संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| तृतीयोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - तृतीयोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश तृतीयोऽध्याय: । Translation - भाषांतर रसभस्मभेदा: ।अथ मया रसभस्म निगद्यते सकलसूतसुशास्त्रनियोगत: ।ससितकृष्णसुपीतसुलोहितं भवति वर्णचतुष्टयभूषितम् ॥१॥दरदात्पारदाकर्षणविधि: ।दरद अत्र सुरक्तसुशोभितो निखिलनिम्बरसेन विमर्दित: ।नियतयामचतुष्टयमम्लके घनरसे समभागविलोडित: ॥२॥डमरुकाभिधयत्रनिवेशितस्तदनु लोहराज: खटिकासमम् ।सुपयसा तवणेन विमर्दितं कुरु भिषग्वर यत्रसुरोधनम् ॥३॥नियतयामचतुष्टयमग्निना मृदु समं रसमत्र विपाचयेत् ।उपरि तत्र जलेन निषिश्चयेदिती भवेद्दरदाद्वरसूतक: ॥४॥अखिलशोधवरेण च वै यथा सकलकश्चुकदोषविवर्जित: ।बहुलदोषहरोऽपि भवेत्तथा भवति शुध्दतमो दरदोद्बव: ॥५॥रसकर्पूरविधि: ।विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकाड्क्षिका: ।पृथगिमाश्च चतुष्पलभागिका: स्फटिकशुध्दपलाष्टसमन्विता : ॥६॥सह जलेन विमर्द्य च यामकं लवणकाम्लजलेन विमिश्रिताम् ।उदितधातुगणस्य च मूषिकं सुरु विषं विनिवेशय तत्र वै ॥७॥डमरुकाभिधयन्त्रवरेण तं द्विदश्याममु पाचय वह्यिना ।पवनपित्तकफक्षयकारक: सकलरोगहर: परम: सदा ॥८॥गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रद: ।युवतिकामविलासविधायको भव्ति सूतवर: सुखद: सदा ॥९॥स घनसाररस: किल कान्तिदस्त्वखिलसुष्ठहर: कथितो मया ।उदयभास्कररस: ।विगतदोषकृतौ रसगन्धकौ तदनु तुड्गरसेन परिल्पुतौ ॥१०॥प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ।रुचिरकाचघटीविनिवेशितौ सिकतयत्रवरेण दिनत्रयम् ॥११॥कुरु भिषग्वर वह्यिमधस्तत: स च भवेदरुण: कमलच्छवि: ।उदयभास्करनाम सह रसो ह्ययं भवति रोगविघातकर: स्वयम् ॥१२॥मगधजामधुना सह गुज्जिकात्रयमितश्च सदा परिसेवित: ।ललितकामविधावभिलाषुक: स्थविरकोऽपि रतौ तरुणायते ॥१३॥गहदरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा ।सकलसूतकशास्त्रविमर्शनाद्दिजवरेण मया प्रकटीकृत: ॥१४॥ रक्तरस: । रसविदाऽपि रस: परिशोधितो विगतदोषकृतोऽपि हि गन्धक: ।विमललोहमये कृतखर्परे ह्यमलसाररज: परिमुच्यताम् ॥१५॥अतिकृशाग्नियुते द्रवति स्वयं तदनु तत्र रस: परिमुच्यताम् ।विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम ॥१६॥तदनु काचघटीं विनिवेश्य वै सिकतयत्रवरेण हि पाचित: ।द्विदशयाममध:कृतवह्यिना भवति रक्तरसस्तलभस्मसात् ॥१७॥गतबलेन नरेण हि सेवितो भवति वाजिकर: सुखद: सदा ।स च वलीपलितानि च नाशयेच्छतशरत्सु निरायमयकृत्परम् ॥१८॥ रसमाणिक्यम् ।विमलनागवरैकविभागिकं हरभागचतुष्टयमिश्रितम् ।सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥१९॥दिनमितं सुविमर्द्य च कन्यकास्वरस ऐनकरेऽतिविशोषयत् ।तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥२०॥दिवसयुग्मध:कृतवह्यिना स च भवेदरुग्ण: कमलच्छवि: ।सकलरोगविनाशनवह्यिकृब्दलकर: प्ररमोऽपि हि कान्तिकृत् ॥२१॥ नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारक ।स खलु कर्मविपाकजरोगहा विशदनागयतु: खलु पारद: ॥ २२॥ गन्धकजारणम् ।मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुक्ता ।रसवरं दशशाणमितं हि तत्सशुकपिच्छावरेण निधापयेत् ॥ २३॥ सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवेन वै ।स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥२४॥तदनु कुक्कुटनामपुटे शृतो ह्युपलकेन वनोद्भवलकेन वै ।विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकमश्रुते ॥ २५॥ स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्दिकर: परमो भवेत ।शतगुणं हि यदा परिजीर्यते रसवर: खलु हेमकरो भवेत् ॥ २६॥रसपोटली ।स शुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टित: ।द्दढतरामुपल्पय पर्पटी वसनबध्दकृतामपि पोटलीम ॥२७॥ उपरि नागर्सेन विलेपितां रविकरेण सदा परिशोषिताम् ।कनकपत्रसेन च सप्तधाऽप्य्वनिगर्ततले विनिवेशय ॥२८॥ अवनिगर्तमरत्निकमायतं द्विदशमड्गुलमेव सुनिभ्रकम् ।सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशाय पोटलीम् ॥२९॥उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम् ।द्विदशयामथाग्निमहो कुरु भवति तेन महारसपोटली ॥३०॥इति मया कथिता रसपोटली वलकरा सुकरा सुखसिद्बिदा । कृष्णभस्म् ।विशदसूतसमोऽपि हि गन्धकस्तदनु खल्वतले सुविमर्दित: ॥३१॥त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषित: ।विमललोहमये द्दढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै ॥३२॥करमिता सुकृताऽपि हि चुह्यिका ह्युपरि तत्र निवेश्य च भाजनम् ।अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत ॥३३॥तदनु वह्यिमध: कुरु वै द्दढं सततमेव हि यामचतुष्टयम् ।सुपच एव रसो जलदोपमो भवति वल्लमितो मधुनायुत: ॥३४॥कवलित: क्षयरोगगणापहो मदनवृध्दिकर: परमो नृणाम् ।स च वलीपलितानी विनाशयेत्सकलकुष्ठविनाशकर: परम् ॥३५॥शुध्दरसभस्म।मृदुमृदा परिकल्पितमुषिकां रसमिताड्गुलिकां भुवि संन्यसेत् ।रसवरं विमलं हि शोभितं सशुकपिच्छसमं परिमर्दितम् ॥३६॥रससमानमितधृतमुषया द्वितययुग्मकृतं परिमुद्रितम् ।कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्यिना ॥३७॥रसवरस्य हि विपाचनं यवमितं रसराजमयं तदा ।दिनमुखं प्रतिहन्ति सुभक्षितं सकलदोषकृतां विकृतिं जयेत ॥३८॥रसपर्पटी ।रसवरं पलयुग्ममितं शुभं रुचिरताम्रमय: समभागिकम् ।बलिवस्सं च घृतेन वेमर्दयेदतिकृशाग्निकृते द्रवति स्वयम् ॥३९॥तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम् ।द्रुतमय़ं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥४०॥विघटयेदथ तोहसुदर्विणा तनुमोचदलोपरिं ढाल्यते ॥४१॥भवति सारतमा रसपोटली सकलरोगविघातकरी हि सा ।कुरु समानकटुत्रयसंयुक्तां मरिचयुग्ममितां सुखदां सदा ॥४२॥अनुपाने प्रयोक्तव्या त्रिफला क्षौद्रसंयुता ।पर्पटीं भक्षयेत्प्रातस्तथा त्र्य़ूषणसंयुताम् ॥४३॥सन्निपातहरा सा तु पश्चकोलेन संयुता ।भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥४४॥कणाक्षौद्रेण सहिता सर्वशोफान्निकृतन्ति ।श्यामात्रिकटुकेनाऽपि वातजां ग्रहणीं जयेत् ॥४५॥गुग्गुलत्रिफलासार्धं वातरक्तं विनाशयेत् ।वातशूलहरा सम्यग्हिड्गुपुष्करसंयुक्ता ॥४६॥व्योषैर्कन्यारसैर्वाऽपि कफामयविनाशिनी ।दशमूलशृतेनापि वतज्वर्निबर्हणी ॥४७॥बाकुतीबीजकल्केन कण्डुपामे विनाशयेत् ।आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥४८॥गोमूत्रेणानुपानेन चार्शसां हि विनाशिनी ।नवमाल्यर्जुनश्चैव चित्रको भृड्गराजक: ॥४९॥शाल्मलीनिम्बपश्चाड्गं कल्हारश्च गुडूचिका ।निर्गुण्डी च समांशानि कारयेद्भिषगुत्तम: ॥५०॥चूर्णीकृत्य च तत्सर्वं पर्पटयाश्चनुपानकम् ।अष्टादश च कुष्ठानि निहन्त्येव न संशय: ॥५१॥पर्पटीरसराजस्य रोगान् हन्त्यनुपानत: ।अपथ्यं नैव चाश्रीयाद्दोषदूष्यव्यपेक्षया ॥५२॥द्वितीया रसपर्पटी ।शुद्धं रसं गन्धकमेव शुद्धं पृथक् समांशं कुरु यत्नतस्तत: ।एरण्डमूलस्य रसेन सूतं तथाऽद्रिकर्ण्या स्वरसेन मर्दयेत् ॥५३॥तं काकमाच्या: स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयै: ।क्रमेण सूतं हि दिनैश्चतुर्भि: शुद्धत्वमायाति हि निश्चयेन ॥५४॥ततस्तु गन्धं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे ।प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भुड्गरसे त्रिवारम् ॥५५॥कार्या तत: कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे ।प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥५६॥तस्यास्त्वधोर्ध्व प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि ॥५७॥सा जीरकेणैव तु रामठेन वातामशूलं ग्रहणीं सकामलाम् ।गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुध्दरसस्य पर्पटी ॥५८॥मयाऽपि सद्वैद्यहिताय नूनं प्रदर्शिताऽयं खलु रोगनाशिनी ।अन्यश्च सूतभस्म ।सूतं सुशुद्धं तवणैश्चतुर्भि: क्षारैस्त्रिभिश्चापि विमर्दयेश्च ॥५९॥संशोष्यं पश्चादपि हिड्गुराजिकाशुण्ठीभिरेभिश्च समं विमर्द्य वै ।रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम् ॥६०॥तस्यां निधायाथ रसस्य गोलकं तं खेदितं चाम्लरसेन सम्यक् ।यामाष्टकेनाग्रिकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ ॥६१॥भेकपर्ण्युरुबुभृड्गराजकै: शृड्गवेरगिरिकर्णिकारसै: काकमाचीरसविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवै: ॥६२॥सिन्धुवारकरसेन विमर्दितं मसृणखत्वतले त्रिवासरम् ।प्रतिरसं च विशोष्य हि भक्षयेद्गुज्जिकाध्दयमितं रुजापहम् ॥६३॥केकिमाहिषवरापराहपित्तकै: कच्छपस्य च रसेन मर्दितम् ।जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥६४॥य: श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहित: प्राप्नोति सौख्यं सदा ।लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥६५॥ N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP