संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| अष्टमोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - अष्टमोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश अष्टमोऽध्याय: । Translation - भाषांतर भवति गदगणानां नाशनं येन सद्योविविधरसविधानं कथ्यतेऽत्रैव सम्यक् ।रसनिगमसुधाब्धौ मथ्यमाने मयैवगणितरसशतानां संग्रह: प्रोच्यते वै ॥१॥अथ रसा:ज्वराडुंशो रस: ।सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजम्बुकस्य ।रुध्दाऽथ भाण्डे विपचेच्च चुल्ल्यां यामव्दयं शीतगतं समुध्दरेत् ॥२॥ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं विभजेत्प्रभाते ।तं नागवल्ल्या दलजैर्द्रवैश्च निहन्ति वातोद्रवकं ज्वरं च ॥३॥पारदं रसकगन्धतालकतुत्थटडंणयुतं सुशोधितम् ।मर्दयेच सममात्रमेकत: कारवेल्लजरसैर्दिनं तथा ॥४॥लेपयेच रविभाजनोदरे चाडुंलार्धमपि मानमेव हि ।ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयत्रमध्यत: ॥५॥धान्यकान्युपरि मुज्चितानि चेत् संस्फुटन्ति यदि शुध्दमित्यति ।जायतेऽतिरुचिरो ज्वरारिक: सेवितो ज्वरगणापहारक: ॥६॥माषमात्रमुषणै: समै: सदा पर्णखण्डसहितैश्च भक्षित: ।नाशयेध्दि विषमोद्रवान् ज्वरानन्धकारमिव भास्करोदय: ॥७॥तरुणज्वरारिरस: ।तालताम्ररसगन्धतुत्थकांश्छाणमात्रतुलितान्समानपि ।निष्कमात्ररुचिरां मन: शिलां मर्दयेत्रिफलकाम्बुभिर्द्दढम ॥८॥गोलमस्य च विधाय संपुटे पाचयेच पुटयोगत: सदा ।अर्कवज्रिपयसा सुभावयेत् सप्तवारमथ दन्तिकाशृतै: ॥९॥माषमात्ररसमेव भक्षितं शाणमानमरिचैर्युतं सदा ।सार्धनिष्कगुडमत्र योजितं तच्च सौरसदलव्दयावितम् ॥१०॥शीतपूर्वमथ दाहपूर्वकं व्द्याहिकं च सकलान् ज्वरानपि ।नाशयेध्दि तरुणज्वरारिक: सर्वदोषशमन: सुखावह: ॥११॥ज्वरघ्री गुटिका ।भागैक: स्यात्पारद: शोधितश्च एलीय: स्यात्पिप्पली श्रेयसी च ।आकल्लौ वै गन्धक: सार्षपेण तैलेनायं शोधितो बुध्दिमद्रि: ॥१२॥तुर्यान् भागानिन्द्रवल्लीफलानां कृत्वा चूर्ण शोषयेत्सूर्यतापे ।चूंर्ण वै तद्रावयेत्तद्रसेन माषैस्तुल्यां कारयेव्दै वटीं च ॥१३॥दत्त्वा चैकां जातसद्योज्वराय छिन्नाडांया: काथपानं विधेयम् ।दोषोद्रूतां संनिपातोद्रवां च जूर्तिं सम्यड्रांशयत्येष तीव्राम् ॥१४॥ज्वरकृन्तनो रस: ।शुध्द: सूतो गन्धको वत्सनाभ: प्रत्येकं वै शाणमावा विधेया: ।धूर्ताव्दीजं कारयेव्दै त्रिशाणं सर्वेभ्यो वै व्दैगुणा हेमवल्ली ॥१५॥सूक्ष्मं चूर्ण कारयेत्तत्प्रयत्नाद्देयं गुज्जाव्दिप्रमाणं च सम्यक् ।भक्षेदांर्द्र चानुपाने ज्वरार्त: सद्यो हन्यात्सर्वदोषान् ज्वरांश्च ॥१६॥ज्वरारिरस: ।सूतं गन्धं हिडुंलं दन्तिबीजं भागैर्वृध्दं कारयेच्च क्रमेण ।चूर्ण कृत्वा मर्दितं दन्तितोये गुज्जामात्रं भक्षितं जूर्तिहारि ॥१७॥ज्वरे सूर्यरस: ।एकं भागं वत्सनाभं च कुर्याव्द्दौ भागौ चेट्टकंणं दन्तिबीजम् ।त्रीण्येवैते हिडुंलस्यापि तुर्य: सद्यो जूर्तिं नाशयत्येष सूर्य: ॥१८॥प्रतिज्ञावाचको रस: ।शुध्दं सूतं भागमेकं तु तालाव्द्दौ भागौ चेव्देदसंख्या: शिलाया: ।ताम्रस्यैवं भागयुग्मं प्रकुर्याद्रल्लातं वा वेदभागं तथैव ॥१९॥अर्कक्षीरैर्भावयेच त्रिवारं कृत्वा चूर्ण कारयेद्रोलकं तत् ।स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैन्धवेना ॥२०॥धूमस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात खेदनं मन्दवह्रौ ।पश्चात्तोयेनैव भाव्यं च चूंर्ण गोलं कृत्वा मन्दवह्रौ विपाच्या ॥२१॥पश्चादेनं भक्षयेव्दै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ।तव्दत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदाषोत्थितां वै ॥२२॥ज्वराडुंशो रस: ।सूतगन्धविषकारवीकणादन्तिबीजमिति वर्धितै: क्रमात् ।मर्दितैश्च दशनिम्बुकद्रवै रक्तिकार्धतुलिता वटीकृता ॥२३॥भक्षिता ज्वरगणान्निहन्ति वै सद्य एव विनिहन्ति सूचिकाम् ॥२४॥ज्वराडुंशो रस: ।एक एव कथितस्तु सोमल: खेदितोऽपि सह चूर्णजलेन ।यामपूर्वमपि रक्तिकामितो भक्षित: सकलशीतजूर्तिहृत् ॥२५॥अथातीसारशमनान् रसान् संकथयामि वै ।भक्षिताश्चैव ये नित्यं सद्य:प्रत्ययकारका : ॥२६॥शुध्दं सूतं गन्धकं वै समांशं चित्रोन्मत्तैर्मर्दयेव्दासरैकम् ।चूर्णैरेतै: शडंमापुरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात ॥२७॥तस्याध:स्तादष्टयामं प्रकृर्याव्दह्रिं शीते कर्षमात्रं विषं हि ।दत्त्वा, घर्मे त्रीणि चापि पुटानि दद्यात्तव्दत् कन्यकाया रसेन ॥२८॥वल्लं योज्यं जीरकेणाथ भृडंया क्षौद्रैर्युक्तं भक्षितं च ग्रहण्याम् ।श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्श:सु विडंहे चातिसारे ॥२९॥सौभाग्यं वै हिडुंलोत्थं विषं च मारीचं वै हेमबीजेन युक्तम् ।कृत्वा चूर्ण सर्वमेतत्समांशं जम्बीरै र्हि मर्दितं यामयुग्मम् ॥३०॥गुज्जामात्रा निर्मिता भक्षिता च गुटी हन्यात्सन्निपातातिसारम् ।जातीपत्रं देव पुष्पं च शुण्ठी कडोंलं चेचन्दनं कुडुंमं च ॥३१॥कृष्णाचूंर्ण शुध्दमाकल्लकं स्यात् सर्वाण्येवं चूर्ण्यव्दै समानि ।सूतस्येवं भस्म मिश्रं प्रकृर्यात् भागं चैकं मिश्रयेन्नागफेनम् ॥३२॥खल्वे सर्व मर्दिंतं चैकयामं कार्या गोली वल्लमात्रा जलेन ।भक्षेद्रात्रौ पाययेत्तण्डुलोदं हन्यात्सर्वान् सर्वदोषातिसारान् ॥३३॥मारीचं चेट्ट्कंणं हिडुंलं च गन्धाश्मा वै पिप्पलीवत्सनाभम् ।धूर्तस्येवं बीजकानीह शुध्दान्येवं कृत्वा तच्च चूंर्ण विधेयम् ॥३४॥प्रात: सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेचातिसारम् ।दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यात्सर्वान् सर्वदोषातिसारान् ॥३५॥कर्पुरजातीफलजातिपत्रिकाधत्तूरबीजं जलराशिशोषणम् ।आकल्लकं व्योषमिदं समांशं व्दीपान्तरोत्था च कुबेरकाक्षम् ॥३६॥सर्वौषधार्धा विजया प्रदिष्टा जीर्णाहिफेनं च तया समानम् ।तदर्धभागं खलु वत्सनाभं स्यादेकतश्चात्र विधाय चूर्णम् ॥३७॥तद्रावितं भृडंरसेन सम्यक् कोलास्थिमात्रा गुटिका विधेया ।सा शीतवाते ग्रहणीगदे च अर्शोविकारे प्रबलातिसारे ॥३८॥मन्दे च वह्रौ स्मरपुष्टिकर्त्री साऽऽफेनसेवाकुलमुक्तिदात्री ।तारं स्वंर्ण माक्षिकं शुध्दलोहं भागं चैकं गन्धकं भागयुग्मम् ॥३९॥शुध्दं सूतं मारितं तत्रिभागं खल्वे संर्व मर्दितं वासरैकम् ।संर्व योज्यं हारिणे शृडंकेऽपि लेप्यं मृत्स्रा वाससा वेष्टितं च ॥४०॥वाराहाख्ये तत्पुटे गर्तमध्ये आरण्यैर्वै गोमयै: पाचयेध्दि ।उत्तार्यैनं स्वाडंशीतं प्रकुर्यात् खल्वे धृत्वा मर्दयेत्तं सुवैद्य: ॥४१॥पश्चादेनं खे रसेनाथ सम्यक् भृडांह्राया भावयेत्सप्तवारान् ।चूर्ण दत्त्वा लोध्रमुस्तामदाह्रच्छिन्नापाठाशक्रबीजोद्रवं च ॥४२॥कापित्थैर्वा स्वै रसै: सुशृतैर्वा भाव्यं संर्व त्रीणि वाराणि सम्यक् ।सम्यक् शुष्कं गालितं वस्त्रखण्डे माषं चैकं लेहितं माक्षिकेण ॥४३॥कृष्णाचूर्णैर्माषयुग्मैश्च युक्तं हन्याच्चायं ग्रहणीं दोषजां वै ।गन्धं यवक्षारमथाभ्रकं च सूतं विषं टकंणमेव शुभ्रम् ॥४४॥वचाग्रिमन्थं सममत्र कुर्याज्जयन्तिजम्बीरकभृडंजद्रवै: ।विमर्दयेत्तं त्र्यहमेव यत्नाद्रोलं विधायाथ विशोष्य सम्यक् ॥४५॥लोहस्य पात्रे च शरावकं वै दत्त्वा दृढं चोपरि मुद्रयेत्तम् ।अध्यर्धयामं शनकै: प्रकुर्याव्दह्रिं सुशीतं हि ततोऽवतारयेत् ॥४६॥रसेन तुल्यां प्रविषां प्रदद्यात् कपित्थभृडींरसमोचकैश्च ।देया बुधैर्भावनिकाश्च सप्त सूर्यातपे वै हि विमर्द्य खल्वे ॥४७॥तथेन्द्रबीजानि च धातकी च बिल्वस्य पत्रं च पृथक्समं स्यात् ।आसा रसैर्भावय चैकवेलं पश्चाच्च संमर्द्य विधाय चूर्णम् ॥४८॥रसं च वज्राख्यकपाटकं हि शाणैकमात्रं मधुनाऽ वलीढम् ।सवह्रिशुण्ठीबिडसैन्धवं च उष्णाम्बुना वा मथितेन सम्यक् ॥४९॥पीतं तद्रुग्रं ग्रहणीविकारं हिनस्ति वातप्रभवां रुजं च ।तथा कफोत्थां च सपैत्तिकां हि हन्यादतीसारहरं परं स्यात् ॥५०॥रालमोचरसनागफेनकं वत्सकातिविषमेव नागरम् ।चूर्णितं च मधुनावलेहितं वल्लमात्रमतिसारकं जयेत् ॥५१॥मिश्रदेशजमतीव शुध्दकं नागफेनमपि नागरावृतम् ।घर्षितं तु वरचन्दनैर्युतं कारयेच्च वटिकां सुशोभनाम् ॥५२॥रक्तिकात्रयमितां च भक्षयेत् पाययेत्तदनु तन्दुलोदकम् ।हन्ति चैवमतिसारकं सदा चामदोषमलनाशिनी भवेत ॥५३॥अडोंल्लमूलप्रभवा त्वचा च छायाविशुष्काऽथ विचूर्णिता वै ।चूर्ण लिहन् शाणमितं समाक्षिकं जयेदतीसाररुजं परं च ॥५४॥गन्धकाभ्ररसलोहभस्मकं शाल्मलीमुसलिकागुडूचीभि: ।भावयेत्रिफलकार्द्रकन्यकावह्रिशक्रजरसैश्च सप्तधा ॥५५॥जायते हि भुविजोऽमृतस्रव: प्लीहपाण्डुविनिवृत्तिदायक: ।वल्लयुग्मपरिमाणतस्त्वयं लेहितश्च घृतमाक्षिकान्वित: ॥५६॥शोफपाण्डुविनिवृत्तिदायक: सेवितश्च यवचिश्चिकाद्रवै: ।स्वर्णरुप्यमथ शाणमात्रकं शुध्दाताम्रमथ तत्समं कुरु ॥५७॥रसवरं सकलेन समं हि वै पिष्टिकां कुरु विमर्द्य च गोलकम् ।गन्धकेन परिवेष्टय गोलकं पाचयेच्च मतिमान् भिषक् सदा ॥५८॥भूमिमध्यनिहितं सुयत्रितं यामषटमथवाष्टकं तत: ।गन्धमन्यमपि निक्षिपेत्पुटे एवमत्र परिजारयेद्रुध: ॥५९॥निम्बुजेन परिपेष्य षडुंणं गन्धचूर्णमथ लोहचूर्णकम् ।योजयेच्च पलमानतस्तो लोहपात्रकुहरे पुटत्रयै: ॥६०॥पाचयेच्च चिरबिल्ववह्रिना पाण्डुनाशनरसस्ततो भवेत् ।वल्लमस्य मधुपिप्पलीयुतं लेहितं सकलपाण्डुनाशनम् ॥६१॥सूक्ष्मं ताम्रदलं विलेप्य बलिना सूतेन चापि तथास्थालीमध्यगतं सुपाचितमिदं यामव्दयं वह्रिना ॥नागं गन्धकसंयुतं च पुटितं चित्रार्द्रसंमिश्रितम्चूर्णीकृत्य समं सुशोमनरसं संयोजयेच्छास्त्रवित् ॥६२॥शोफपाण्डुकफवातनाशनो रक्तिकैकपरिमाणतस्त्वयम् ।सेवयेच्च लघु चान्नभोजनं तैलमम्लवणामिषं विना ॥६३॥पाण्डुसूदनरस: ।सूतं तीक्ष्णकमेव गन्धसहितं भागेन संवर्धितंपश्चात्खल्वतले विमर्द्य विधिना चूर्णीकृतं गालितम् ।कूप्यां संविनिवेश्य सुमृदया संलेपितायां पचेत् यामव्दादशमात्रकं हि सिकतायत्रेण वैद्य: सदा ॥६४॥प्रक्षिपेच्च वरशाल्मलीरसं त्रैफलं च गुडवल्लिकाद्रवम् ।पाचयेच्च मृदुवह्रिना दिनं स्वाडंशीतलमयं प्रगृह्य च ॥६५॥त्र्यूषणार्द्रकरसेन भावयेत्पाण्डुसूदनरसोऽयमीरित: ।शुष्कपाण्डुविनिवृत्तिदायको रोगराजहरण: प्रकीर्तित: ॥६६॥मृगाडंरस : ।सूक्ष्माणि पत्राणि हि हाटकस्य भूर्जोपमान्यप्यथ कारयेच्च ।तुल्यानि सूतेन समेन खल्वे क्षिप्त्वा त्वाहोरात्रमु तानि मर्दयेत् ॥६७॥ज्वालामुखीस्वरसकेन च काश्चनारकाथेन लाडंलीरसेन तथा विमर्द्य ।पिष्टी यथा दृढतरा भवतीह पश्चाद्रोलं विधाय रुचिरं सह टकंणेन ॥६८॥सर्वै: समानमथ गन्धवरं विशुध्दंगोलं विधाय रुचिरं रविघर्मशुष्कम् ।वस्त्रेण वेष्टितमिदं मृदया च लिप्तंतच्छ्रावसंपुटवरेऽपि विमुद्रितव्यम् ॥६९॥धांर्य ततो लवणपूरितभाण्डमध्येदद्यात्ततो छगणकैर्बहुभि: पुटं तु ।शीतं प्रयातमुपलक्ष्य तत: प्रयत्नाद्बृष्टा च पूर्वविधिवत् खलु यन्त्रमध्ये ॥७०॥दत्त्वा पुटं गजपुटेन च शीतमत्रभक्षेदिमं रसवरं सुखदं नृणां हि ।क्षौद्रेण युक्तमगधात्रयसंयुतोऽसावष्टाभिरुषणवरै: सह सेवनीय: ॥७१॥एकोनत्रिंशदथ रोगगणान्निहन्तियक्ष्माणमेव विनिहन्त्यतिशोषमुग्रम् ।नाम्रा मृगाडं उदित: सकलामयघ्र: सेव्यो मुदा धनवता पुरुषेण नित्यम् ॥७२॥हेमगर्भपोटलीरस: ।शुध्दं स्वर्ण कर्षमात्रं प्रकुर्यात्तव्दत्सूतं शोधितं मुष्टिमात्रम् ।घृष्टा पिष्टीं कारयेत्खल्वमध्ये गन्धो देय: शाणका: पश्चविंशत् ॥७३॥मंर्द्य संर्व काज्चनारद्रवेण कृत्वा गोलं निक्षिपेन्मूषिकान्त: ।मुद्रां दत्त्वा शोषयेद्रधराख्ये यन्त्रे चैनं पाचयेव्दासरान् त्रीन् ॥७४॥शीतं तं वै सर्वमुद्रृत्य दद्याच्छुद्रं गन्धं तत्समं मर्दयेच्च ॥७५॥कुर्यादेवं टडंणं चाष्टमांशं नागं दद्याट्ट्कंणादर्धभागम् ।सेहुण्डोत्थैर्दुग्धकैरेव पिष्टा लिम्पेदेवं तान्वराटांश्च सर्वान् ॥७६॥पश्चात्सम्यक् चूर्णालिप्तेऽथ भाण्डे दत्त्वा मुद्रां गर्तमध्ये निवेश्य ।पुटं पश्चाज्ज्वालयेन्नागसंज्ञं शीतं कृत्वा चोध्दरेत्तं रसं हि ॥७७॥पथ्यं ज्ञेयं यादृशं वै मृगाडें क्षारं चाम्लं वर्जयेच्च प्रयत्नात ॥७८॥मात्रा वल्लमिता धृता रसवरेष्वेवं यदा छर्द्यतेछिन्नाया: स्वरसस्तदा मधुयुत: पेयो जलं वा मधु ॥प्राय: श्लेष्मजरुग्गणेषु सगुडं दद्यात्सदा चार्द्रकं भृडींचूर्णसुयोजितो मधुयुतो लीढो विरेकापह: ॥७९॥कासं श्वासयुतं क्षयं ग्रहणिकामग्रेश्च सन्धुक्षण: पुष्टिं वै कुरुते बलं वितनुते कार्श्य परं नाशयेत् ॥हेम्रो गर्भरसो ह्ययं निगदितो व्याधेस्तु विध्वंसकोनाम्रा पोटलिकाभिधो रसवर: प्रोक्तो व्दितीय: खलु ॥८०॥व्दितीयपोटलीरस: ।भागा रसस्य खलु वेदमिताश्च हेम्र: पिष्टीं विधाय वरगन्धदशव्दिभागै: ।खल्वे निधाय किल कज्जलिकां तथैषांमुक्ताफलान्यपि च षोडशभागकानि ॥८१॥तुर्याशकानपि च शुध्दवराट्कांश्चशृडं तथा कलितटडंणभागमेकम् ।संर्व विमर्द्य खलु निम्बुकजै रसैर्वागोलं विधाय खलु संपुटके विदध्यात् ॥८२॥तन्मुद्रयेल्लवणभस्मवरेण सम्यक्हस्तप्रमाणकृतगर्तवरे सुपूर्य ।सद्रोमयैर्गजपुटं प्रमितं प्रदद्यात्तत्स्वाडंशीतलगतं च समुद्र्रेध्दि ॥८३॥पिष्टाऽर्धमाषमिह क्षौद्रघृतेन लिह्यादेकोनत्रिंशमरिचै: सह राजते वा ।सध्देमजे कृतवतेऽ प्यथ मृण्मयेऽपिस श्वासकासक्षयवातकृतेऽतिसारे ॥८४॥मन्दानले भवति पोटलिका व्दितीयासा सर्वरोगशमनाय बुधै: प्रदिष्टा ।राजमृगाडंरस: ।पलैकमानं रसभस्मकं हि स्याध्देमभस्मप्रभवं पलं च ।शुध्दस्य वडंस्य पलं च तव्दत्तथा च मुक्ता व्दिपलं प्रदद्यात् ॥८५॥पादांशतष्टडंणमेव सम्यक् खल्वे विमर्द्याथ सहाम्लवेतसा ।तद्रावयेव्दै यवकाज्जिकेन प्रमर्द्य संर्व दिनसप्तकेन ॥८६॥गोलं विधायाथ विशोषयित्वा मूषागतं तं खलु पाचयेयध्दि ।शीतं समुध्दृत्य ततो रसेन्द्रंविचूर्ण्य धार्य: स तु हेमपात्रे ।हेम्रस्त्वभावे रजतस्य पात्रे नान्यस्य पात्रेषु निवेशनीय: ॥८७॥अयं राजमृगाडांख्यो रोगराजस्य घातक: ।पथ्यं पूर्वोक्तविधिना कारयेन्मतिमान् भिषक् ॥८८॥लोकनाथरस: ।बुभुक्षित: शुध्दरसो व्दिभागस्तथा हि गन्धस्य च भागकौ व्दौ ।व्दयं समं चूर्ण्य विधाय कज्जलीं सूताव्दराटेषु चतुर्गुणेषु ॥८९॥निक्षिप्य संर्व खलु वै वराटे भागैककं टडंणकं विमर्द्य ।दुग्धं प्रदद्यादथ भानुजं वै मुद्रां विदध्यात्किल शोषयेच्च ॥९०॥यत्रे दृढे तं विनिवेश्य यत्नाव्दह्रिं चतुर्याममध: प्रकुर्यात् ।शडंस्य खण्डानि पलान्यथाष्टौ तत्संपुटस्यान्तरथो विवस्येत् ॥९१॥शरावसन्धिं खलु मुद्रयित्वा हस्तोन्मिते गर्तवरेऽपि धृत्वा ।पुटं प्रदद्यादथ नागसंज्ञं शीतं समुध्दृत्य तत: प्रयत्नात् ।पिष्टाऽथ खल्वे खलु सर्वमेवं वल्लव्दयं भक्षितमस्य सम्यक् ॥९२॥क्षौद्रेण युक्तं विनिहन्त्यशेषादेकोनत्रिंशद्रणरोगजां हि ।पीडां प्रकाण्डां न च संशयोऽस्ति संसेव्यमान: किल लोकनाथ: ॥९३॥सूचिकाभरणो रस: ।शुध्दं विषं पलमितं रसमेकशाणं चूर्णीकृतं तदनु काचशरावलिप्तम्मुद्रां विधाय सुदृढामपि यामयुग्मं तत्संपुटे कुरु भिषग्वर वह्रिमेवउध्दाटय संपुटमिदं शनकै: सुलग्रधूमं शनैरपि शनै: परिगृह्य यत्नात् ॥९४॥संवेशयेत्तदनु काचमये हि पात्रेसूच्या मुखे लगति तच्च प्रमाणमस्य ॥९५॥संमूर्छिते सकलदोषजसंनिपातेशस्त्राहतं दशमरन्ध्रगतं प्रघर्षेत् ।रक्तभेषजसंसर्गात् मूर्छितोऽपि हि जीवति ।तथैव कृष्णसर्पेण दष्टोऽपि न मरिष्यति ॥९६॥पज्चवक्रो रस: ।सूतं गन्धं कर्षयुग्मप्रमाणंतत्पादांशां कारयेव्दै शिलाख्याम् ।व्योषं ताप्यं पिप्पलीं तत्समानांप्रत्येकं वै भेषजं चूर्णयेच्च ॥९७॥भाव्यं पित्तैर्मत्स्यमायूरजैर्वैघर्मे कृत्वा सप्तावारं हि सम्यक् ।गुज्जायुग्मं भक्षित: पज्चवक्रोमूर्च्छा हन्यात्संनिपातोद्रवां वै ॥९८॥व्दीतीय: पज्चवक्रो रस: ।सूतं गन्धं टडंणं वत्सनाभं कृष्णं कृष्णां कारयेव्दै समांशान् ।धूर्तद्रावैर्मर्दितं वासरैकं चूर्ण कृत्वा गालितं सूक्ष्मवस्त्रै: ॥९९॥वल्लं भक्षेत् सन्निपाते सुतीव्रेसार्कक्वाथं नागरं चानुपानम् ॥१००॥पथ्यं दध्योदनं कांर्य जलयोगं तु कारयेत् ।कफप्रकोपे सक्षौद्रं सांर्द्र दद्यात्प्रयत्नत: ।अग्रिं प्रदीपयत्याशु ज्वरं हन्यात्रिदोषजम् ॥१०१॥उन्मत्तरस: ।सूतं गन्धं मर्दयेव्दासरैकंधूर्तद्रावैस्तुल्यमस्माच्च व्योषम् ।नस्ये दद्यात् संनिपान्निहन्ति ॥१०२॥संनिपाताज्जनरस: ।दन्तीबीजं निस्तुषं चाष्टनिष्कंकृष्णं कृष्णामूलसूतं त्रिनिष्कम ।भाव्यं द्रावै: पक्कजम्बीरजैर्वासप्ताहं वै मर्दयेत्तत्प्रयत्नात ॥१०३॥दत्तो रसश्चाज्जनेन संनिपातान् निहन्ति वै ।संनिपाताज्जनरस: कथित: शास्त्रवर्त्मना ॥१०४॥कनकसुन्दरो रस: ।स्वर्ण कुर्याच्चाष्टमाषप्रमाणं शुध्दं युग्मशाणोन्मितं हि ॥१०५॥ताप्यं कृत्वा शाणयुग्मप्रमाणंतव्दव्दडं त्रि:प्रमाणं सुवीरम् ।कुर्याल्लोहादष्टनिष्कान् विशुध्दात्नागं शुध्दं तोलकं हि प्रसिध्दम् ॥१०६॥लाडंल्याह्रामूलमेकं पलं स्यान्निम्बूतोयै: पेषयेत्तं दिनैकम् ।दद्यादेवं कुक्कुटाख्यं पुटं वै शीतं कृत्वा चूर्णयेत्तच्च सर्वम ॥१०७॥वल्लं देयं सन्निपाते सुतीव्रेसर्पे दष्टे स्थावरे जडंमे वा ।कुष्ठव्याधिं चाग्रिमान्द्यं त्वजींर्णनाशं कुर्यादार्द्रकस्यानुपानात् ॥१०८॥सन्निपातभैरवो रस : ।सूतं चैकं गन्धकं चेत्रिभागंखल्वे घृष्टा कज्जलीं कारयेच्च ।तारं ताम्रं वडंमेवाभ्रकं हिलोहं कुर्यात्सर्वमेकैकभागम् ॥१०९॥वह्रिज्वालावक्रवल्ल्यब्दनादा:शुण्ठी बैल्वं काथयेत्तद्रसैर्वा ।मंर्द्य यामं यत्नतोऽपि प्रकर्षात् कृत्वा गोलं वेष्टितं वस्त्रखण्डे ॥११०॥भाण्डे चांर्ध पूरयित्वाऽथ गोलंस्थाप्यं स्वेद्यं याममेकं हि पश्चात् ।कृत्वा चूर्ण काचकूप्यां निधायवह्रिं दद्याव्दालुकाख्ये व्दियामम ॥१११॥शुध्दं रक्तं विद्रुमं चूर्णयित्वाकर्षे कर्षे शाणमात्रं विदध्यात् ।व्यालस्येवं कालकूटं व्दिवल्लंप्रत्येकं वै भावितं सूर्यतापे ॥११२॥पश्चान्मुस्तावेतसं पिप्पलीं च मांसीं लोमां हेमवल्लीं च नीलीम् ।पत्रं चित्रात्कुष्ठकौठेरकं च रावं यष्टीं देवदालीं मधूकम् ॥११३॥मुण्डीं कृष्णां मूसलीं सर्वमेवकुर्याच्चूर्ण सर्वमेतत्समांशम् ।भाव्यं सम्यक श्यामधत्तूरजैर्वाद्रावैरेभिर्भावित्तं सप्तवारम् ॥११४॥चूंर्ण कृत्वा वल्लमात्रं प्रदद्यात्दोषैर्दुष्टे सन्निपाते ज्वरे च ।सर्वोन्मादे भूतदोषे तथोग्रेदेयं सम्यक् सन्निपातान्विहन्यात् ॥११५॥पश्चामृतो रस: ।मृतं सूतं तथा चाभ्रं ताम्रं च कान्तकम् ।मेलितं च समांशेन मर्दयेत्कन्यकाद्रवै: ॥११६॥घर्षितं जलयोगेन वटीमेकां च चूर्णयेत् ।भक्षितो वल्लमात्रं हि कृष्णाक्षौद्रेण संयुत: ॥११७॥कासश्वासान्निहन्त्याशु तम: सूर्यादये यथा ।वातनाशनो रस: ।सूतं स्वर्ण ताम्रकं वज्रमेवलोहं ताप्यं तालकं तुत्थकं च ।अब्धे: फेनं शुध्दसौवीरकं हिकृत्वा सम्यक् सर्वमेवं समांशम् ॥११८॥भागं चैकं कारयेव्दै रसोनंवज्रीक्षीरैर्मर्दितं तद्दिनैकम् ।रुध्दा सम्यग्भूधरे तं विपाच्यमाषं चैकं भक्षयेदार्द्रकेण ॥११९॥लिह्यादेवं पिप्पलीमाक्षिकेणकृष्णामूलकाथ अत्रानुपेय: ।सर्वान् वातान् वातजान्वै विकारान्हन्यात्सत्यं भाषितं भैरवेण ॥१२०॥विरेकीरस: ।तुल्यं सूतकठडंणं पलमितं गन्धात्पलं पिप्पलीशृण्ठीग्रन्थिकव्योषकान् व्दिपलिकान् प्रत्येकभागान् कुरु ।सर्वैरेव समांशनिस्तुषकृतं दन्तीफलं चूर्णयेत्गुज्जैक: सितया समं रसवर: संभक्षितो रेचकृत् ॥१२१॥इच्छाभेदीरस: ।शुण्ठीपिप्पलीटडंणं सदरदं प्रत्येकमेवाक्षकंहेमाह्वा पलमात्रकाऽत्र कथिता दन्तीफलं तत्समम् ।चूर्णीकृत्य समांशकानि सततं गोदुग्धकैर्भावयेत्वल्लैक: सितया समं रसवर: संभक्षितो रेचकृत् ॥१२२॥अग्रिरस: ।सूतं व्दिधा गन्धकभागयुग्मं कुर्याच्च खल्वेन अतु कज्जलीं हि ।तस्या: समं तीक्ष्णकचूर्णमेव संमर्दयेत्खलु रसेन च कन्यकाया: ॥१२३॥आच्छाद्य पत्रेण रुबूद्रवेन यामार्धकेनाप्यथ उष्णता भवेत् ।धान्यस्य राशौ विनिवेश्य सप्त दिनानि संमर्द्य ततो दृढं हि ॥१२४॥वस्त्रेण संगाल्य ततो हि यत्नात्तच्चूर्णकं वारितरं हि सत्यम् ।व्योषं चतुर्जातवरालवडं जातीफलैलं च समांशकानि ॥१२५॥संचूर्ण्य सर्व समभागतीक्ष्णं क्षौद्रेण लीढं खलु निष्कमात्रम् ।रसोऽग्रिनामा क्षयकासजूर्तीर्विनाशयत्येव न संशयोऽस्ति ॥१२६॥अग्रिदीपनरस: ।पारदामृतलवडंगन्धकं भागयुग्ममरिचेन मिश्रितम् ।अत्र जातीफलमर्धमागिकं तिन्तिडीकरसकेन मर्दितम् ।माषमात्रमनुपानमार्द्रकं सद्य एष जठराग्रिदीपन: ॥१२७॥वह्विसूतो रस: ।भागौ व्दौ वरशडंकस्य कथितौ दग्धावराटास्तथागन्धस्यैव तु चार्धभागसहित: सूतस्तथा योजित: ।कृष्णाभागयुतं विचूर्ण्य सकलं सव्दत्सनाभात्रयोभागा निम्बुरसैर्विमर्द्य सकलं संसेवितं चाग्रिकृत् ॥१२८॥सूर्यावतो रस: ।सूतं चैकं गन्धकं चार्धभागं कन्याद्रावैर्मर्दयेद्याममेकम् ।कल्केनानेनैव शुल्बस्य पत्रं लिप्तं पश्चात्पाचितं भाण्डमध्ये ॥१२९॥यामव्दन्व्दं खेदितं शीतलं वै गुज्जामात्रं भक्षितं हन्ति शोफम् ।कासं श्वासं जूर्तियुक्तं निहन्यात्सूर्यावर्त: सम्यगेव प्रसिध्द: ॥१३०॥स्वच्छन्दभैमरवरस: ।सूतं गन्धं ताप्यकं तालकं वै निर्गुण्डीवह्रयूषणं चाग्रिमन्थम् ।पथ्योपेतं शाणामात्रं पृथक् स्यात् खल्वे पिष्टा बीजपूरद्रवेण ॥१३१॥चूर्ण कृत्वा भक्षयेन्माषमात्रं कृष्णामर्पि: क्षौद्रयुक्तं प्रलीढम् ।सर्वान हन्याचातिसारान् सुधोरानामं वह्रेर्मान्द्यतां चापि सद्य: ॥१३२॥त्रिविक्रमरस: ।छागीदुग्धे ताम्रपत्रं विपाच्यं तत्ताम्रं वै सूतगन्धेन तुल्यम् ।कृष्णं चूर्ण सिन्दुवारेण घृष्टं गोल कृत्वा याममात्रं पचेत्तम् ॥१३३॥यत्रे पाच्यं वालुकाख्ये च सम्यक् शीतं कृत्वा भक्षितं गुज्जयुग्मंकाथश्वास्मिन् बीजपूरस्य पेयो मासेनैकेनाश्मरी नाशमेति ॥१३४॥नाम्नाऽयं त्रैविक्रमेण प्रसिध्दो वृध्दौ कृच्छ्रे विद्रधौ चाश्मरीषु ।तालकेश्वररस: ।तालमाक्षिकमन: शिला: समा: शुध्दसूतमथ टकंणं तथा ॥१३५॥चूर्णयेच्च रसतो व्दिगन्धकं गन्धतुल्यमथ ताम्रभस्मकम् ।लोहभस्म पलतुर्यकं तथा मर्दयेच्च पलपश्चकै रसै: ॥१३६॥चुक्रजैश्च विनिवेश्य संपुटे दापयेच्च पुटमत्र कुक्कुटम् ।मर्देयच्च पुनरेव तद्रसैर्निक्षिपेच्च मृतलोहशुल्बकम् ॥१३७॥वेदयुग्मपलमात्रकं क्रमाम्रिंशदंशविषमत्र योजयेत् ।माहिषाज्यमधुमिश्रितं सदा सेवयेच्च किल वल्लपश्चकम् ॥१३८॥सोमराजिफलचूर्णकर्षकं सर्पिषा मधुयुतं लिहेदनु ।तालकेश्ववररस: सदा बुधै: कथ्यते सकलकुष्ठहा खलु ॥१३९॥कुष्ठकुठारस: ।सूतभस्मसमं गन्धं मृतायस्ताम्रगुग्गुलु ।त्रिफला निम्बशुण्ठयौ च चित्रकश्च शिलाजतु ॥१४०॥इत्येवं चूर्णितं कुर्यात्प्रत्येकं निष्कषोडशम् ।चतु: षष्टिमितान् बीजान् करज्जात्तु प्रदापयेत् ॥१४१॥चतु: षष्टिमितं चाभ्रं मध्वाज्याभ्यां विलोडयेत ।स्रिग्धभाण्डगतं खादेव्द्दिनिष्कं सर्वकुष्ठजित् ॥१४२॥कुष्ठघ्ररस: ।शुध्दं सूतं गन्धकं वै व्दिभागं कन्यानीरैर्मर्दयेव्दासरैकम् ।शुध्दं लोहं मारितं भागमेकं गोलं कृत्वा लोहपात्रे निधाय ॥१४३॥किज्चित्किश्चिद्रोजलं तत्र सिश्चेच्चुल्यामग्रिं यामयुग्मं शनैश्च ।तीव्राग्रिं वै कारयेद्याममंर्ध स्वाडं शीतं चूर्णयेत्तत्प्रयत्नात ॥१४४॥वह्विं : काष्ठोदुम्बरी सोमराजी श्रेष्ठा तव्दद्राजवृक्षो विडंम् ।लेहं कृत्वा लेपयेद्दुष्टकुष्ठं गुज्जायुग्मं भक्षयेव्दै रसं च ॥१४५॥दद्रूकुष्ठं श्वेतकुष्ठं विचर्चीं सत्यं सत्यं नाशयेत्त्वग्गदांश्च ।सूर्यभक्तो रस: ।कर्तव्यं वै बाकुचीशुध्दचूर्ण काथेनापि भावितं खादिरेण ॥१४६॥प्रात:काले भक्षितं वै त्रिशाणं पेयं क्षीरं गोघृतं चानुपाने ।कुष्ठस्थाने स्फोटका: संभवन्ति सप्ताहाव्दै निश्चितं श्वित्रकुष्ठे ॥१४७॥नीलीं गुज्जां हंसपादीं कसीसं धत्तूरं वै सूर्यभक्तां तथा च ।तुल्यान्येवं लेपयेत्स्फोटकानां शान्त्यंर्थ वै मानव: सप्तरात्रात् ॥१४८॥श्वित्र कुष्ठं नाशमायाति सम्यक् नाम्रा चैवं सूर्यभक्तो रसो हिश्वित्रे लेप: ।गुज्जामूलं वह्विमूलं बलाया मूलं चाम्लैर्धर्षितान्येव सम्यक् ॥१४९॥श्वित्राण्याशु नाशयन्तीह लेपात् सूर्यज्योत्स्रा ह्यन्धकारं यथा हि ।सूताच्चैको वेदभागा बले:स्यु:खल्वे यामं मर्दयेन्निम्बुनीरै: ॥१५०॥अभ्रं ताम्रं लोहकं हिडंलं च प्रत्येकं वै कारयेच्चाम्रमात्रम् ।स्वंर्ण ताप्यं रुप्यकं बिल्वमेकं माषैकं वै मारितं वज्रचूर्णम् ॥१५१॥तालं शुध्दं कारयेन्मुष्टियुग्मं मंर्द्य वासावारिणा वासरैकम् ।धूर्तेणैवं वत्सनाभेन भाव्यमर्कक्षीरेणाथ जम्बीरजेन ॥१५२॥वज्रीक्षीरैर्मर्द्य वाजीविषेण कृत्वा गोलं वाससा वेष्टयित्वा ।सिक्तायत्रे स्वेद्यमेतद्दिनैकं पश्चादेनं चूर्णयेच्छ्लक्ष्णकं हि ॥१५३॥नागं शुध्दं योजयेन्मुष्टिमात्रं कृष्णाचूर्ण मुष्टिमात्रं प्रदद्यात् ।गुज्जायुग्मं भक्षयेन्माक्षिकेण सुप्तिं कुष्ठं मण्डलं नाशयेच्च ॥१५४॥बाकुची देवकाष्ठं च कर्षमात्रं सुचूर्णयेत् ।लिहेदेरण्डतैलेन ह्यनुपानं सुखावहम् ॥१५५॥स्वर्णक्षीरिरस: ।हेमाह्वापलश्चकं तु घटके तक्रे पचेव्दह्विनाजीर्णे तक्राघटे पुन: खलु घटॆ क्षीरे तथैवं पचेत् ।जीर्णे क्षीरघटॆ विशोष्य विधिवत्संचारयेद्यत्नतश्चूर्ण पश्चपलं हि वस्त्रगलितं कृत्वाऽथ संयोजयेत् ॥१५६॥कृष्णां हि व्दिपलां सुमूर्च्छितरसे त्वेकीकृतां भक्षयेत्रिष्कैकं मधुमिश्रितं घृतयुतं कुष्ठार्तिहृत्सर्वदा ।हेमाह्व: खलु कीर्तितो रसवर: सेव्य:सदा रोगिभि:कुष्ठच्याधिविनाशन: सुखकर: कान्तिप्रद: कामिनाम् ॥१५७॥मेहबध्दरस: ।भस्मसूतमृतकान्तलोहकं माक्षिकं च कुनटीं शिलाजतु ।व्योषमेव त्रिफलां कपित्थकं रात्रियुग्ममथ कुष्ठबीजकम् ॥१५८॥भृडंराजरसकेन भावयेदेकविंशतिदिनानि वै बुध: ।निष्कमात्रमथ माक्षिकेण वै लेहित: सकलरोगहृत्सदा ॥१५९॥मेहबध्दरस एष वै बुधा: सर्वमेहहरणो मयोदित: ॥१६०॥महानिम्बस्य बीजानि पिष्टा षट्संमितानि च ।पलतन्दुलतोयेन घृतनिष्कव्दयेन च ।एकीकृत्य पिबेच्चानु हन्ति मेहं चिरन्तनम् ॥१६१॥(एकीकृत्य विचूर्णयेच्च सकलं स्रुग्वह्विभृडंद्रवैर्भाव्यं सप्तदिनावधि क्रमगतं वातारितैलेन वै) ॥१६२॥एष: स्याध्दि महाग्रिनाम रसराट् पथ्ये जलं शीतलं वंर्ज्य क्षारमथाम्लकं शमयते संमूढवातं खलु ॥१६३॥विद्याधररस: ।तालं ताप्यं च गन्धं रविमथ च शिलां सूतकं चेत्समांशंखल्वे संमर्दितं वै तदनु वरकणाकाथकेनाथ भाव्यम् ।वज्रीक्षीरेण सम्यकिल सकलमिदं चूर्णितं वस्त्रपूतंनिष्कांर्ध भक्षयेव्दै जठरकृतगदान् हन्ति विद्याधरोऽयम् ॥१६४॥त्रिनेत्ररस: ।स्वर्ण टकंणमेव हारिणभवं शृडं तथा शुल्बकं सूतं वै समभागकं दिनमहो मंर्द्य रसैश्चार्द्रजै: ।खल्वे मर्द्य च वेष्टितं दृढपटे गोलं पुटेव्दह्विनायोगोऽयं गुदकीलहा निगदितो मध्वाज्यकै: सेवित: ॥१६५॥शूलगजकेशरीरस: ।शुध्दं सूतं गन्धकं चेति भागमेकं यामं मर्दयेव्दै दृढं हि ।शुध्दं ताम्रं चोभयोर्वै समांशं खल्वे घृष्टा गोलकं तव्दिधेयम् ॥१६६॥तद्रोलं वै धारितं संपुटे हि सामुद्राख्ये यत्रके सन्निधेयम ।दत्त्वा मुद्रां भाण्डवक्रं निरुध्य गंर्त कृत्वा छाणकै: पूरितं हि ॥१६७॥अग्रिं कृत्वा नागसंज्ञं पुटं हि दत्त्वा शीतं चोध्दरेत्तं प्रयत्नात् ।सूक्ष्मं चूर्ण पर्णखण्डे व्दिगुज्जं शूलान्यष्टौ नाशयेद्रक्षितं हि ।हिडुंशुण्ठीं जीरकं चोषणं वै चूर्ण कृत्वा पाययेदुष्णतोयै: ॥१६८॥अग्रितुण्डावटी : सूतं समं गन्धकवत्सनाभं यवानिकां चैव फलत्रिकं च ।क्षारव्दयं चित्रकसिन्धुजीरकं सामुद्रकं त्र्यूषणमेव रुच्यम ॥१६९॥समं प्रकुर्याव्दिषमुष्टिमेभिर्जम्बीरनीरेण विमर्दयेच्च ।वटीं च भक्षेदथ चाग्रिमान्द्ये तथा ह्यजीर्णेऽथ विषुचिकायाम् ॥१७०॥अजीर्णकण्टको रस: ।शुध्दं सूतं विडं गन्धं समं संर्व विचूर्णयेत ।मरिचं सर्वतुल्यांशं कण्टकार्या: फलद्रवै: ॥१७१॥मर्दयेद्रावयेदेवमेकविंशतिवारकम् ।वल्लमात्रां गुटीं खादेत्सर्वाजीर्णप्रशान्तये ।अजीर्णकण्टक: सोऽयं रसो हन्ति विषूचिकाम् ॥१७२॥मन्थानभैरवरस: ।सूतं ताम्रं हिडुं वाटयाह्वयं च गन्धं तालं सैन्धवं तिक्तकं वै ।तुल्यं संर्व देवदालीरसेन निर्गुण्डया वा मेघनादाद्रसैर्वा ॥१७३॥कोशातक्या मर्दयेव्दासरैकं चूर्ण कृत्वा भक्षयेन्माषमात्रम् ।क्षौद्रैर्युक्तं नाशयेच्छ्लेष्मरोगान् निम्वकाथं चानुपाने पिबेध्दि ॥१७४॥सूर्यावर्तो रस: ।सूतस्यार्ध गन्धकं चैव मर्द्य यामं चैकं कन्यकाया द्रवेण ।चूंर्ण कृत्वा ताम्रपात्रं विशुध्दं कल्कैरेभिर्लेपयेत्पाचयेच्च ॥१७५॥भाण्डे यत्रे वासरैकं प्रयत्नाच्छीतं कृत्वा चूर्णितं भक्षयेच्च ।गुज्जायुग्मं श्वासकासाग्रिमान्द्ये सूर्यावर्त: कथ्यते नामतोऽयम् ॥१७६॥भागमेकमिह सूतभस्मनो भागयुग्ममपि गन्धकस्य च ।सूतमानमपि हेमभस्मकं तारभस्म अपि चाभ्रसत्वकम् ॥१७७॥लोहभस्म अथ चार्कजं क्षिपेल्लोहपात्रजठरे प्रपाचयेत् ।द्राव्यता भवति तत्र वै यदा निक्षिपेच्च कदलीदले तदा ॥१७८॥आटरुषसुरसाजयन्तिकामुण्डिकात्रिफलकार्द्रभृडिंकामेघनादकटुकन्यकारसै: प्रत्यहं तु परिमर्दयेद्दृढम् ॥१७९॥वत्सनाभजरसैर्दिनत्रयं लोहपात्रनिहितं पचेत्क्षणम् ।जायते हि वरपर्पटीरस: शृडंवेरकरसेन योजयेत् ॥१८०॥वल्लयुग्ममितमानतस्त्वयं श्वासकासविनिवृत्तिदायक: ।पिप्पलीभिरनुपायेत्तथा काथमत्र सुरसाटरुषजम् ॥१८१॥अग्रिकुमाररस: ।सूतं चैकं गन्धकं च त्रिभागं नागं वडं शुल्बतारं च हेम ।अभ्रं लोहं तारमाक्षीकवज्रमेकैकं वै शोधयित्वा प्रदेयम् ॥१८२॥मुण्डीश्वेताकाकमाच्यश्वगन्धानिर्गुण्डयो वै भृडंराजेन युक्ता: ।रसैरेषां वासरान् त्रीन् प्रमर्द्यात्खल्वे सम्यग्गोलकं कारयेध्दि ॥१८३॥ततो घर्मे शोषयेत्तं च गोलं लेपा: सम्यक् पश्च मृद्रि: प्रदेया: ।भाण्डं चांर्ध पूरयेव्दालुकाभिर्ममध्ये गोलं निक्षिपेन्मुद्रयेच्च ॥१८४॥अग्रिं कुर्याद्यामषष्टयष्टमात्रं शीते सिध्दो जायते वै रसोऽयम् ।कृष्णाकाथैर्भावना: पश्च देया आर्द्रेणैवं भावयेत्पश्चवारान् ॥१८५॥ज्वालामुख्या: स्वै रसै: सप्तवारं भाव्यं चापि सूर्यवारं हि वह्वे: ।निर्गुण्डया वै भावना भानुमात्रा: पश्चात्कार्या वल्लमात्रा वटी हि ॥१८६॥देया सद्रि: पश्चमांशा हि कृष्णा तव्दच्छुण्ठी चूर्णिता तत्प्रमाणा ।कासे श्वासे मूत्रकृच्छ्रे ग्रहण्यामर्शोशोफे चाश्मरीमेढ्ररोगे ॥१८७॥मन्दे ह्यग्रौ वातरोगेऽथ शूलेऽपस्मरे वै सन्निपाते बलासे।सेव्योवल्लं चार्द्रकेणापि सम्यक् क्षारं चाम्लं वर्जयेच्चापिपथ्ये ॥१८८।कर्षौ व्दौ रसगन्धयोस्तु समयो: संमर्द्य व्यालस्य वैकर्षैकेन विषेण कज्जलनिभं काचस्य कूप्यां क्षिपेत् ।लिप्त्वा कर्पटमृत्स्रया सुविधिना संपाच्य यामाष्टकंज्ञात्वा शीतलमत्र विधिना मंर्द्य व्दिकर्षोषणै: ॥भक्षेद्रक्तिकमिक्षुशर्करयुतं नाम्रा रसोऽग्रिप्रदोमन्दाग्रिक्षयसन्निपातमरुतां नाशाय चायं वर: ॥१८९॥त्रिभुवनकीर्तिरस: ।शुध्दस्य ताम्रस्य दलानि कुर्यात्पलानि त्रीण्येव च गन्धकस्य ।पलव्दयं वै रुचकस्य चैकं पलं रसस्यापि विमर्द्य खल्वे ॥१९०॥चूर्ण विधायाप्यथ सिन्दुवाररसेन पत्राणि विलेपयेच्च ।तत्संपुटस्यान्तरतो निधाय विमुद्रा तत्संपुटमेव वह्वौ ॥१९१॥यामं तथैकं पुटयेच्च गोमयैर्जातं सुशीतं हि विचूर्णयेत्तत् ।तन्नागवल्लीदलमध्यतोऽपि वल्लैकमात्रं सकलोदरघ्रम् ॥१९२॥स्थौल्यापकर्षणो रस: ।सूतबोलमृततालताम्रकं चार्कदुग्धरसकेन मर्दितम् ।क्षौद्रयुक्तमपि वल्लमात्रकं भक्षितं च ह्यतिबृंहितं जयेत् ॥१९३॥तोयमेकपलमत्र मात्रया पानतोऽ प्यखिलमेहहारकम् ।वातमेहान्तको रस: ।सूतभस्म अपि वडंभस्मकं मर्दितं हि दिवसं जयारसे ॥१९४॥लेहितं च मधुना दिनत्रयं वातमेहविकृतिं प्रणाशयेत् ।प्रमेहाडंशरस: ।हेमबीजविषवडंसूतकं बलिवसाऽप्यथ चाभ्रभस्मकम् ॥१९५॥नागवल्लिजरसेन मर्दितं कामदं सकलमेहजित्तथा ।मेहारिरस: ।टडंणं च रसराजगन्धकं सीसकं च रसकेन संयुतम् ॥१९६॥नागवल्लिजरसेन मर्दितं सर्वमेहकृतरोगनाशनम् ॥१९७॥रसेन्द्रं रजतं ताप्यं गगनं ताम्रलोहकम् ।स्वर्ण च क्रमवृध्दनि मर्दयेत्पूरवारिणा ॥१९८॥अन्येन चाम्लवर्गेण मर्दयेत्सप्तवासरान् ।काचकूप्यां निधायाथ पचेद्यामाष्टकव्दयम् ॥१९९॥स्वाडंशीतलतं ज्ञात्वा गृह्वीयात्तं च मर्दयेत् ।आर्द्रकस्वरसेनैव द्रोणपुष्पीरसेन च ॥२००॥बृहत्या: पत्रतोयेन बीजतोयेन वा पुन:।प्रत्येकं दिनमेकं हि भावनां दापयेत्क्रमात् ।पिप्पलीमधुना सांर्ध चैतद्रुज्जाव्दयं भजेत ॥२०१॥स्थूलदुर्दिनविनाशने मरुत् स्थूलपर्वतविनाशने हरि: ।स्थूलदोषरसशोषणक्षम: स्थूलराजगजकेसरीरस: ॥२०२॥सूतं गन्धं टडंणं चेत्समांशं व्योषं मुस्तं वत्सनाभं वरा च ।सर्वेभ्यो वै निष्कमात्रं गुडेन खादद्रुज्जायुग्ममात्रां वटीं ही ॥२०३॥कुष्ठान मेहान् शोफशूलादिदोषान्हन्तीत्येवं सिध्दपश्चाननोऽयम ।एकं रसं गन्धकमेव शुध्दं व्दिभागमुक्तं च विमर्द्य खल्वे ॥२०४॥पकार्कपत्रोत्थरसेन यत्नात्पुनर्नवावह्विरसैश्च पाचयेत् ।तस्यार्धभागेन विषं प्रदत्वा चूर्णीकृतं वल्लमितं लिहेच्च ॥२०५॥शीतारि नामा च रसोत्तमोऽयं शीतस्य वातस्य निवारणाय ।सूतभस्म समहेमभस्मकं मौक्तिकं च रसपादटडंणम् ॥२०६॥गन्धमत्र कुरु सर्वतुल्यकं चूर्णितं तुषजलेन गोलकम् ।लेपयेन्मृदुमृदा विशोषितं पाचितं सिकतयत्रमध्यत: ॥२०७॥वासरैकमथ शीतलीकृतश्रूर्णितो मरिचमाक्षिकै: प्लुत: ।भक्षितो हि कुमुदेश्वरो रसो राजयक्ष्मपरिशान्तिकारक: ॥२०८॥यक्ष्महरो रस: ।शुध्दसूतविषके च हाटकं गन्धकेन सहितं समांशकम् ।मर्द्य चार्द्रकरसेन चित्रकै: प्रक्षिपेच्च सुदृढे सुभाजने ॥२०९॥ताम्रभाजनमथोपरिस्थितं रोधयेत्पटमृदा सदैव हि ।याममात्रपुटितं शनै: शनैर्निक्षिपेच्च जलमूर्ध्वभाजने ॥२१०॥ताम्रपात्रकुहरे रसो भवेद्रोगराजविनिबर्हणक्षम: ।स्वर्ण सूत शुध्दमेतव्द्दिशाणं युक्तं नागं गन्धकं चेत्समांशम् ॥२११॥वह्वेस्तोयैस्तच्च पेष्यं प्रयत्नाद्रोलं कृत्वा वेष्टयेत्तं मृदा च ।भाण्डं चार्ध पूर्य सामुद्रकेण गोलं धृत्वा छादितं त्र्यडंलेन ॥२१२॥लिम्पेद्राण्डं गोमयेनापि सम्यक वह्विं कृत्वा याममेकं तृणैश्च ।पूर्णश्च्न्द्र: कीर्तितोऽ यं रसो हि यक्ष्मारोगान्नाशयत्येव सम्यक् ॥२१३॥सर्वान् वातान् श्लेष्मरोगान् यथा वै पूर्णश्चन्द्रो नाशयत्यन्धकारम्नागं सूतं गन्धकं वत्सनाभं रसैर्मर्द्य कन्यकाया दिनैकम् ॥२१४॥गोलं कृत्वा निक्षिपेद्राण्डमध्ये संछाद्यं वै श्रावकेनापि सम्यक् ।मुद्रां दत्त्वा भूतिसामुद्रकेण यामं चैकं मन्दवह्वौ विपाच्य ॥२१५॥वल्लं चैकं भक्षितं क्षौद्रयुक्तं यक्ष्मारोगं नाशयेध्दि प्रसह्य ।सूतगन्धविषमेव कारयेद्रागवृध्दमथ मर्दयेत्तत: ॥२१६॥आर्द्रवह्विजरसेन यत्नत: पाचितो हि लवणाख्ययत्रके ।भक्षितो हि किल वल्लमात्राया क्षौद्रकेण सह पिप्पलीयुत: ।पूर्णचन्द्रवदयं हि सेवितो यक्ष्महा भवति वातरोगहा ॥२१७॥स्वर्ण सूतं तथा गन्धं मर्दयेत्कन्यकाद्रवै: ।पश्चाद्रोलं विधायाथ शरावसंपुटॆ पचेत् ॥२१८॥स्वाडंशीतं समुध्दृत्य चूंर्ण कृत्वा प्रयत्नत: ।भक्षयेव्दल्लमात्रं तु त्रिदोषजरुजं जयेत् ॥२१९॥सूतकं च मृततारभस्मकं गन्धकेन सहितं समांशकम् ।मर्दितं हिखलु भृडंवारिणा चार्धयाममपि कुकुटे पुटॆ ॥२२०॥पाचितं हि सकलं विचूर्णितं लेहितं हि मधुशर्करायुतम् ।पित्तदोषशमनं मयोदितं पित्तकृन्तनमिदं प्रशस्यते ॥२२१॥पारदं च मृतशुल्बगन्धकं नागवल्लिजरसेन पेषितम् ।पाचितं च मृदुवह्विना घटीयुग्ममेतदखिलं विचूर्णितम् ॥२२२॥भक्षितं च गुडमिश्रमार्द्रकै: श्लेष्मदोषविनिवृत्तिदायकम् ।लोहभस्म रसभस्म ताप्यकं गन्धकेन सहितं समांशकम् ॥२२३॥वत्सबीजकरसेन भावितं लेहितं सकलमेहनाशनम् ।वडंभस्म रसभस्म गन्धाकं धातकीस्वरसकेन मर्दितम् ॥२२४॥लेहितं मधुयुतं हि मेहजिव्दल्लयुग्ममतिसारनाशनम् ।वज्रभस्म रसभस्म मौक्तिकं मर्दितं च खलु निम्बुवारिणा ॥२२५॥ तच्च कुकुटपुटेन पाचितं चूर्णयेन्मधुयुतं हि वल्लकम् ।वर्षमात्रमपि सेवितं जयेन्मृत्युमेव सकला रुजा अपि ॥२२६॥पारदं गन्धकं विश्वा टडंणं विषमुष्टिकम् ।स्वर्जिका मरिचं कृष्णा समभागानि कारयेत् ॥२२७॥विडडं चाभया दन्ती त्रिवृत्रेपालकं तथा ।पूर्वचूर्णसमान्येव भृडंद्रावेण भावयेत् ॥२२८॥गुज्जाप्रमाणवटिका भक्षिता शीतवारिणाविरेचयत्यवश्यं हि कृमीरोगान् ज्वरानपि ।विनाशयति वै सम्यक् सत्यं गुरुवचो यथा ॥२२९॥मुक्ताफलं विद्रुमकं रसेन्द्रं गन्धं समांशानि ततो विदध्यात् ।तव्दीजपूरस्य रसेन मर्दितं गोलं हि कृत्वा वसनेन वेष्टयेत् ॥२३०॥मृदा सुलिप्तं परिशोषितं च तच्छ्रावके संपुट्येच्च वह्वौ ।चूर्णीकृतं वल्लमितं च भक्षितं स्याद्रोगराजस्य निकृन्तनं हि ॥२३१॥तालं ताप्यं गन्धकं सूतकं च शिलाह्वं वै खेचरं चेत्समं हि ।चूर्ण कृत्वा चाटरुषेण मंर्द्य सार्द्रेणैवं सौरसाया रसेन ॥२३२॥मर्दितं हि तदनु ताम्रनिर्मिते धारयेच्च सकलं हि संपुटे ।मृत्स्रया च परिवेष्टय संपुटं पाचयेच्च सततं दृढाग्रिना ॥२३३॥यामयुग्ममितमेव मात्रया यत्रके हि कुरु शीतलं स्वयम् ।जायतेऽतिरुचिरो महारसो पूर्ववद्रवति भास्करोदय: ॥२३४॥चिद्रकार्द्रकरसेन योजितो राजयक्ष्मकफवातनाशन: ।तारं वज्रं स्वर्णताम्रं च सूतं लोहं गन्धं भागयुग्मं प्रकुर्यात् ॥२३५॥कन्याद्रावैर्मर्दयेदेकयामं चूर्ण कृत्वा काचकूप्यां निवेश्य ।कूपीं चापि पूरयेत्सिन्धुचूर्णैर्मुद्रां दत्त्वा शोषयेत्तत्प्रयत्नात ॥२३६॥वह्वि कुर्याव्दासरैकं प्रयत्नात शीतं जातं खल्वमध्ये विचूर्ण्य ।अर्कक्षीरेणाथ भाव्यं हि सर्व कासस्वैवं पद्यकन्दस्य नीरै: ॥२३७॥मौशल्या वै गोक्षुरस्य द्रवेण त्रिस्त्रिर्वेलां भावनां च प्रदद्यात् ।काकोल्या वै वाजिगन्धाशताह्वदु: स्पर्शाणां वै स्वै रसैर्भावयेच्चचूर्ण कृत्वा मिश्रयेव्द्योषचूंर्ण कर्पूरं वै कुडुंमैलालवडंम् ॥२३८॥कस्तूरीं वै पूर्वचूर्णात्षडंशां कार्या सर्वै: शर्करा वै समा च ॥२३९॥भक्षेच्चैनं निष्कमात्रं प्रयत्नाद्रोक्षीरं वै चानुपाने विधेयम् ।मिष्टाहारं सेवयेच्चैव नाम्लमोजस्तेजो वर्धते वै बलं च ॥२४०॥सौन्दंर्य वै जायते सुन्दरीणां वृध्दि: कामे नैव हानिश्च विर्ये ।तस्मात्सेव्य: कामदेवो रसोऽयं वृष्येषूक्तो योग एषो वरिष्ठ: ॥२४१॥सूतं वज्रं नागमुक्ताफलं च तारं स्वंर्ण चाभ्रकं तीक्ष्णवडौं ।प्रत्येकं वै कर्षयुग्मप्रमाणं मंर्द्य संर्व वाजिगन्धारसेन ॥२४२॥क्षिप्त्वा शृडें हारिणे वै प्रयत्नात्पक्त्वा शृडं कोमलेनाग्रिना वै ।भाव्यं पश्चात्ताम्रपुष्पीरसेन द्राक्षावंश्यायष्टिकांना शृतैश्च ॥२४३॥भद्रौदन्या वर्षपुष्या: कसेरोर्गाडेंरुक्या भावयेच्चापि नीरै: ।सर्वासां वै भावयित्वा रसैश्च चूर्ण कृत्वा शोषयित्वा च सम्यक्एला पत्रं त्वग्लवडांगुरु च वंश्या मुस्ता केसरं चैव कृष्णा ॥२४४॥कस्तुरी चेव्दल्लकं वै घनाच्च पूर्वे चूर्णे मिश्रयेदष्टमांशम् ॥२४५॥एतच्चूर्ण शाणमात्रं प्रगृह्य रात्रौ खादेदक्षयं वीर्यमिच्छन् ।धात्र्याश्रूंर्ण कारयेव्दै विदार्याश्रूर्ण कृत्वा कर्षमात्रं च सर्पि: ॥२४६॥तुल्यं भक्षेच्चानुपानप्रयोगे क्षीरं पेयं साधितं माहिषं वै ।भागत्रयं पारदमेव कुर्याद्रागोऽथ हेम्रश्च तथाऽभ्रकस्य ॥२४७॥मन:शिलागन्धकतालकेभ्यो भागव्दयं सर्वमथो विचूर्ण्य ।संपूर्य तेनैव वराटकानि मुद्रां च कुर्यादथ ट्डंणेन ॥२४८॥दुग्धेन चाजेन विमुद्रितानि मृद्राण्डमध्येऽथ विधारयेच्च ।वाराहनाम्रा पुटकेन पक्त्वा तत्स्वाडंशीतं हि विचूर्णयेच्च ॥२४९॥भक्षेत्रिगुज्जं खलु पिप्पलिभि: क्षौद्रेण सांर्ध सकलामयघ्र : ।मन:शिलामाक्षिकतालगन्धं सूतं तथा खर्प्ररमेव तुल्यम् ॥२५०॥संमर्दितं चार्द्ररसेन सम्यग्वासारसैश्चेत्सुरसारसेन ।आपूरितं ताम्रजपात्रमध्ये तत्संपुटं वै त्रिदिनं प्रपाचयेत् ॥२५१॥तं स्वाडंशीतं हि समुध्दरेव्दै वल्लोन्मितं तं परिभक्षयेच्च ।वातोद्रवान् हन्ति समस्तरोगान् तथा च श्लेष्मोद्रवरोगसंघान् ॥२५२॥रसकं दरदं ताप्यं गगनं कुनटीसमम् ।सूतं समांशकं दद्यादम्लवेतसजै रसै: ॥२५३॥मर्दयेद्दिनमेकं तु सूर्यघर्मे शिलातले ।पचेत्तं वालुकायत्रे दिनमेकं रसं खलु ॥२५४॥स्वाडंशीतं समुध्दृत्य चूर्णीकृत्य प्रयत्नत: ।निम्बूरसेन गुटिका कर्तव्या चाढकीसमा ॥२५५॥सर्वज्वरहरा प्रोक्ता गुल्मोदरविनाशिनी ।गुटिका खेचरी प्रोक्ता देहलोहविधायिनी ॥२५६॥सूतभस्म दरदं विशोधितं तालसत्वमिति चैकभागिकम् ।गन्धंक च सममत्र मर्दितं भृडंराजरसकेन संयुतम् ॥२५७॥काकमाचिजरसैश्च मर्दितं कुकुटाख्यपुटपश्चकेन हि ।पाचितं हि सितया समं सदा सेवितं सकलरोगघातकम् ॥२५८॥वडं चाभ्रं शोधितं तालकं हि सूतं शुध्दं वत्सनाभं तथैव ।सौवीरं चेट्टकंणं चैव व्योषं वडं युग्मं भागमत्रैव कुर्यात् ॥२५९॥अभ्रं कुर्यात्रीणि भागानि सम्यक् सूतं चैकं तालकं वै त्रिभागम् ।नागं चैकं टडंणं वेदभगं सौवीराव्द्दौ कल्पनीयौ हि भागौ ॥२६०॥खल्वे मंर्द्य सर्वमेकत्र वज्रिक्षीरे चार्के वासरैकं प्रयत्नात ।पश्चात्क्षेप्यं काच्कूप्यां हि संर्व कूपीवक्रं ताम्रपत्रेण रुन्ध्यात् ॥२६१॥मुद्रां कृत्वा पाच्य यामाष्टयुग्मं शीतं कृत्वा पूर्ववन्मर्दनीयम् ।एवं कुर्यात्रीणि वाराणि शुध्दं कल्कं जातं षोडशांशेन ताम्रम् ॥२६२॥शुभ्रं कुर्यात्सर्वरोगप्रणाशं सत्यं चैतद्राषितं भैरवेण ।सेव्यं वल्लं वर्षमेतात्प्रयत्नाव्दृध्दत्वं नो जायते सर्वकालम् ॥२६३॥रसं सिन्दुरनामानं गन्धतैलेन मर्दितम् ।भक्षयेव्दल्लमात्रं हि अश्मरिरोगघातकम् ।लोट्टाकमूलस्वरसं शर्करासंयुतं पिबेत् ॥२६४॥श्वेताम्बरी तथा श्वेता चाश्वगन्धा पुनर्नवा ।तासां रसेन संमर्द्य पारदं दोषवर्जितम् ॥२६५॥गन्धकेन व्दिभागेन कारयेद्रोलमुत्तमम् ।स्वेदयेद्याममंर्ध तु भक्षितं चाश्मरिप्रणुत् ॥२६६॥सूतकं मरिचं शुण्ठी टडंणं चामृतं तथा ।गन्धकं चैकचत्वारिवेदवह्विधराधरा: ।चूर्णितो मधुना लीढो वाते त्रिपुरभैरव: ॥२६७॥वेदवेदरसपृथ्व्य: शुण्ठीमरिचटडंणा: ।चतुर्थो वत्सनाभश्च वाते त्रिपुरभैरव: ॥२६८॥यष्टीहिडुंवचाशिग्रुशिरीषलशुनामयै : ।साजमूत्रैरपस्मरे सोन्मादे नावनाज्जनम् ॥२६९॥मनोह्वा तार्क्ष्यजं चैव शकृत्पारावतस्य च ।अज्जनं हन्त्यपस्मारमुन्मादं च विशेषत: ॥२७०॥तालकं निम्बतैलेन मर्दितं वटकीकृतम् ।अज्जने क्रियमाणे च ज्वर: शान्तिमुपैति हि ॥२७१॥निम्बतैलेन संमिश्रं पारदं गन्धकं तथा ।क्रिमिजित्काथसंयुक्तं कृमिकोटिविनाशनम् ॥२७२॥रसं विषं गन्धकतालकं हि कटुत्रिकं वै त्रिफलासमेतम् ।सटडंणं वै जयपालबीजं संमर्दितं भृडंरसेन पश्चात् ॥२७३॥मुद्रप्रमाणा गुटिका विधेया संसेविता षष्टयनुपानयोगै: ।सर्वा रुजो वै विनिहन्ति शीघ्रं गुटी प्रकर्षाध्दयचोलिकेयम् ॥२७४॥प्रकाशामृतके ग्रन्थे प्रोक्ताश्चैते महारसा: ।शतसंख्यामिता: श्रेष्ठा: सर्वे रोगगणापहा: ॥२७५॥इति कथितरसानां संग्रहं सत्ययुक्तं पठति परमबुध्दया वैद्यविद्याविधिज्ञ:स भवति रसवेत्ता भूपगेहेऽतिमान्य: ॥२७६॥इति पद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरेशतरसनिरुपणं नामाष्टमोऽध्याय: । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP