द्वितीयः पाद: - सूत्र १-२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सन्ध्ये सृष्टिराह हि ॥१॥

सन्ध्ये सृष्टिराह हि । अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेद: प्रपञ्चित: ।
इदानीं तु तस्यैवावस्थाभेद: प्रपञ्च्यते ।
इदमामनन्ति स यत्र प्रस्वप्तित्पुपक्रम्य न तत्र रथा न रथयोगा न पन्यानो भवन्ति ।
अथ रथाबथयोगान्पथ: सृजते ।
इत्यादि । तत्र संशय: ।
किं प्रबोध इव स्वप्नेऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
तत्र तावत्प्रतिपद्यते सन्ध्ये तथ्यरूपा सृष्टिरिति ।
सन्ध्यमिति स्वप्नस्थानमाचष्टे वंदे प्रयोगदर्शनात्सन्ध्यं तृतीयं स्वप्नस्थानमिति ।
द्वयोर्लोकस्थानयो: प्रबोधसंप्रसादस्थानयोर्वा सन्धौ भवतिति सन्ध्यं तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति ।
कुत: । यत: प्रमाणभूता श्रुतिरवेमाह ।
अथ रथावथयोगान्पथ: सृजत इत्यादि ।
स हि कर्तेति चोपसंहारादेवमेवावगम्यते ॥१॥

निर्मातारं चैके पुत्रादयश्च ॥२॥

निर्मातारं चैके पुत्रादयश्च । अपि चैके शाखिनोऽस्मिन्नेव सन्ध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण इति ।
पुत्रादयस्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति ।
ननु कामशब्देनेच्छाविशेषा एवोच्येरन् । न ।
शतायुष: पुत्रपौत्रान्वृणीष्वेति प्रकृत्यन्ते कामानां त्वा कामभाजं करोमीति प्रकृतेषु तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् ।
प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीम: । प्राज्ञस्य हीदं प्रकरणमन्यत्र धर्मादन्यत्राधर्मांदित्यादि ।
तद्विषय एव च वाक्यशेषोऽपि तदेव शुक्रं तदब्रम्हा तदेवामृतमुच्यते ।
तस्मिँल्लोका: श्रिता: सर्वे तदु नात्येति कश्चन ।
इति प्राज्ञर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ।
तथा च श्रुति: ।
अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि हयेव जाग्रत्पश्यति तानि सुषुप्त इति स्वप्नजागरितयो: समानन्यायतां श्रावयति ।
तस्मात्तय्यरूपैव सन्ध्ये सृष्टिरिति ॥२॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP