मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे| श्रीगणेशाय नमः ॥ श्रीशुक ... दत्त स्तोत्रे श्रीजाबालदर्शनोपनिषत् बालाकप्रभा इंद्रनील जठीलं... ॥अथ ध्यानम॥ यावद्द्वैतभ्र... ॥ हरिः ॐ ॥ ॐ नमो भगवते दत... दत्तात्रेयं परमसुखमयं वेद... ॐ नमो भगवते दत्तात्रेयाय,... रसज्ञावशातारकं स्वादुलभ्य... दिगंबरं भस्मसुगन्धलेपनं च... अथ प्रथमः पटलः । ईश्वरदत्... श्रीपाद श्रीवल्लभ त्वं सद... भूतप्रेतपिशाचाद्या यस्य स... दत्तात्रेयं परमसुखमयं वेद... श्रीपाद श्रीवल्लभ त्वं सद... श्रीपाद श्रीवल्लभ त्वं सद... ॥ॐ ॥ दत्तात्रेयं प्रियदैव... ॥ॐ ॥ श्री गुरूदेवाय नमः ।... नृसिंहरूपिणे चिदात्मने सु... कार्तवीर्य उवाच - यस्मिन... श्रीगणेशाय नमः ॥ पार्वत्... श्रीगणेशाय नमः ॥ अस्य श्र... श्रीगणेशाय नमः ॥ श्रीपार... श्रीदत्तात्रेयाय नमः ॥ अथ... श्रीगणेशाय नमः ॥ मूलाधार... श्रीगणेशाय नमः ॥ आचम्य प्... ॥ अथ दत्तव्याहृति प्रारभ्... श्रीगणेशाय नमः ॥ श्रीशुक ... श्रीदत्तात्रेयाय नमः ॥ आ... श्रीगणेशाय नमः ॥ हरिः ॐ ... श्रीगणेशाय नमः ॥ सहनाववत... जयलाभादिकरं श्रीदत्तस्तोत्रम् दत्तनामस्मरणम् इंदुकोटि तेजकीर्ण सिंधुभक... यस्य नाम श्रुते सद्यो मृत... दत्तलहरि ओव्या श्रीदत्तापराधक्षमापनस्तोत्रम् श्रीदत्तापराधक्षमापनस्तोत्रम् दत्तप्रबोधम् (दत्तात्रेय सुप्रभातम्) श्री दत्तात्रेयस्तोत्रम् श्रीगुरुराजस्तवः । श्र... ह्या दत्तरक्षास्तोत्राचा ... अथ दत्तस्तवराजः प्रारभ्यते - श्रीगणेशाय नमः ॥ श्रीशुक ... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : dattagodgurudattastotraगुरूदत्तदत्तदेवतादेवीस्तोत्र अथ दत्तस्तवराजः प्रारभ्यते Translation - भाषांतर श्रीगणेशाय नमः ॥श्रीशुक उवाच - महादेव महादेव देवदेव महेश्वर ॥ दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥१॥तदस्य वद माहात्म्य देवदेव दयानिधे ॥ दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम ॥२॥जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ॥ तत्सर्वं ब्रहू मे देव करुणाकर शंकर ॥३॥महादेव उवाच - श्रुणु व्यासात्मजो दिव्यं गुह्याद्गुह्यतरं महत् ॥ यस्य स्मरणमात्रेण मुच्यते सर्वबंधनात् ॥४॥दत्तं सनातनं ब्रह्म निर्विकारं निरंजनम ॥ आदिदेव निराकारं व्यक्तं गुणविवर्जितम् ॥५॥नामरूप - क्रियातीत निःसंगं देववंदितम् ॥ नारायणं शिवं शुद्ध दृश्यदर्शनवर्जितम् ॥६॥परेशं पार्वतीकांतं रमाधीशं दिगंबरम् ॥ निर्मलो नित्यतृप्तात्मा नित्यानंदो महेश्वरः ॥७॥ब्रह्मा विष्णुः शिवः साक्षाद्गोविंदो गतिदायकः ॥ पीतांबरधरो देवो माधवः सुरसेवितः ॥८॥मृत्युंजयो महारुद्रः कार्तवीर्यवरप्रदः ॥ ॐ मित्येकाक्षरं बीजं क्षराक्षर पदं हरिम् ॥९॥गया - काशी - कुरुक्षेत्र - प्रयागं बदरिकाश्रमम् ॥ एतत्सर्वं कृतं तेन ‘ दत्त ’ इत्यक्षरद्वयम् ॥१०॥गोमती - जान्हवी - भीमा - गंडकी च सरस्वती ॥एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयं ॥११॥शरयू - तुंगभद्रा च यमुना पयवाहिनी ॥ एतत्सर्व कृ०॥१२॥ ताभ्रपर्णी प्रणीता च गौतमी तापनाशिनी ॥एत०॥१३॥नर्मदा सिंधु - कावेरी कृष्णावेण्यास्तथैव च ॥एत०॥१४॥अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम ॥एत०॥१५॥द्वादशं ज्योतिर्लिंगं च वाराहे पुष्करे तथा ॥एत०॥१६॥ज्वालामुखी हिंगुला च सप्तशृंगस्तथैव च ॥एत०॥१७॥अयोध्या मथुरा कांची रेणुका सेतुबन्धनम ॥एत०॥१८॥अहोबलं त्रिपथगां गंगा सागरमेव च ॥एत०॥१९॥करवीरमहास्थानं रंगनाथ तथैव च ॥एत०॥२०॥एकादशीव्रतं चैव अष्टांगयोगसाधनम् ॥एत०॥२१॥शाकंभरी च मूकांबा कार्तिकस्वामिदर्शनम् ॥एत०॥२२॥व्रतं निष्ठा तपो दानं सामगानं तथैव च ॥एत०॥२३॥मुक्तिक्षेत्रं च कामाक्ष्जी तुलजा सिद्धिदेवता ॥एत०॥२४॥अन्नहोमादिकांदानं मेदिन्यश्वगजान् वृषान् ॥एत०॥२५॥माघ - कार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ॥एत०॥२६॥अश्वमेघसहस्राणि माता - पितृप्रपोषणम् ॥एत०॥२७॥अमितं पोषणं पुण्यमुपकारस्तथैव च ॥एत०॥२८॥जगन्नाथं च गोकर्णं पांडुरंगं तथैव च ॥एत०॥२९॥सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तितः ॥एत०॥३०॥शास्त्रषट्कं पुराणानि अष्टौ व्याकरणानि च ॥एत०॥३१॥सावित्रीप्रणवं जप्त्वा चतुर्वेदांश्च पारगः ॥एत०॥३२॥कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ॥एत०॥३३॥वापी - कूप - तडागानि काननारोपणानि च ॥एत०॥३४॥अश्वत्थ - तुलसी - धात्री सेवते यो नरः सदा ॥एत०॥३५॥शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ॥एत०॥३६॥गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ॥एत०॥३७॥मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम ॥३८॥स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् ॥मुच्यते०॥३९॥स्त्रीहत्यादिकृतं पापं बालहत्यास्तथैव च ॥मुच्यते०॥४०॥प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ॥ ब्रह्मत्वं लभ्यते ज्ञानं ‘ दत्त ’ इत्यक्षरद्वयम् ॥४१॥कलिदोषविनाशार्थं जपेदेकाग्रमानसः श्रीगुरुं परमानंदं दत्त०॥४२॥दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् ॥ श्रद्धायुक्तोजपेन्नित्यं दत्त०॥४३॥केशवं माधवं विष्णुं गोविंदं गोपतिं हरिम् ॥गुरुणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥४४॥निरंजनं निराकारं देवदेवं जनार्दनम् मायायु ( मु ) क्तं जपेन्नित्यं पावनं सर्वदेहिनां ॥४५॥आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ॥ सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥४६॥नारायणं परंब्रह्म लक्ष्मीकांतं परात्परम् ॥ अप्रमेयं सुरानंदं नमो दत्तदिगंबरम् ॥४७॥योगिराजोऽत्रिवरदः सुराध्यक्षो गुणांतकः अनुसूयात्मजो देवो देवो त्गतिप्रदायकः ॥४८॥गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः समस्तऋषिभिः सर्वैभक्त्या स्तुत्वा महात्मभिः ॥४९॥नारदेन सुरेंद्रेण सनकाद्यैर्महात्मभिः ॥ गौतमेन च गार्गेण व्यासेन कपिलेन च ॥५०॥वामदेवेन दक्षेण अत्रि - भार्गव - मुद्गलैः ॥ वसिष्ठप्रमुखैः सर्वैर्गीयते सर्वदाऽदरात् ॥५१॥विनायकेन रुद्रेण महासेनेन वै सदा ॥ मार्कंडेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥५२॥मरीच्यादिमुनीद्रैश्च शुक - कर्दमसत्तमैः ॥ अंगिराकृतपौलस्त्य - भृगु - कश्यपजैमिनी ॥५३॥गुरुस्तवमधीयानो विजयी सर्वदा भवेत् ॥ गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥५४॥गुरोः परतरं नास्ति सत्यं सत्य न संशयः ॥ गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥५५॥तेऽपि सन्यासिनो ज्ञेया इतरे वेषधारिणः ॥ गंगाद्याः सरितः सर्वे गुरोः पादांबुजे सदा ॥५६॥गुरुस्तवं नजानाति गुरुनाम मुखे नहि ॥ पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥५७॥इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् ॥ पठणाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥५८॥॥इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजं संपूर्णम् ॥ श्रीदत्तात्रेयार्पणस्तु ॥ N/A References : N/A Last Updated : March 16, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP