संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| मन्गलाचरणम् रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - मन्गलाचरणम् श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश मन्गलाचरणम् Translation - भाषांतर शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् ।जननपालनसंहारणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥१॥कुमूदकुन्दसिताम्बधारिणीं विमल्मौक्तिकहारसुशोभिताम् ।सकलसिध्दगणैरपि सेवितां परिणमामि भजामि च शारदाम् ॥२॥वदनकुज्जरमभ्रद्लद्युतिं त्रिनयनं च चतुर्भुजवामनम ।कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥३॥गिरीशधाम सदा महदद्भुतं सकलरोगविघातकरं परम् सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥४॥गन्थानुक्रमणिका।प्रथमं पारदोत्पत्तिं कथयामि यथातथम् ।तत: शोधनकं तस्य तथाऽष्टादश कर्म च ॥५॥चतुर्धा बन्धविज्ञानं भस्मत्वं सूतकस्य च। धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥६॥अष्टो महारस: सम्यक् प्रोच्यन्तेऽत्र मया खलु।तथा चोपरसानां हि गुणा: शोधनमारणम् ॥७॥द्रुतिपातं च सर्वेषां कथयामि सुविस्तरम्।रत्नानां गुणदोषाश्च तथा शोधनमारणम् ॥८॥क्रामणां रज्जनं चैव द्रुतिमेलनकं रसे ।रसांश्च शतसंख्याकान् कथयामि सुविस्तरात् ॥९॥औषधीनां समाख्याता भेदाश्चत्वार एव च।दिव्योषध्यो रसौषमध्य: सिध्दौषध्यस्तथा परा: ॥१०॥महौषध्य इति प्रोक्ता यत्राण्यथ पुटानि च।मूषाश्चैवं हि धातूनां कौतुकानि समासत: ॥११॥वाजीकरणयोगाश्च शुक्रस्तम्भकराश्च ये ।नातिसंक्षेपविस्तारात् ग्रन्थेऽस्मिन् परिकल्पिता: ॥१२॥आयुर्वेदीयग्रन्थमाला । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP