संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| दशमोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - दशमोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश दशमोऽध्याय: । Translation - भाषांतर यन्त्रशब्दनिरुक्ति: ।अथ यन्त्राणि वक्ष्यन्ते पारदो येन यत्र्यते ।तस्माद्यन्त्रस्य रुपाणि दर्शनीयानि शास्त्रत: ॥१॥यन्त्रनामानि ।दोला पलभलीयन्त्रमूर्ध्वपातनकं च यत् ।अध:पातनकं चापि तिर्यकपातनकं तथा ॥२॥घटीयन्त्रं गर्भयन्त्रमिष्टिकाजलन्त्रकम् ।खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥३॥लवणं कोष्ठिकाख्यं च अन्तरालिकसंज्ञिकम् ।धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥४॥विद्याधरं कुण्डकं च ढेकीसंज्ञमुदीरितम्सोमानलं च निगडं किन्नरं भैरवं तथा ॥५॥वालुकायन्त्रकं चापि पातालं भूधराभिधम् ।सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥६॥कूपीयत्रं पालिकाख्यं दिपिकायन्त्रकं तथा ।स्थालीयत्रं भस्मयन्त्रं देवयन्त्रमुदीरितम् ॥७॥घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा ।ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामत: ॥८॥अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदत: क्रमात् ।मूषा कुमुदिका प्रोक्ता कोविका करहाहिका ॥९॥पातिनी कथ्यते सैव वह्विमित्रा प्रकीर्तिता ।तुषभस्मयुता मृत्स्रा वाल्मिकी बिडसंयुता ॥१०॥तया या रचिता मूषा योगमूषेति कथ्यते ।गारमूषालक्षणम् ।गारभूनागसत्वेन शणैर्दग्धतुषैरपि ॥११॥मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम् ।तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥१२॥वरमूषालक्षणम् ।वस्त्रतुल्यास्तुषाडांरास्तचतुर्गुणमृत्तिका ।भूनागमृतिके तुल्ये सर्वैरेभिर्विमर्दिता ॥१३॥कथिता वरमूषा सा यामं वह्विं सहेत वै ।वर्णमूषालक्षणम् ।पूर्वोक्ता मृत्तिका या तु रक्तवर्गाम्बुभाविता ॥१४॥रक्तवर्गायुता घृष्टा कारिता मूषिका शुभा ।तूरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका ॥१५॥वर्णोत्कर्षे प्रयोक्तव्या वर्णभूषेति कथ्यते ।रुप्यमूषालक्षणम् ।श्वेतवर्गेण वै लिप्ता रुप्यभूषा प्रकीर्तिता ॥१६॥बिडमूषा ।बिडेन रचिता या तु बिडेनैव प्रलेपिता ।देहलोहार्थसिध्दयंर्थ बिडमूषेत्युदाहृता ॥१७॥गृहभूनागसत्वेन तुषमिष्या शणेन च ।मृत्समा महिषीक्षीरैर्दिवसत्रयमर्दिता ॥१८॥संस्थिता पक्षमात्रं हि पश्चन्मूषा कृता तया ।लेपिता मत्कुणस्याथ शोणितेन बलारसै: ॥१९॥चतुर्यामं ध्मापिता हि द्रवते नैव वह्विना ।वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥२०॥वृन्ताकाकारमूषायां नालं कृत्वा दशाडुंलम् ।धत्तूरपुष्पावद्दिंर्घ सुदृढं चैव कारयेत् ॥२१॥अष्टाडुंलं सच्छिद्रं च भवेव्दृन्ताकमूषिका ।गोस्तनाकारमूषा या मुखोपरिविमुद्रिता ॥२२॥सत्वानां द्रावणे शुध्दौ मूषा सा गोस्तनी भवेत् ।निर्दिष्टा मल्लमूषा या मल्लव्दितयसंपुटात् ॥२३॥रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ।अग्रौ या पाचिता शुष्का पक्कमूषा प्रकीर्तिता ॥२४॥अतिस्थूलाऽतिदीर्घा च मुखे किंचिच्च विस्तृता ।महामूषेति सा प्रोक्ता सत्त्वरद्रव्यशोधिनी ॥२५॥षडडुंलोन्नता दीर्घा चतुरसा च निम्रका ।मज्जूषाकारमूषा सा कथिता रसमारणे ॥२६॥भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकै : ।गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥२७॥ मूषा या चिपिटा मूले वर्तुला व्द्यडुंलाच्च या ।मूषा सा मुशलाख्या स्याच्चक्रिबध्दरसे हिता ॥२८॥सत्वपातनकार्ये तु कोष्ठिका युज्यते बुधै: ।तासां तु विविधाकारान् कथयामि यथातथम् ॥२९॥अडांरकोष्ठिका नाम राजहस्तप्रमाणका ।व्दादशाडुंलविस्तारा चतुरस्रा प्रकीर्तिता ॥३०॥वेष्टिता मृन्मयेनाथ एकभित्तौ च गर्तकम् ।वितस्तिमानं व्दारं च सार्धवैतस्तिकं दृढम् ॥३१॥अधोभागे विधातव्या देहली धमनाय वै ।प्रादेशमात्रा भित्ति: स्यादुत्तरडंस्य चोर्ध्वत: ॥३२॥प्रादेशमात्रं कर्तव्यं व्दारं तस्योपरि ध्रुवम् ।व्दारं चेष्टिकया रुध्दा सन्धिरोधं च कारयेत् ॥३३॥पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु ।कोकिलाधमनद्रव्यमूर्ध्वव्दारे विनिक्षिपेत् ॥३४॥एषा चाडांरकोष्ठी च खराणां सत्वपातनी ।गंर्त खनेदृढं भूमौ व्दादशाडुंलमात्रकम् ॥३५॥तन्मध्ये वर्तुलं गंर्त चतुरडुंलकं दृढम् ।खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम् ॥३६॥आपूर्य कौकिलैर्गंर्त प्रधमेदेकभस्त्रया ।पातालकोष्ठिका सा तु मृदुसत्वस्य पातनी ॥३७॥वितस्तिप्रमिता निम्रा प्रादेशप्रमिता तथा ।उपरिष्टात्पिधानं तु भूरिच्छिद्रसमन्वितम् ॥३८॥गर्तमापूर्य चाडांरै: प्रधमेव्दक्कनालत: ।गारकोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥३९॥वितस्तिप्रमितोत्सेधा सा बुध्रे चतुरडुंला ।तिर्यकप्रधमनाख्या च मृदुसत्वस्य पातनी ॥४०॥भूम्यां वै खनयेद्रंर्त व्दिहस्तं चतुरस्रकम् ।छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥४१॥औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलै: ।सहस्रार्धै वै सम्यग्वह्विं प्रज्वालयेत्तत: ॥४२॥महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ।एकहस्तप्रमाणं हि चतुरस्रं च गर्तकम् ॥४३॥वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ।मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत् ॥४४॥गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत् ।अधोऽग्रिं ज्वालयेत्सम्यगेवं गजपुटो भवेत् ॥४५॥उपलं पिष्टकं छाणमुत्पलं च गरिण्डकम् ।छगणोपलसारि च नवारि छगणाभिधा: ॥४६॥अरत्निमात्रकुण्डे च वाराहपुटमुच्यते ।वितस्तिव्दयमानेन गंर्त चेच्चतुरस्रकम् ॥४७॥कुक्कुटाख्यं पुटं विद्यादौषधानां च साधनम् ।छगणैरष्टभि: सम्यक्कपोतपुटमुच्यते ॥४८॥तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम् ।माणिकाव्दयमानेन गोवरं पुटमुच्यते ॥४९॥मृदा भाण्डं प्रपूर्यैव मध्ये द्र्व्यं तु विन्यसेत् ।अधस्ताज्ज्वालयेदग्रिं मृद्राण्डपुटमुच्यते ॥५०॥गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत् ॥५१॥उपरिष्टादधस्ताच्च वह्विं कुर्यात्प्रयत्नत: ।तव्दालुकापुटं सम्यगुच्यते शास्त्रकोविदै: ॥५२॥मूषिकां भूमिमध्ये तु स्थापितां व्द्यडुंलादध: ।उपरिष्टात्पुटं दद्यात्तत्पुटं भूधराभिधम् ॥५३॥गोवरैर्वा तुषैर्वाऽपि कर्षमात्रमितै: पुटम् ।यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥५४॥इति श्रीपद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे यन्त्रादिनिरुपणं नाम दशमोऽध्याय: । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP