संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र २१ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र २१ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २१ Translation - भाषांतर दर्शनाच्च ॥२१॥दर्शनाच्च । दर्शयति च श्रुति: परस्यैव ब्रम्हाणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - पुरश्चक्रे द्विपद: पुरश्चके चतुष्पद: ।पुर: स पक्षी भूत्वा पुर: पुरुष आविशतिति ।अनेन जीवेनात्मनानुप्रविश्येति च ।तस्माद्युक्तमेतदत एव चोपमासूर्यकादिवदिति ।तस्मान्निर्विकल्पकैकलिड्गमेव ब्रम्हा नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् ।अत्र केचिद्द्वे अधिकरणे कल्पयन्ति ।प्रथमं तावत्किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रम्होत प्रपञ्चवदनेकाकारोपेतमिति ।द्वितीयं तु स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रम्होत बोधलक्षणमुतोभयलक्षणमिति ।अत्र वयं वदाम: सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ।यदि तावदनेकलिङ्गत्वं परस्य ब्रम्हाणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतोऽपीत्यनेनाधिकरणेन निराकृतमित्युत्तरमधिकरणं प्रकाशवच्चैतव्द्यर्थमेव भवेत् ।न च सल्लक्षणमेव ब्रम्हा न बोधलक्षणमिति शक्यं वक्तुम् ।विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।कथं वा निरस्तचैतर्न्यं ब्रम्हा चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ।नापि बोधलक्षणमेव ब्रम्हा न सल्लक्षमिति शक्यं वक्तुमस्तित्येवोपलब्धव्य इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।कथं वा निरस्तसत्ताको बोधोऽभ्य्पगम्येत ।नाप्युभयलक्षणचेव ब्रम्होति शक्यं वक्तुम् ।पूर्वाभ्युपगमविरोधप्रसङ्गात् ।सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रम्हा प्रतिजानानस्य तदेव पूर्वाध्करणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत ।श्रुतत्वाददोष इति चेत् । न ।एकस्यानेकस्वाभावत्वानुपपत्ते: ।अथ सत्तैव बोधो बोध एव च सत्ता नानयो: परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रम्होत बोधलक्षणमुतोभयलक्षणमित्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणित्वेकाधिकरणत्वेनैवास्माभिर्नीतानि ।अपि च ब्रम्हाविषयसु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नास्वनाकारे ब्रम्हाणि परिगृहीतेऽवश्यं वक्तव्येतरासां शृतीनां गति: ।तादर्थ्येन प्रकाशावञ्चत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते ।यदप्याहुराकारवादिन्योऽपि श्रुतय: प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्थ ऐति तदपि न समीचीनमिव लक्ष्यते । कथम् ।ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा युक्ता हयस्य हरय: शता दर्शत्ययं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि चेत्येवमादयस्ते भवन्ति प्रविलयार्थास्तदेतदब्रम्हापूर्वमनपरमनन्तरमबाहयमित्युपसंहारात् ।ये पुनरुपासनाविधानाधिकारे प्रपञ्चा उच्यन्ते यथा मनोमय: प्राणशरीरो भारूप इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यं स क्रतुं कुर्वीतेत्येवंजातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् ।श्रुत्या चैवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्प्यमाने न लक्षणया प्रविलयार्थत्वमवकल्पते ।सर्वेषां च साधारणे प्रविलयार्थत्वे सत्यरूपवदेव हि तत्प्रधानत्वादिति विनिगमनकारणवचनमनवकाशं स्यात् ।फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षय: क्वचिदैश्वर्यप्राप्ति: क्वचित्क्रमनुक्तिरित्यवगम्यत एवेत्यत: पार्थगर्थ्यमेवोपासनावाक्यानां ब्रम्हावाक्यानां च न्यायं नैकवाक्यत्वम् ।कथं चैषामेकवाक्यतोत्प्रेक्ष्यत ति वक्तव्यम् ।एकनियोगप्रतीते: प्रयाजदर्शपूर्वमासवाक्यवदिति चेत् । न ।ब्रम्हावाक्येषु नियोगाभावात् ।वस्तुमात्रपर्यवसायीनि हि ब्रम्हावाक्यानि न नियोगोपदेशींनीत्येतद्विस्तरेण प्रतिष्टापितं तत्तु समन्वयादित्यत्र ।किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् ।पुरुषो हि नियुज्यमान: कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते ।ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति ।अप्रविलपिते हि द्वैतप्रपञ्चे ब्रम्हातत्त्वावबोधो न भवत्यतो ब्रम्हातत्त्वावबोधप्रत्यंनीकभूतो द्वैतप्रपञ्च: प्रविलाप्य: ।यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते एवमपवर्गकामस्य प्रपञ्चप्रविलय: ।यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तम: प्रविलाप्यत एवं ब्रम्हातत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूत: प्रपञ्च: प्रविलापयितव्य: ।ब्रम्हास्वभावो हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रम्हा तेन नामरूपप्रपञ्चप्रविलापनेन ब्रम्हातत्त्वावबोधो भवतीति ।अत्र वयं पृच्छाम: कोऽयं प्रपञ्चप्रविलयो नाम ।किमग्निप्रतापसंपर्काद्धृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलय: कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदिवद्याकृतो ब्रम्हाणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्य इति । तत्र यदितावद्विद्यमानोऽयं प्रपञ्चो देहादिलक्षण आध्यात्मिको बाहयश्च पृथिव्यादिलक्षण: प्रविलापयित्व्य इत्युच्येत स पुरुषमात्रेणाशाक्य: प्रविलापयित्युमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् ।एकेन चादिमुक्तेन पृथिव्यादिप्रविलय: कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।अथाविद्याध्यस्तो ब्रम्हापयेकस्मिनायं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् ।ततो ब्रम्हौवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यमेकमेवाद्वितीयं ब्रम्हा तत्सत्यं स आत्मा तत्त्वमसीति ।तस्मिनावेदिते विद्या स्वयमेवोत्पद्यते तथा चाविद्या बाध्यते ततश्चाविद्याध्यस्त: सकलोऽयं नामरूपप्रपञ्च: स्वप्नप्रपञ्चवत्प्रविलीयते ।अनावेदिते तु ब्रम्हाणि ब्रम्हाविज्ञानं क्रुरु प्रपञ्चप्रविलयं चेति शतकृत्वोऽप्युक्ते न ब्रम्हाविज्ञानं प्रपञ्चप्रविलयो वा जायते ।नन्वावेदिते ब्रम्हाणि तद्विज्ञानविषय: प्रपञ्चप्रविलयविषयो वा नियो्ग: स्यात् । न निष्प्रपञ्चब्रम्हात्मत्वावेदनेनैवोभयसिद्धे: ।रज्जुस्वरूपप्रकासनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ।न च कृतमेव पुन: क्रियते ।नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम स प्रपञ्चपक्षस्यैव वा स्यादब्रम्हापक्षस्यैव वा ।प्रथमे विकल्पे निष्प्रपञ्चब्रम्हातत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्व्रात्कस्य प्रपञ्चविलये नियो्ग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ।द्वितीयेऽपि ब्रम्हौवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रम्हाणि नियोज्याभावान्नियोगाभाव एव ।द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्त्वावबोधविधिप्रधाना भवन्ति ।लोकेऽपीदं पश्येदमाकर्णयेति चैवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्यौच्यते न साक्षाज्ज्ञानमेव कुर्विति ।ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रतिज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ।तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ।न च प्रमाणान्तरेणान्यथाप्रसिद्धेऽर्थेऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते ।यदि पुनर्नियुक्तोऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया ।स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् ।ज्ञानं तुप्रमाणजन्यं यथाबूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते ।न च प्रतिषेधशतेनापि वारयितुं शक्यतै ।न हि तत्पुरुषतन्त्रम वस्तुतन्त्रमेव हि तत् ।अतोऽपि नियोगाभाव: ।किंचान्यन्नियोगनिष्ठतयैव पर्यवस्यत्यान्नाये यदभ्युपगतमनियोज्यब्रम्हात्मत्वं जीवस्य तदप्रमाणक्रमेवं स्यात् ।अथ शास्त्रमेवानियोज्यब्रम्हात्मत्वमाचंक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रम्हाशास्त्रस्यैकस्य व्द्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् ।नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्या: ।तस्मादवगतिनिष्ठान्येव ब्रम्हावाक्यानि न नियोगनिष्ठानि ।अतश्वैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ।अभ्युपगम्यमानेऽपि च ब्रम्हावाक्येषु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु चासिद्धम् ।न हि शाब्दान्तरादिभि: प्रमाणौर्नियोगभेदे गम्यमाने सर्वत्रैको नियोग इति शक्यमाश्रयितुम् ।प्रयाजर्शपूर्णमासवाक्येषु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् ।न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति ।न हि भारूपत्वादयो गुणा: प्रपञ्चप्रविलयोपकारिण: ।नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी परस्परविरोधित्वात् ।न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् ।तस्मादस्मुक्त एव विभाग आकारवदनाकारोपेदेशानां युक्ततर इति ॥२१॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP