द्वितीयोध्यायः - सूत्र ११

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥११॥

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ येन ब्रम्हाणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते ।
सन्त्युभयलिङ्गा: श्रुतयो ब्रम्हाविषया: सर्वकर्मा सर्वकाम: सर्वगन्ध: सर्वरस इत्येवमाद्या: सविशेषलिङा ।
अस्थूलमनण्वहरस्वमदीर्धमित्येवमाद्याश्च निर्विशेषलिङ्गा: ।
किमासु श्रुतिषूभयलिङ्गं ब्रम्हा प्रतिपत्तर्व्यमुतान्ततरलिङ्गम ।
यदाप्यन्यतरलिङं तदापि सर्विशॆषमुत निर्विशेषमिति मीमांस्यत ।
तत्रोभयलिङ्गश्रुत्यनुग्रहादुभयलिङ्गमेव ब्रम्होत्येवं प्राप्ते ब्रूम: ।
न तावत्स्वत एव परस्य ब्रम्हाण उभयलिङ्गत्वमुपपद्यते ।
न हयेकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं चेत्यवधारयितुं शक्यं विरोधात् ।
अस्तु तर्हिस्थानत: पृथिव्याद्युपाधियोगादिति ।
तदपि नोपपद्यते ।
न हयुपाधियोगादप्यन्याद्दशस्य वस्तुनोऽन्याद्दश: स्वभाव: संभवति ।
न हि स्वच्छ: सन्स्फटिकीऽलक्तकाद्युपाधियोगादस्वच्छो भवति भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ।
उपाधीनां चाविद्याप्रत्युपस्था पितत्वात् ।
अतश्चान्यतरलिङपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रम्हा प्रतिपत्तव्य न तद्विपरीतम् ।
सर्वत्र हि ब्रम्हास्वरुपप्रतिपादनरेषु वांक्येष्वशब्दमस्पर्शमरूपमव्ययमित्येवमादिष्वपास्तसमस्तविशेषमेव ब्रम्होपदिश्यते ॥११॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP