संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| चतुर्थोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - चतुर्थोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश चतुर्थोऽध्याय: । Translation - भाषांतर N/Aअथेदानीं प्रवक्ष्यामि धातुशोधनमारणम् ।अनुभूतं मया किंचिच्छास्त्रानुसारत: ॥१॥सुवर्णं रजतं चेति शुद्धलोहमुदीरितम् ।ताम्रं चैवाश्मसारं च नागवड्गौ तथैव च ॥२॥पूतिलोहं निगदितं द्वितीयं रसवेदिना ।संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम् ॥३॥एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति च ।सुवर्णभेदा : ।सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम् ॥४॥अन्ये त्रय: सुवर्णस्य प्रकारा: सन्ति नोदिता: ।रसजं रसवेधेन जायते हेम सुन्दरम् ॥५॥तश्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ।पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित् ॥६॥द्दश्यते खनिजं प्राज्ञैस्तश्चतुर्दशवर्णकम् ।सुवर्णशोधनम् ।रुप्यादियोगेन यद मिश्रं खर्णं हि जायते ॥७॥हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरै: ।हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत् । ॥८॥खटिकापटुचूर्णं च काजिकेन प्रमर्दयेत् ।पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नत: ॥९॥आरण्योत्पलकै: कार्या कोष्ठिका नातिविस्तृता ।मध्ये तत्संपुटं मुक्त्वा वह्यिं प्रज्वालयेत्तत: ॥१०॥एवं पुटत्रयं दत्वा शुध्दं हेम समुध्दरेत् ।नतु शुध्दस्य हेम्नश्च शोधनं कारयेद्भिषक् ॥११॥अन्येषामेव लोहानां शोधनं कारयेद्भिषक् ।तत: स्वर्णभवं पत्रं तापितं हि विनि:क्षिपेत् ॥१२॥ज्वालामुखीरसे षष्टिपुटैर्भस्मीभवत्यलम् ।गुरुणा कथितं सम्यड्रिरुत्थं जायते ध्रुवम् ॥१३॥रोगान् हिनस्ति सकलान् नात्र कार्या विचारणा ।खर्णमारणस्य द्वितीय: प्रकार: ।हेम्न: प्रत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत् ॥१४॥पूराम्बुभस्मसूतेन लेपयित्वाऽथ शोषयेत् ।संपुटे च ततो रुन्ध्यात्पुटयेद्दशभि: पुटै: ।म्रियते नात्र संदिहो निरुत्थं भस्म जायते ॥१५॥सुवर्णभस्मन: तृतीय: प्रकार: ।हेम्न: सूक्ष्मदलानि भूर्जसद्दशान्यादाय संलेप्य वै वज्रीदुग्धहिड्गुहिड्गुलसमैरेकत्र पिष्टिकृतै: ॥सत्यं संपुटके निधाय दशभिश्चैवं पुटै: कुक्कुटै: पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥१६॥सुवर्णभस्मनश्चतुर्थ : प्रकार: ।लोहपर्पटिकाबध्दं मृतं सूतं समांशकम् ।विद्रुते हेम्नि निक्षिप्तं खर्णं भूतिप्रभं भवेत् ॥१७॥तद्भस्म पूरतोयेन दरदेन समन्वितम् ।मर्दयेद्दिनमेकं तु संपुटे धारयेत्तत: ॥१८॥पुटितं दशवारेण स्वर्णं सिन्दुरसन्निभम् ।जायते नात्र संदेहो रज्जनं कुरुते ध्रुवम् ॥१९॥देहं लोहं च मतिमान् सुधनी साधयेद्भुवम् ।सुवर्णभस्मगुणा: ।एतत्स्वर्णभवं करोति च रज: सौन्दर्यतां वै सदा रोगान्दैवकृतान्निहन्ति सकलान्येव त्रिदोषोद्भवान् ।य: सेवेत नर: समान् द्विदशकान् वृध्द्श्च नो जायते दोषा नैव गरोद्भवा विषकृता आगन्तुजा चैव हि ॥२०॥रुप्यभेदा: ।रुप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा ।कृत्रिमं च त्रयो भेदा: कथिता: पूर्वसूरिभि: ॥२१॥भूधरे कुत्रचित्प्राप्तं खन्यमाने च खानिजम् ।कैलासशिखराज्जातं सहजं तदुदीरितम ॥२२॥रसवेधेन यज्जातं वड्गात्तत् कृत्रिमं मतम् ।शुध्दरुप्यलक्षणम् ।यद्रुप्यं वह्यिना तप्तमुज्ज्वलं हि विनि:सरेत् ।तच्छुध्दं कलभूतं हि सर्वकार्यकरं परम् ॥२३॥रुप्यशोधनम् ।ताम्रादिसंसर्गभवं त्वसुद्धं रुप्यं हि मिश्रं खलु दोषलं च ।तच्छोधयेद्वै भसितस्य मुष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥२४॥ताम्राच्च षड्गुणं नागं ध्मापयेद्यत्नत: सुधी: ।शनैर्विधम्यमानं हि दोषशून्यं प्रजायते ॥२५॥अनेनैव प्रकारेण शोधयेद्रजतं सदा ।सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥२६॥रजतमारणम् ।भागमेकं तु रजतं सूतभागचतुष्टयम् ।मर्दयेद्दिनमेकं तु सततं निम्बुवारिणा ॥२७॥पेषणाज्जायते पिष्टिर्दिनैकेन तु निश्चितम् ।मूषामध्ये तु तां मुक्त्वा ह्यधोर्ध्वं गन्धकं न्यसेत् ॥२८॥वालुकायत्रमध्यस्थां दिनैकं तु द्दढाग्निना ।पाचितां तु प्रयत्नेन खाड्गशीतलतांगताम् ॥२९॥तालेनाम्लेन सहितां मर्दितां हि शिलातले ।ततो द्वादश वाराणि पुटान्यत्र प्रदापयेत् ॥३०॥अनेन विधिना सम्यग्रजतं म्रियते ध्रुवम् ।रजतमारणस्य द्वितीय: प्रकार: ।तारमाक्षिकयोश्रूर्णमम्लेन सह मर्दयेत् ॥३१॥त्रिंशत्पुटेन तत्तारं भूतीभवति निश्चितम् ।पुटाधिक्यं हि लोहानां सम्यक् स्वाद्गुणकारि च ॥३२॥रज्जनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ।रजतभस्मगुणा: ।शुद्बं भस्मीकृतं रुप्यं सारघाज्यसमान्वितम् ॥३३॥नेत्ररोगानपि सदा क्षयजान् गुदजानपि ।पित्तजान् काससंभूतान् पाण्डुजानुदराणि च ॥३४॥दोषजानपि सर्वांश्च नाशयेदरुचिं सदा । ताम्रभेदा: ।ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम् ॥३५॥नेपालदेशजादन्यन्म्लेच्छं तत्कथितं बुधै: ।ताम्रशोधनम् कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत् ॥३७॥कुक्कुटाख्ये पुटे सम्यग्पुटयेत्तदनन्तरम् ।सूतगन्धकयो: पिष्टि: कार्या चातिमनोरमा ॥३८॥विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ।स्थालीमध्ये निरुन्ध्यात पचेद्यामचतुष्टयम् ॥३९॥पश्चदोषाविनिर्मुक्तं शुल्बं तेनैव जायते ।ताम्रमारणस्य द्वितीय: प्रकार: ।रवितुल्येन बलिना सूतकेन समेन च ॥४०॥तालकेन तदर्धेन शिलया च तदर्धया ।चूर्णं कज्जलसंकाशं कारयेन्मतिमान् भिषक् ॥४१॥ शरावसंपुटस्यान्त: पत्राण्याधाय यत्नत: ।उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥४२॥यामैकं पाचयेदग्रौ गर्भयन्नोदरान्तरे ।स्वाड्गशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥४३॥लेहयेन्मधुसंयुक्तमनुपानैर्यथोचितै: ।वल्लद्वितयमात्रं तु पूर्वाह्ये भिषजाज्ञया ॥४४॥परिणाभवं शूलं तथा चाष्टविधं च रुक् ।उदरं पाण्डुशोफं च गुल्म्ल्पीहयकृत्क्षयान् ।अग्निसादक्षयकृतान् मेहादीन् ग्रहणीदान् ।जयेद्भहुविधान् रोगाननुपानप्रयोगत: ॥४६॥ताम्रमारणस्य तृतीय: प्रकार: ।शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नते: ।तत्समाशस्य गन्धस्य पारदस्य समस्य च ॥४७॥तालकस्य तदर्धस्य शिलायाश्च तदर्धत: ।लाड्गलीचित्रकव्योषतालमूलीकरज्जकै: । ॥४८॥विषशम्याकातिविषासैन्धवैश्च समाशके ।जम्बीरद्रवकेनाथ चूर्णं चातिद्रवीकृतम् ॥४९॥तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नत: ।सूचीवेध्यानि पत्राणि रसेनालेपितानी च ॥५०॥कल्कमध्ये विनि:क्षिप्य दिनसप्तकमेव हि ।चूर्णीकृतं तु मध्वाज्यै: कणाद्वयसमन्वितम् ॥५१॥लेहितं वल्लमात्रं हि जरामृत्युविनाशनम् ।कथितं सोमदेवेन सरुजां सुखहेतवे ॥५२॥ताम्रमारणस्य चतुर्थ: प्रकार: ।शुद्धं शुल्वं गन्धकं वै समांशं पूर्वं स्थाल्यां स्थापयेग्द्न्धकार्धम् ।मध्ये शुत्बं स्थापनीयं प्रयत्नात्तस्योर्ध्वं वै गन्धचूर्णस्य चार्धम् ॥५३॥स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्त्रयाऽपि ।चुल्ल्यां च कुर्यादथ वह्यिमेव यामत्रणैव सुपाचितं भवेत् ॥५४॥शीतीभूतं दोषहीनं तवेव कृत्वा चूर्णं गालितं वस्त्रखण्डे ।सेव्यं सम्यक् वल्लमेकं प्रमाणं कासं श्वास हन्ति गुल्मप्रमेहान् ॥५५॥पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ।दुनार्मग्रहणीअरोगान्निहन्ति च रसायनम् ॥५६॥लोहभेदा: ।कान्तं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ।यथोत्तरं स्याद्गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक् ॥५७॥कान्तलोहभेदा: ।कान्तं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च ।संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञै: ॥५८॥रोमकलक्षणम् ।खन्यां संख्यमाने हि पाषाणा नि:सरन्ति ये ।तेभ्यो यद्रावितं लोहं रोमकं तत् प्रचक्षते ॥५९॥भ्रामकलक्षणम् ।यत्र कापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपल: ।तस्माज्जातं तु यल्लोहं भ्रामकं तदिहोच्यते ॥६०॥चुम्बकलक्षणम् ।विन्ध्याचतले भवेदश्मा लोहं चुम्बति चाद्बुतम् ।न मुश्चत्येव सततं विष्णुभक्तिं हि वैष्णव: ॥६१॥द्रावकलक्षणम् ।हिमाद्रौ लभ्यते दु:खाद्य: स्पष्टो द्रावयेदय: ।सुवर्णादींश्च तद्रूध्दि तत्कान्तं द्रावकं भवेत् ॥६२॥शुद्धकान्तलोहलक्षणम् ।शुध्दे कान्तभवे पात्रे श्रुतं दुग्धं हि नोग्दिरेत् ।पानीयं कथितं चास्मिन् हिड्गुगन्धसमं भवेत् ॥६३॥तैलबिन्दुर्जले क्षिप्तो नचातिप्रसृतो भवेत् ।लेपोऽपि नैव जायेत शुध्द्कान्तस्य लक्षणम् ॥६४॥मुण्डादीनामुत्तरोत्तरश्रेष्ठत्वम् ।मुण्डाच्छतगुणं तीक्ष्णम तीक्ष्णात्कान्तं महागुणम् ।कोटिसंख्यगुणं प्रोक्तं तस्मात्सेव्यं सदा बुधै: ॥६५॥लोहशोधनम् ।शशरक्तेन लिप्तं हि सप्तवारेण तापितम् ।कान्तादिसर्वलोहं हि शुध्यत्येव न संशय: ॥६६॥सामुद्रलवणैस्तद्रूल्लिपितं त्रिफलाजले ।निर्वापितं भवेच्छुद्बं सत्यं गुरुवचो यथा ॥६७॥लोहमारणस्य प्रथम: प्रकार: ।लोहचूर्णं घृत्ताक्तं हि क्षिप्त्वा लोहस्य खर्परे ।अग्निवर्णप्रभं यावत्तवद्दर्व्या प्रचालयेत् ॥६८॥खल्वे पिष्ट्वा च विपचेत्पश्चवारमत: परम् ।वरोदकै: पुटेल्लोहं चतुर्वारमिदं खलु ॥६९॥सुपेषितं वारितरं जायते नात्र संशय: ।अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥७०॥जायते सर्वरोगघ्नं सेवितं पलितापहम् ।लोहमारणस्य द्वितीय: प्रकार: ।लोहचूर्णं पलद्वन्द्वं गुडगन्धौ समांशकौ ॥७१॥खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम् ।पेषणं तु प्रकर्तव्यं पुट: पश्चात्प्रदीयते ॥७२॥अनेन विधीना सम्यग्भस्मीभवति निश्चितम् ।सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥७३॥श्वेतापुनर्नवापत्रतोयेन दशसंख्यका: ।पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥७४॥लोहमारणस्य तृतीय: प्रकार: ।अथापर: प्रकारोऽत्र कथ्यते लोहमारणे ।लोहचूर्णसमं गन्धं मर्दयेत्कन्यकारसै: ॥७५॥पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम् ।म्रियते नात्र सन्देहो ह्यनुभूतं मयैव हि ॥७६॥लोहभस्मगुणा: ।निरुत्थं लोहजं भस्म सेवेतात्र पुमान् सुधी: ।व्योषवेल्लाज्यमधुना टक्क्मानेन मिश्रीतम् ॥७७॥जरां च मरणं व्याधिं हन्यात्पुत्रप्रदं सदा ।गरदोषकृता रोगा न भवन्ति शरीरिणामऽ ॥७८॥वड्गभेदा: ।वड्गं तु द्विविधं प्रोक्तं खुरं मिश्रं ततैव च ।खुरवड्गलक्षणम् ।यच्छुध्दं सरलं शुभ्र खुरं तदभिधीयते ॥७९॥वड्गगुणा: ।वड्गं वातकरं रुक्षं तिक्तं मेहप्रणाशनम् ।कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥८०॥वड्गशोधनम् ।भल्लातकभवे तैले खुरं शुद्यति ढालितम् ।पुनर्नासिन्धुचूर्णविषयुक्तं प्रढालितम् ॥८१॥तक्रमध्ये त्रिवारं हि मिश्रं वड्गं विशुध्यति ।वड्गमारणस्य प्रथम: प्रकार: ।छोणोपरि कृते गर्ते चिश्चात्वकचूर्णकं क्षिपेत् ॥८२॥कर्षंमानां वड्गचक्रीं तत्रोपरि निधापयेत् ।चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्तत: ॥८३॥छगणेन विशुष्केण पुटाग्रिं दापयेत्तत: ।स्वाड्गशीतं समुद्रुत्य सर्वकार्येषु योजयेत् ॥८४॥अनेन विधीना शेषमपक्कं मारयेद्रुवम् ।वज्रमारणस्य द्वितीय: प्रकार: ।अथापर: प्रकारो हि वक्ष्यते चाधुना मया ॥८५॥शुद्बवड्गस्य पत्राणि समान्येव तु कारयेत् ।अजाशकृद्वरा तुल्या चूर्णिता च निशा तथा ॥८६॥चतुरस्त्रमथो निम्नं गर्तं हस्तप्रमाणकम् ।कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक् ॥८७॥तत: शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ।पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत् ॥८८॥चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत् ॥८९॥पुटयेदग्निना सम्यक् स्वाड्गशीतं समुध्दरेत् ।मृतं वड्गं तत: पश्चान्मर्दयेत्पूरवारिणा ॥९०॥समांशं रससिन्दूरमनेन सह मेलयेत् ।खल्वे द्दढतरं पिष्ट्वा काचकूप्यां निवेशयेत् ॥९१॥विपचेदग्नियोगेन यामषोडशमात्रया ।हेमप्रभं मृतं वड्गं जायते रसवड्गकम् ॥९२॥सर्वरोगान् हरत्याशु शक्तियुक्तं गुणाधिकम् ।यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम् ॥९३॥अशीतिर्वातजान् रोगान् तथा मेहांश्च विंशति : ।हन्ति भक्षकमात्रेण सप्तकैकेन नान्यथा ॥९४॥छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावमथोज्ज्वलम् ।कृष्णवर्णं बहि: शुध्दं नागं हितमतोऽन्यथा ॥९५॥नागशोधनम् ।निर्गुण्डिकाहरिद्रयो रसे नागं प्रढालयेत् ।एवं नागो विशुध्द: स्यान्मूर्छास्फोटादि नाचरेत् ॥९६॥नागमारणस्य प्रथम: प्रकार: ।शुध्दनागस्य पत्राणि सदलान्येव कारयेत् ।शिलां वासारसेनापि मर्दयेद्याममात्रकम् ॥९७॥पत्राण्यालेपयेत्तेन तत: संपुटके न्यसेत् ।पुटेन विपचेध्दीमान् वराहेण खराग्रिना ॥९८॥एवंकृते त्रिरात्रेण नागभस्म प्रजायते ।जायते सर्वकार्येषु रोगोच्छेदकरं सदा ॥९९॥नागस्य मारणं प्रोक्तं बहुधा बहुभिर्वुधै: ।सर्वथा सूतनागस्य शम्भोश्च मरणं नहि ॥१००॥प्रमेहान् वातजान् रोगान् धनुर्वातादिकान् गदान् ।विंशति: श्लेष्मजांश्वैव निहन्ति च न संशय: ॥१०१॥नागमारणस्य द्वितीय: प्रकार: ।अथापरप्रकारेण नागमारणकं भवेत् ।लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥१०२॥चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजै: ।अधस्ताज्जवालयेत्स्म्यग्घठाग्रिं म्रियतेध्रुवम् ॥१०३॥रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ।पित्तलभेदास्तल्लक्षणं च ।पित्तलं द्विविधं प्रोक्तं रीतिका काकतुण्डिका ॥१०४॥तप्ता तुषजले क्षिप्त्वा शुल्बवर्णा तु रीतिका ।निक्षिप्ता काज्जिके कृष्णा काकतुण्डी प्रजायते ॥१०५॥द्विविधपित्तलगुणा : ।रक्तपित्तहरा रुक्षा कृमिघ्री रीतिका मता ।काकतुण्डी कुष्ठहरा सोष्णवीर्या सरा मता ॥१०६॥श्रेष्ठरीतिकालक्षणम् ।पीताभा मृदु चेद्गुर्वी साराड्गी हेमवर्णिका ।मसृणाड्गी च सुस्निग्धा शुभा रीतीति कथ्यते ॥१०७॥हीनरीतिकालक्षणम् ।दुर्गन्धा पूतिगन्धा च खरस्पर्शा च पाण्डुरा ।घनघाताक्षमा रुक्षा रीतिर्नेष्टा रसायने ॥१०८॥रीतिकाशोधनम् ।तापिता चैव निर्गुण्डीरसे क्षिप्त्वा प्रयत्नत: ।पश्चवाराणि चायाति शुद्बिं रीतिस्तु तत्क्षणात् ॥१०९॥रीतिकामारणम् |शिलागन्धकसिन्धूत्थरसैश्चतिप्रमर्दितै: ।रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुन: ॥११०॥सद्यो भस्मत्वमायाति ततो योज्या रसायने ।कांस्यम् ।चतुर्भागेन रविणा भागैकं त्रपुरुत्तमम् ॥१११॥जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ।शुद्बे कांस्यमये पात्रे सर्वमेव हि भोजनम् ॥११२॥पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ।कास्यशोधनम् ।तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुद्बयति ॥११३॥कांस्यभस्मगुणा: ।मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम् ॥११४॥वर्तलोहलक्षणमं ।लोहकास्यार्करीतिभ्यो जातं तद्वर्तलोहकम् ।तदेव विडलोहाख्यं विद्वद्भि: समुदाह्यतम् ॥११५॥वर्तलोहगुणा: ।श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा ।नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥११६॥पाच्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम् ।क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥११७॥वर्तलोहशोधनम् ।हयमूत्रे द्रुतं सम्यड्रिक्षिप्तं शुध्दिमृच्छति ।वर्तलोहमारणम् ।गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥११८॥चतुर्थाध्यायोपसंहार: ।संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि ।अन्यानि शास्त्राणि सुविस्तराणि निरेक्ष्य यत्नात्कृतमेव सम्यक् ॥ N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP