संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र १६-१७ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र १६-१७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १६-१७ Translation - भाषांतर आह च तन्मात्रम् ॥१६॥आह च तन्मात्रम् ॥ आह च श्रुतिश्चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रम्हा स यथा सैन्धवघनोऽनन्तरोबाहय: कृत्स्नो रसघन एवैव वा अरेऽयमात्मानन्तरोऽबाहय: कृत्स्न: प्रज्ञानघन एवेति ।एतदुक्तं भवति नास्यात्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति चैतन्यमेव तु निरन्तरमस्य स्वरूपम् ।यथा सैन्धवघनस्यान्तर्बर्हिश्च लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति ॥१६॥दर्शयति चाथो अपि स्मर्यते ॥१७॥दर्शयति चाथो अपि स्मर्यते ॥ दर्शयति च श्रुति: पररूपप्रतिषेधेनैव ब्रम्हा निर्विशेषत्वादथात आदेशोनेति नेतित्यन्यदेव तद्विदितादथो अविदितादधि यतो वाचो निवर्तन्ते अप्राप्य मनसा सहेत्येवभाद्या ।बाष्कलिना च बाध्व: पृष्ट: सन्नवचनेनैव ब्रम्हा प्रोवाचेति श्रूयते स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूम: खलु त्वं तु न विजानासि ।उपशान्तोऽयमात्मेति ।तथा स्मृतिष्वपिपरप्रतिषेधेनैवोपद्श्यते - ज्ञेयं यत्तत्प्रक्ष्यामि यज्ज्ञात्वाऽमृतमश्रुते ।अनादिमत्परं ब्रम्हा न सत्तनासदुच्यत इत्येवमाद्यासु ।तथा विश्चरूपधरो नारायणो नारदमुवाचेति स्मर्यते - माया हयेषा मया सृष्टा यन्मां पश्यति नारद ।सर्वभूतगुणैर्युक्तं नैवं माम ज्ञतुमर्हसीति ॥१७॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP