संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|चतुर्थ पटल| सहजोलीमुद्राकथनम् चतुर्थ पटल मुद्राकथन प्रकरण योनिमुद्राकथनम् महामुद्राकथनम् महाबन्धकथनम् महावेधकथनम् खेचरीमुद्राकथनम् जालन्धरबन्धकथनम् मूलबन्धकथनम् विपरीतकरणीमुद्राकथनम् उड्ड्यानबन्धकथनम् वज्रोलीमुद्राकथनम् अमरोलीमुद्राकथनम् सहजोलीमुद्राकथनम् शक्तिचालनमुद्राकथनम् चतुर्थ पटल - सहजोलीमुद्राकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत सहजोलीमुद्राकथनम् Translation - भाषांतर गतं बिन्दुं स्वकं योगी बन्धयेद्योनिमुद्रया ।सहजोलीरियं प्रोक्ता सर्वतन्त्रेषु गोपिता ॥९७॥संज्ञाभेदाद्भवेद्भेद: कार्य तुल्यगतिर्यदि ।तस्मात्सर्वप्रयत्नेन साव्यते योगिभि: सदा ॥९८॥अयं योगो मया प्रोक्तो भक्तानां स्नेहत: प्रिये ।गोपनीय: प्रयत्नेन न देयो यस्य कस्यचित् ॥९९॥एतद्गुह्यतमं गुह्यं न भूतं न भविष्यति ।तस्मादेतत्प्रयत्नेन गोपनीयं सदा बुधै: ॥१००॥स्वमूत्रोत्सर्गकाले यो बलादाकृष्य वायुना ।स्तोकं स्तोकं त्यजेन्मूत्रमूर्ध्वमाकृष्य तत्पुन: ॥१०१॥गुरूपदिष्टमार्गेण प्रत्यहं य: समाचरेत् ।बिन्दुसिद्धिर्भवेत्तस्य महासिद्धिप्रदायिका ॥१०२॥षण्मासमभ्यसेद्यो वै प्रत्यहं गुरुशिक्षया ।शताङ्गनानां भोगेsपि तस्य बिन्दुर्न नश्यति ॥१०३॥सिद्धे बिन्दौ महायत्ने किं न सिध्यति पार्वति ।ईशत्वं यत्प्रसादेन ममापि दुर्लभं भवेत् ॥१०४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP