संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|शिवसंहिता|चतुर्थ पटल| वज्रोलीमुद्राकथनम् चतुर्थ पटल मुद्राकथन प्रकरण योनिमुद्राकथनम् महामुद्राकथनम् महाबन्धकथनम् महावेधकथनम् खेचरीमुद्राकथनम् जालन्धरबन्धकथनम् मूलबन्धकथनम् विपरीतकरणीमुद्राकथनम् उड्ड्यानबन्धकथनम् वज्रोलीमुद्राकथनम् अमरोलीमुद्राकथनम् सहजोलीमुद्राकथनम् शक्तिचालनमुद्राकथनम् चतुर्थ पटल - वज्रोलीमुद्राकथनम् महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे. Tags : shivasanhitaशिवसंहितासंस्कृत वज्रोलीमुद्राकथनम् Translation - भाषांतर वज्रोलीं कथयिष्यामि संसारध्वान्तनाशिनीम् ।स्वभवतेभ्य: समासेन गुह्याद्गुह्यतमामपि ॥७८॥स्वेच्छया वर्तमानोsपि योगोक्तनियमैर्विना ।मुक्तो भवति गार्हस्थो वज्रोल्यभ्यसयोगत: ॥७९॥वज्रोल्यभ्यासयोगोsयं भोगे युक्तेsपि मुक्तिद: ।तस्मादतिप्रयत्नेन कर्तव्यो योगिभि: सदा ॥८०॥आदौ रज: स्त्रियो योन्या: यत्नेन विधिवत्सुधी: ।आकुञ्च्य लिङ्गनालेन स्वशरीरे प्रवेशयेत् ॥८१॥स्वकं बिंन्दुश्च सम्बन्ध्य लिङ्गचालनमाचरेत् ।दैवाच्चलति चेदूर्ध्व निबद्धो योनिमुद्रया ॥८२॥वाममार्गेsपि तद्विन्दुं नीत्वा लिङ्गं निवारयेत् ।क्षणमात्रं योनितो य: पुमांश्चालनमाचरेत् ॥८३॥गुरूपदेशतो योगी हुंहुंकारेण योनित: ।अपानवायुमाकुञ्चय बलादाकृष्य तद्रज: ॥८४॥अनेन विधिना योगी क्षिप्रं योगस्य सिद्धये ।भव्यभुक् कुरुते योगी गुरुपादाब्जपूजक: ॥८५॥बिन्दुर्विधुमयो ज्ञेयो रज: सूर्यमयस्तथा ।उभयोर्मेलनं कार्य स्वशरीरे प्रवेशयेत् ॥८६॥अहं बिन्दू रज: शक्तिरुउभयोर्मेलनं यदा ।योगिनां साधनावस्था भवेद्दिव्यं वपुस्तदा ॥८७॥मरणं बिन्दुपातेन जीवनं बिन्दुधारणे ।तस्मादतिप्रयत्नेन कुरुते बिन्दुधारणम् ॥८८॥जायते भ्रियते लोके बिन्दुना नात्र संशय: ।एतज्ज्ञात्वा सदा योगी बिन्दुधारणमाचरेत् ॥८९॥सिद्धे बिन्दौ महायत्ने किं न सिद्धति भूतले ।यस्य प्रसादान्महिमा ममाप्येतादृशो भवेत् ॥९०॥बिन्दु: करोति सर्वेषां सुखं दु:खं संस्थित: ।संसारिणां विमूढानां जरामरणशालिनाम् ॥९१॥अयं च शांकरो योगो योगिनामुत्तमोत्तम: ॥९२॥अभ्यासात्सिद्धिमाप्नोति भोगयुक्तोsपि मानव: ।सकल: साधितार्थोsपि सिद्धो भवति भूतले ॥९३॥भुक्त्वा भोगानशेषान् वै योगेनानेन निश्चितम् ।अनेन सकला सिद्धिर्योगिनां भवति ध्रुवम् ।सुखभोगेन महता तस्मादेनं समभ्यसेत् ॥९४॥सहजोल्यमरोली च वज्रोल्या भेदतो भवेत् ।येन केन प्रकारेण बिन्दुं योगी प्रचारयेत् ॥९५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP