संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|चतुर्थ पटल| महावेधकथनम् चतुर्थ पटल मुद्राकथन प्रकरण योनिमुद्राकथनम् महामुद्राकथनम् महाबन्धकथनम् महावेधकथनम् खेचरीमुद्राकथनम् जालन्धरबन्धकथनम् मूलबन्धकथनम् विपरीतकरणीमुद्राकथनम् उड्ड्यानबन्धकथनम् वज्रोलीमुद्राकथनम् अमरोलीमुद्राकथनम् सहजोलीमुद्राकथनम् शक्तिचालनमुद्राकथनम् चतुर्थ पटल - महावेधकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत महावेधकथनम् Translation - भाषांतर अपानप्राणयोतैक्यं कृत्वा त्रिभुवनेश्वरि ।महावेधस्थितो योगी कुक्षिमापूर्य बायुना ।स्फ़िचौ संताडयेद्धीमान् वेधोsयं कीर्तितो मया ॥४३॥वेधेनानेन संचिध्य वायुना योगिषुङ्गव: ।ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ ॥४४॥य: करोति सदाभ्यासं महावेधं सुगोपितम् ।वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥४५॥चक्रामध्ये स्थिता देवा: कम्पन्ति वायुताडनात् ।कुण्डल्यपि महामाया कैलासे सा विलीयते ॥४६॥महामुद्रामहाबन्धौ निष्फ़लो वेधवर्जितौ ।तस्माद्योगी प्रयत्नेन करोति त्रियतं क्रमात् ॥४७॥एतत्त्रयं प्रयत्नेन चतुर्वारं करोति य: ।षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशय: ॥४८॥एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतर: ।यज्ज्ञात्वा साधका: सर्वे सिद्धिं सम्यक् लभन्ति वै ॥४९॥गोपनीया प्रयत्नेन साधकै: सिद्धिमीप्सुभि: ।अन्यथा च न सिद्धि: स्यान्मुद्राणामेष निश्चय: ॥५०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP