द्वितीयोध्यायः - सूत्र १८-२०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अत एव चोपमा सूर्यकादिवत् ॥१८॥

अत एव चोपमा सूर्यकादिवत् ॥ यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीत: परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेषु यथा हयय़ं ज्योतिरात्मा विवस्वानपातभन्ना बहुधैकोऽनुगच्छत् ।
उपाधिना क्रियते भेदस्प देव: क्षेत्रेष्वेवमजोऽयमात्मेति ।
एक एव हि भूतात्मा भूते भूते व्यवस्थित: ।
एकधा बहुधा चैव द्दश्यते जलचन्द्रवदित्येवमादिषु ॥१८॥

अम्बुवदग्रहणात्तु न तथात्वम् ॥१९॥

अत्र प्रत्यवस्थीयते - अम्बुवदग्रहणात्त न तथात्वम् ॥
न ज्यलसूर्यादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् ।
सूर्यादिभ्यो हि मूर्तेभ्य: पृथग्भूतं विप्रकृष्टदेशं मूर्तं जल गृहयते तत्र युक्त: सूर्यादिप्रतिबिम्बोदय: ।
न त्वात्मामूर्तो न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधय: सर्वगतत्वात्सर्वानन्यत्वाच्च ।
तस्मादयुक्तोऽयं द्दष्टान्त इति ॥१९॥

वृद्धिहरासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥२०॥

अत्र प्रतिविधीयते वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ।
युक्त एव त्वयं द्दष्टान्तो विवक्षि तांशसंभवात् ।
न हि द्दष्टान्तदार्ष्टान्तिकयो: क्वचित्किंचिद्विवक्षितांशं मुक्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं सक्यते सर्वसारूप्ये हि द्दष्तान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् ।
न चेदं स्वमनीपया जलसूर्यकादिद्दष्टान्तप्रणयनम् ।
शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते ।
किं पुनरत्र विवक्षितं सारूप्यमिति ।
तदुच्यते । वृद्धिहासभाक्त्वमिति ।
जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते जलहरासे हरसति जलचलने चलति जलभेदे भिद्यत इत्येवं जलधर्मानुयायि भवति न तु परमार्थत: सूर्यस्य तथात्वमस्ति ।
एवं परमार्थतोऽविकृतमेकरूपमपि सदब्रम्हा देहाद्युपाध्यन्तर्भावाद्भजत इवोपाधिधर्मान्वृद्धिहरासादीन् ।
एवमुभयोर्द्दष्टान्तदार्ष्टान्तिकयो: सामञ्चस्यादविरोध: ॥२०॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP