संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र ३५-३७ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र ३५-३७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३५-३७ Translation - भाषांतर उपपत्तेश्च ॥३५॥उपपत्तेश्व ॥ उपपद्यते चात्रेद्दश एव संबन्धो नान्याद्दश: स्वमपीतो भवतीति हि स्वरूपसंबन्धमेनमामनन्ति स्वरूपस्य चानपायित्वात् ।न नरनगरन्यायेन संबन्धो घटते ।उपाधिकृतस्वरूपतिरोभावात्तु स्वमपीतो भवतीत्युपपद्यते ।तथा भेदोऽपि नान्याद्दश: संभवति ।बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् ।तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति योऽयं बहिर्धां पुरुषादाकाशो योऽयमन्त: पुरुष आकाशो योऽयमन्तर्ह्रदय आकाश इति ॥३५॥तथान्यप्रतिषेधात् ॥३६॥तथान्यप्रतिषेधात् ॥ एवं सेत्वादिव्यपदेशान्परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वन्म्तरेणोपसंहरति ।तथाऽन्यप्रतिषेधादपि न ब्रम्हाण: परं वस्त्वन्तरमस्तीति गम्यते ।तथा हि स एवाधस्तादहमेवाधस्तादात्मैवाधस्तात्सर्वं तं परादाद्योऽन्यत्रात्मन: सर्वं वेद ब्रम्हौवेदं सर्वमात्मैवेदं सर्वं नेह नानास्ति किंचन यस्मात्परं नापरमस्ति किंचित्तदेतदब्रम्हापूर्वमनपरमनतरमबाहयमित्येवमादिवाक्यानि स्वप्रकरणस्थान्यन्यार्थत्वेन परिणेतुमशक्यमानानि ब्रम्हाव्यतिरिक्तं वस्त्यन्तरं वारयन्ति ।सर्वान्तरश्रुतेश्च न परमात्मनोऽन्योऽन्तरात्मास्तीत्यवधार्यते ॥३६॥अनेन सर्वगतत्वमायामशब्दादिभ्य: ॥३७॥अनेन सर्वगतत्वमायामशब्दादिभ्य: ॥ अनेन सेत्वादिव्यपदेशनिराक्रणेनान्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मन: सिद्ध भवति ।अन्यथा हि तन्न सिध्येत् ।सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मन: प्रसज्येत सेत्वादीनामेवमात्मकत्वात् ।तथान्यप्रतिषेधेऽप्यसति वस्तु वस्त्वन्तराव्द्यावर्तत इति परिच्छेद एवात्मन: प्रसज्येत ।सर्वगतत्वं चास्यायामशब्दादिभ्योऽवगम्यते ।आयामशब्दो व्याप्तिवचन: शब्दो यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाश आकाशवत्सर्वगतश्च नित्यो ज्यान्दिवो ज्यायानाकाशान्नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन इत्येवमादयो हि श्रुतिस्मृतिन्या: सर्वगतत्वमात्मनोऽवबोधयन्ति ॥३७॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP