मराठी मुख्य सूची|स्तोत्रे|दत्त स्तोत्रे|
कार्तवीर्य उवाच - यस्मिन...

कार्तवीर्यकृत दत्तात्रेयस्तोत्रम् - कार्तवीर्य उवाच - यस्मिन...

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे.
A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


कार्तवीर्य उवाच -
यस्मिन्निदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरदुःख दुःखम् ।
त्वय्येव नित्य सुख बोधतनावनंते
मायात उद्यदपि यत्सदिवावभाति ॥१॥
यस्मिन्विभाति सकलं मनसो विलासं
दृष्टं विनिष्टमतिलोलमलातचक्रम् ।
विज्ञान मेकमुरुधैव विभाति माया -
स्वप्नस्त्रिधा गुणविसर्गकृतो विकल्पः ॥२॥
एतद्विमृश्य मुनयो मनसस्त्र्यवस्था -
त्वन्माययात्मनिकृता इति निश्चितार्थाः ।
संच्छिद्य हार्दमनुमानसदुक्तितीक्ष्णज्ञानासिना -
खिल गुरं शरणं प्रपन्नाः ॥३॥
तं त्वामहं शरणदं सचिवं बिलेऽस्मिन्
विज्ञानदं स्वजन दुःख हरं त्र्यधीशम् ।
गोविंद मच्युतमजं शिवदं मुमुक्षुः
सर्वात्मना खिल गुरुं प्रणतः परेशम् ॥४॥
तन्नित्यमुक्तपरिशुद्ध विबुद्धमीशं
सर्वस्यदेवमवितारमनन्यसिद्धम् ।
देहेंन्द्रियासुविषयैः परिभुक्तरूपः
सर्वात्मना शरणदं शरणं प्रपन्नः ॥५॥
यस्मिन्निदं प्रोत मशेषमोतं
पटोयथा तंतुवितानसंस्थः ।
तं सच्चिदानंदमहं पुराणं
नारायणं नरवरं शरणं प्रपद्ये ॥६॥
दष्टं जनं संपतितं बिलेऽस्मिन्
कालाहिना क्षुद्रसुखोरुतर्षम् ।
समुद्धरैनं कृपया पवर्गै
र्वचो भिरासिंच महानुभाव ॥७॥
तवेहितं कोर्हति साधु वेदितुं
स्वमाययेदं सृजतो नियच्छतः ।
यन्मायया विश्वसृजः परेशम्
विमोहिता ये किमु कर्मबद्धाः ॥८॥
तापत्रयेणाभिहतस्य घोरे
संतप्यमानस्य भवाध्वनीश ।
पश्यामि नान्यच्छरणं तवांघ्रि -
द्वंद्वातपत्रादमृताभिवर्षात् ॥९॥
ज्ञानं विशुद्धं विपुलं यथैत
द्वैराग्य विज्ञान युतं पुराणम् ।
आख्याहि विश्वेश्वरविश्वमूर्ते
त्वद्भक्तियोगं च महद्विमृग्यम् ॥१०॥
तवाव तारोऽय मकुंठ धामन्
धर्मोपदेशायच योग गुप्त्यै ।
मुमुक्षु वर्गस्य विधातुमीश
ज्ञानस्वरूपं विभवाय तेषाम् ॥११॥
जीवस्य यत्संसरतो विमोक्षणं
न ज्ञानतोऽनर्थवहाच्छरीरतः ।
लीलावतारैस्तनुभिः समीहसे
यथां जसा दुस्तरमुत्तरेज्जनः ॥१२॥
तं त्वां वयं जडधियो न विदाम भूमन्
कूटस्थामादि पुरुषं जगतामधीशम् ।
यत्सत्वतः सुरगणा रजसः प्रजेशा
भूतादयश्च तमसः सभवान् गुणेशः ॥१३॥
कामं तनोषि विभवं भजतामधीश
मन्ये तथा न वितनोषि पदं निजं यत् ।
त्वत्पादुके अविरतं प्रणता विभूम्न -
तेषां तदेव भगवन्न च नश्वरं यत् ॥१४॥
किमेनया खलु विभो विविध प्रसूत्या
भूम्या तथा सुतकलत्र गजाश्वभृत्यैः ।
राजेन किं मम सुरेश समस्त कामैः
योहं न वेद्मि निजरूप मिदं त्वदीयम् ॥१५॥
सत्यं विभाति सकलं मनसाथ बुध्या
द्वैतं मृषाभ्रममिति प्रवदन्ति सिद्धाः ।
मायामयं तदिदमाशु कथं विभातं
सम्यकं प्रशाधि शरणं भगवन् प्रपन्नम् ॥१६॥
नाहं बिभेन्यजितशत्रुभिरूर्जितैर्वा
मृत्योर्नचेश शिखिनो न जलान्न वायोः ।
नैवोद्विजेमि विकटाद्यमराज दंडा -
त्संसार चक्रग्रसनाद्धि यथा बिभेमि ॥१७॥
तस्मात्तवांघ्रि कमले मम मौलि रीश
भृंगायते निजसुखे रमितं मनो मे ।
औत्कंठ्यबाष्पकलया मुमुरर्द्यमानं
त्वय्येव देव रमते विभवं विसृज्य ॥१८॥
विस्फार्य विश्वविजयाय दृशौ महेश
तप्तं शुचा त्रिगुणया शमयात्मसूक्तैः ।
देव त्वदंघ्रिकमलाद्विसुखा मनुष्या
स्तेषां विभोऽ‍यमुचितो विषयैः प्रसंगः ॥१९॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेधसम्
विश्वात्मानमजंब्रह्मान्प्रणतोऽस्मि परं पदम् ॥२०॥
योगरंधित कर्माणो हृदियोग विभाविते ।
योगिनो यं प्रपश्यंति योगीशं तं नतोस्म्यहम् ॥२१॥
निर्विण्णो नितरां ब्रह्मन्नसदिंद्रिय तर्पणात् ।
तर्पणादेवम परं निमग्नोवृजिनार्णवे ॥२२॥
अलमेतावता भूमन् विषयासक्त चेतसा ।
यौवनाद्वहु तिथिर्यातो नाद्यापि वितृषं मनः ॥२३॥
सत्संगेन हि दैतेया यातुधानाः खगा मृगाः ।
निस्तीर्णा मनुजा देव दुस्तरं भवसागरम् ॥२४॥
दुर्भगो बत लोकेहं नितरां क्षत्रियाधमः ।
निषेव्य चरणांभोजं न मुमुक्षे च बंधनात् ॥२५॥
मिथ्या विलासितेष्वेषु लंपटः सन्सदा विभो ।
सुसाम्राज्यश्रिया मत्तो नांतकं बुबुधे परम् ॥२६॥
इदानीं त्वत्प्रसादेन ह्यनु तप्तोस्मि केवलम् ।
न कथंचिल्लभे शांतिं विना ते वचनामृतम् ॥२७॥
न पारमेष्ठ्यं न महेंद्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धिरमरार्थिता विभो
सुखाय मे सर्व मिदं त्वदाप्तम् ॥२८॥
तस्मात प्रप्न्नार्तिहराद्य हार्दं
मायामयं वासनया विरूढम् ।
सदुक्ति तीक्ष्णासिना विवृक्तुमीश
विकधत्स्वमूलं विविधायमस्य ॥२९॥
विशुद्धविज्ञानघनं स्वसंस्थया
समाप्त सर्वार्थममोघवांछितम् ।
लीलागृहीतामल रुक्मदेहं
वंदे सदानंद वपुः पुराणम् ॥३०॥
तवावतारोयमकुंठ धामन्
माया विमूढान्विमुखानघेन ।
पादारविंदादरविंदनाभे
विभो समुद्धर्तुमपीश विद्मः ॥३१॥
त्वदीयपादाब्जरसाधिरूढ
मनोलिनो ये भवदीयमुख्याः ।
कुतः पुनस्तेषु भवामयोयं
विभो विधातुं वृजिनं विभुः स्यात् ॥३२॥
पुरात्रिणा देव तपः सुतप्तं
त्वदाप्तिकामेन समान शीलया ।
प्रस्वा तवानंतवरप्रदस्त्वं
दत्तो मयाहं भगवान् स दत्तः ॥३३॥
न तेऽस्ति देहो न तवेश वर्णो
न नामरूपे न च तेस्तिकर्म ।
उद्धर्तुकामेन भवांबुधेर्जनं
लीलावपुस्त्वं प्रकटी कृत्तं ते ॥३४॥
निजपदाब्जदलाविशन्मतिं विकसिताब्जदलैर्नयनाब्जैः ।
विकसिताब्जसुखं हृषितांगं परम करुणिकेश
विधत्स्व माम् ॥३५॥
नान्यदस्तिशरणं ममलोके तव सुसेव्यचरणाद्धि दयालो ।
मग्नमुद्धरभवांबुधेर्विभो तव पदाब्जरतं निजभक्तम् ॥३६॥
नमस्ते पुंडरीकाक्ष नमस्ते पुरुषोत्तम ।
नमस्ते विश्ववंद्यांघ्रे नमस्ते योगिनांवर ॥३७॥
नमस्ते वासुदेवाय नमः संकर्षणाय च ।
प्रद्युम्नायानिरुद्धाय योगिवंद्याय ते नमः ॥३८॥
नमस्ते पद्मनाभाय नमस्ते जलशायिने ।
नमस्तेस्तु हृषीकेश पाहि मां वृजिनार्णवात् ॥३९॥
नमोनंताय सूक्ष्माय सर्वाध्यक्षाय साक्षिणे ।
तमो गिरां विदूराय भक्तावासाय ते नमः ॥४०॥
नमः पंकज नाभाय नमः पंकजमालिने ।
नमः पंकज नेत्राय नमस्ते पंकजांघ्रये ॥४१॥
प्रसीद परमानंद प्रसीद परमेश्वर ।
आधिव्याधिभुजंगेन दष्टंमामुद्धर प्रभो ॥४२॥
॥ इति श्रीब्रह्मांडपुराणे कार्तवीर्यकृत दत्तात्रेयस्तोत्रं संपूर्णम् ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP