपरि न्यसेत् ।पिधानेन द्वितीयेन मूषावक्रं निरुन्धयेत ॥११५॥भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् ।मूषिकायास्त्रिभागां हि खनित्वा वसुधां क्षिपेत ॥११६॥तदूर्ध्वं ध्यापयेत्सम्यग्द्दढाड्गारै: खराग्निना ।एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥११७॥बन्धमायाति सूतेन्द: सारितो गुणवान् भवेत् ।प्रथमं जारितश्चैव सारितं: सर्वसिध्दिद: ॥११८॥नाजारितं: सारितश्च कथं बन्धकरो भवेत् ।गुरुपदेशतो द्दष्टं सारणं कर्म चोत्तमम् ॥११९॥हस्तानुभवयोगेन कृतं सम्यक् श्रुतं नहि ।अथ क्रामणकं कर्म पारद्स्य निगद्यते ॥१२०॥शास्त्रात्कृतं न द्दष्टं हि यथावत्क्रामयेद्रसम् । कर्णफलं महिषीणां स्त्रीदुग्धं टड्केन संमिश्रम ॥१२१॥एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेश्च दिनम् ।विषं च दरदश्चैव रसको रक्तकान्तकौ ॥१२२॥इन्द्रगोपश्च तुवरी माक्षिकं काकविट् तथा ।कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत ॥१२३॥काचचूर्णं ततो दत्वा चान्धमूषागतं धमेत् ।अनेन क्रामणेनैव पारद: क्रमते क्षणात् ॥१२४॥इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ।ताप्यसत्वं तथा नागं शुध्दं क्रामणकं सदा ॥१२५॥बीजानि परद्श्चापि क्रमते च न संशय:।वेधनम्अथ वेध्वेधनं हि कथयामि सुविस्तरम् ॥१२६॥येन विज्ञातमात्रेण वेधज्ञो जायते नर: ।धूर्ततैलमहे: फेनं कड्गुणीतैलमेव च ॥१२७॥भृड्गीतैलं विषं चैव तैलं जातीफलोअद्भवम् ।हयमारशिफातैलमब्धे: शोषकतैलकम् ॥१२८॥एतान्यन्यानि तैलानि विध्दि वेधकराणि च ।सिध्द्सूतेन च समं मर्दितं वेधकृद्भवेत ॥१२९॥लेपवेधस्तथा क्षेप: कुन्तधस्तथैव च ।धूमाख्य: शब्दवेध: स्यादेव पश्चविध: स्मृत: ॥१३०॥सूक्ष्माणि ताम्रपत्राणि कत्धूतभवानिच ।कल्केन लेपितान्येवं ध्मापयेदन्धमूषया ॥१३१॥शीतभूते तमुत्तार्य लेपवेधश्च कथ्यते ।द्रुते तम्रेऽथवा रुप्ये रसं तत्र विनिक्षपेत् ॥१३२॥विध्यते तेन सहसा क्षेपवेध: स कथ्यते ।द्रावयेन्नगरुप्यं च ताम्रं चैव तथाऽपरान् ॥१३३॥पार्दोऽन्यतमे पात्रे द्रावितेऽत्र नियोनित: वेधते कुन्तवेध: स्यादिती शास्त्रविदब्रवीत् ॥१३४॥धूमश्पर्शेन जायन्ते धातवो हेमरुप्यकौ ।धूमवेध: स विज्ञेयो रसराजस्य निश्चितम् ॥१३५॥बध्दे रसवरे साक्षात्स्पर्शनाज्जायते रव: ।तथैव जायते वेध: शब्दवेध: स कथ्यते॥१३६॥सेवनविधि:अथ सेअवनकं कर्म पारद्स्य दशाष्टमम् ।कथ्यतेऽत्र प्रयत्न्नेन विस्तरेण मयाऽधुना ॥१३७॥यत्नेन सिवित: सूत: शास्त्रमार्गेण सिध्दिद: ।अन्यथा भक्षितश्चैव विषन्मारयेन्नरम् ॥१३८॥आदौ तु वमनं कृत्वा पश्चद्रेचनमाचरेत् ।ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥१३९॥सम्यक् सूतवर: शुध्दो देहलोहकर: सदा ।सिवित: सर्व्रोअगघ्न: सर्वसिध्दिकरो भवेत् ॥१४०॥यावन्मानेन लोहस्य गद्याणे वेधकृद्रस: ।तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥१४१॥राजिकाऽथ प्रियड्गुश्च सर्षपो मुद्रमाषकौ।रक्तिका चणको वाऽथ वल्लमात्रो भवेद्रस: ॥१४२॥एषा मात्रा रस प्रोक्ता रसकर्मविशार्दै: ।अनुपानेन भुज्जीत पर्णखण्डिकया सह ॥१४३॥इत्थं संसेविते सूते सर्वरोगाध्दिमुच्यते ।सर्वपापाध्दिनिर्मुक्त: प्राप्नोति परमां गतिमं ॥१४४॥अथेदानि प्रवक्ष्यामि रज्जनं पारदस्य हि ।रज्जित: क्रामितश्चैव साक्षाद्देवो महेश्वर: ॥१४५॥रज्जनं लोहताम्राभ्यां रसकेन विधीयते ।तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥१४६॥गन्धरागेण कर्तव्यं पारदस्याथ रज्जनम् ।ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥१४७॥अन्धमूषागतं सूतं रज्जयेताम्रकादिभि: ।इष्टिकायत्रयोगेन गन्धरागेण रज्जयेत ॥१४८॥रसकस्य च रागेण तुलायत्रस्य योगत: मर्दनात्तीक्ष्णचूर्णेन रज्जयेत्सूतकं सदा ॥१४९॥ताम्रकल्कीकृतेनैव स्थापयेत्स्प्तवासरान् रजनं सूतराजस्य जायते नात्र संशय: ॥१५०॥मृन्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता ।तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रज्जनकं भवेत् ॥१५१॥मया संक्षेपत: प्रोक्तं रज्जनं हि निदर्शितम् ॥१५२॥ N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP