रसप्रकाशसुधाकरः - नवमोऽध्याय: ।

श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।


अथौषधीनां नामानि कथ्यन्ते
दिव्यौषधीनं नामानि कथ्यन्तेऽत्र मयाऽधुना ।
चतु:षष्टिमिता: सम्यग्रसबन्धकरा: परा: ।
सोमवल्ली तथा सोमवृक्ष: सोमकलालता ॥१॥
भूपद्यिनी गोनसा चेदुच्चटा चेश्वरीलता ।
भूतकेशी कृष्णलता लशुनी च रुदन्तिका ॥२॥
वाराही सप्तपत्रा च नागिनी सर्पिणी तथा ।
छत्रिणी चैव गोशृडीं ज्योतिर्नाम्री च रक्तिका ॥३॥
१ अत्रोक्तानां दिव्यौषध्यादीनां मध्ये कासांचिल्लक्षणानि रसेन्द्रचूडामणौ षष्ठा ध्याये, रससारे विंशतितमे पटले, अन्यत्र चोक्तानि, परं विस्तरभीत्या तानि सर्वाण्यत्र न लिखितानि, अतस्तत्तद्रन्थेष्वेव द्रष्टव्यानि ।
पत्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ।
पीतवल्ली च विजया महौषध्यमरीलता ॥४॥
नवनीता रुद्रवल्ली लम्बनी भूमितुम्बिका ।
गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी ॥५॥
त्रिदण्डी करसी भृडंवल्ली चमरिका तथा ।
करवल्लीलता चैव वज्राडीं चिरवल्ल्यपि ॥६॥
रोहिणी बिल्विनी भूतशोचनी चैव कथ्यते ।
मार्कण्डी च करीरी च अक्षरा कुटजा तथा ॥७॥
मूलकन्दाऽम्बुवल्ली च मुनिवल्ली च कीर्तिता ।
घृतगन्धा निम्बुवल्ली तिलकन्दाऽतसीलता ॥८॥
बोधवल्ली सत्वगन्धा कूर्मवल्ली च माधवी ।
विशाला च महानागी मण्डूकी क्षीरगन्धिका ॥९॥
चतु:षष्टिरिति प्रोक्ता दिव्यौषध्यो महाबला: ।
एकैकाया रसेनापि सूतो बन्धत्वमाप्रुयात्‍ ॥१०॥
अनया साधित: सूतो जरादारिद्यनाशन: ।
तास्तु लक्षणसंयुक्ता: सोमदेवेन भाषिता: ॥११॥
ग्रन्थविस्तरभीत्याऽत्र नाममात्रेण कीर्तिता: ।
रसौषध्य: ।
अत:परं रसौषध्य: प्रोच्यन्ते शास्त्रवर्त्मना ॥१२॥
जलोत्पला चिश्चिका च जलापामार्गमांसिके ।
जलकुम्भी मेघनादा ईश्वरी चापराजिता ॥१३॥
मालार्जुनी वेणुका च शिखिपादी च तिक्तिका ।
काश्मर्यतिविषा प्रोक्ता सभडां जालिनी तथा ॥१४॥
तुषाम्बुका च दुर्गन्धा पाषाणी शुकनासिका ।
वनमाली वराही च गोजिह्वा मुशली तथा ॥१५॥
पटोली शठिका मूर्वा पाटला जलमूलका ।
रसाजमारी कथिता शीशिका सितगन्धिनी ॥१६॥
पोतकी च विषघ्री च बृहती गुरडी तथा ।
तुलसी च विदारी च मज्जिष्ठा चित्रपालिका ॥१७॥
जलपिप्पलिका भार्गी मण्डूकी चोत्तमा तथा ।
चन्द्रोदका सारिवा च हरिणी कुकुटापि च ॥१८॥
सर्पाक्षी हंसपादी च वनकूष्माण्डवल्लिका ।
मर्कस्फोटी धन्वयास: पागव: स्थलसारिणी ॥१९॥
अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ।
अलम्बुषा च हलिनी रसचित्रा च नन्दिनी ॥२०॥
वृश्चिकाली गुडूची च वासा शृडीं च कथ्यते ।
अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबला: ॥२१॥
सूतस्य मारणे प्रोक्ता जारणे च नियामने ।
महौषध्य: ।
अष्टषष्टिर्महौषध्य: प्रोच्यन्ते रसशास्त्रत: ॥२२॥
ऋध्दि: शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ।
ज्योतिष्मती तेजवती रास्रा बाकुची बिम्बिका ॥२३॥
विषाणिका चाश्वगन्धा वर्षाभू: शरपुष्पिका ।
बल चातिबला नागबला दन्ती महाबला ॥२४॥
द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारिणी ।
वरा शतावरी चैला हपुषा सातला त्रिवृत्‍ ॥२५॥
स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ।
इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका ॥२६॥
त्रायमाणाऽऽसुरी शडंपुष्पी च गिरिकर्णिका ।
धातकी कदली दूर्वा अम्लिका कासमर्दिका ॥२७॥
जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ।
नालिकेरी च खर्जूरी फल्गु शिंशी च मल्लिका ॥२८॥
वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ।
केकिचूडाऽजगन्धा च लक्ष्मणा तरुणीति च ॥२९॥
अष्टषष्टिरिति प्रोक्ता महौषश्यो महाबला: ।
रसाधिका महौषध्य: ।
अथेदानीं प्रवक्ष्यामि महौषध्यो रसाधिका: ॥३०॥
देवीलता कालवर्णी विजयासुरी सिंहिका ।
पालशतिलका क्षेत्री संवीरा ताम्रवल्लिका ।
नाही कन्या तथा सोमराजिक च टुटुम्भटी ॥३१॥
कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका ।
क्षुत्कारी दुग्धिका भृडीं गडेंटी शरपुडिंका ॥३२॥
अष्टावल्ली राजशमी पनसी च जयन्तिका ।
विषखर्परिकाऽवन्ती काकाण्डोलाऽम्बुमूलिका ॥३३॥
सिध्देश्वरी हंसपादी खोटका शृडंरीटिका ।
अध:पुष्पी मधुराख्या शृडंला गृज्जनीति च ॥३४॥
जारावली महाराष्ट्री सहदेवेश्वरी तथा ।
काष्ठगोधामती देवगन्धारी रजनीडुंदी ॥३५॥
पलाशिनी नाकुली च काम्बोजी चाश्विनी तथा ।
चक्रावल्ली सर्पदष्टा शल्लकी रोहिता तथा ॥३६॥
तौवरी वडंजा राजपद्या जम्बीरवल्लिका ।
गजपिप्पलिका भृडंवल्ली चैवार्कवल्लिका ॥३७॥
जन्तुकारा शिग्रवल्ली करवीरा शिवाटिका ।
नाराची कश्चनी चाजगन्धेत्युक्ता रसोषधि:? ॥३८॥
अष्टषष्टिरिति प्रोक्ता रसौषध्यो रसाधिका: ।
रसे रसायने प्रोक्ता: सर्वकार्यकरा: सदा ॥३९॥
इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचिते रसप्रकाशसुधाकरे दिव्यौषध्यादिनिरुपणं नाम नवमोऽध्याय: ।

N/A

References : N/A
Last Updated : September 09, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP