संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र ४ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र ४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४ Translation - भाषांतर सूचकश्च हि श्रुतेराचक्षते च तद्विद: ॥४॥सूचकश्च हि श्रुतेराचक्षते च तद्विद: । मायामात्रत्वात्तार्हि न कश्चित्स्वप्ने परमार्थगन्ध इति ।नेत्युच्यते ।सूचकस्य हि स्वप्नो भवति भविष्यतो: साध्वसाधूनो: ।तथा हि श्रूयते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।समृहिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शन इति ।तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तीत्यवेमादिभि: स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।आचक्षते च स्वप्नाध्यायविद: ।कुञ्जरारोहणादि स्वप्ने धन्यानि खरयानादीन्यधन्यानीति ।मन्त्रदेवताद्रव्यविशेषनिमित्ताश्चकेचित्स्वप्ना: सत्यार्थगन्धिनो भवन्तीति मन्यन्ते ।तत्रापि भवतु नाम सूच्यमानस्य वस्तुन: सत्वत्वं सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्राय: ।तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ।यदुक्तमाह हीति तदेवं सति भाक्तं व्याख्यातव्यम् ।यथा लाङ्गलं गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ।एवं निमित्तमात्रत्वात्सुप्तो रथादीन्सृजते स हि कर्तेति चोच्यते ।न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति ।निमित्तत्वं त्वस्य रथादिप्रति भाननिमित्तमोदत्रासाइर्दशनात्तन्निंइत्तभूतयो: सुकृतदुष्कृतयो: कर्तृत्वेनेति वक्तव्यम् ।अपि च जागरिते विषयेन्द्रियसंयोगादादित्यादित्यादिज्योतिर्व्यतिकराच्चात्मन: स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्त: ।तत्र यदि रथादिसृष्टवचनं श्रुत्या नीयेत तत: स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् ।तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् ।एतेन निर्माणश्रवणं व्याख्यातम् ।यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति ।तदप्यसत् ।शृत्यन्तरे स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति जीवव्यापारश्रवणात् ।इहाप्यष सुप्तेषु जागर्तीति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता संकीर्त्यते ।तस्य तु वाक्यशेषेण तदेव शुक्रं तदब्रम्होति जीवभावं व्यावर्त्य ब्रम्हाभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रम्हाप्रकरणत्वं विरुध्यते ।न चास्माभि: स्वप्नेऽपि प्राज्ञव्यवहार: प्रतिषिध्यते तस्य सर्वेश्वरत्वात्सर्वस्ववस्थास्वधिष्ठातृत्वोपपत्ते: ।पारमार्थिकस्तु नायं सन्ध्याश्रय: सर्गो वियदादिसर्गवदित्येतावत्प्रतिपाद्यते ।न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति । प्रतिपादितं ही तदनन्यत्वमारम्भणशब्दादिभ्य इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।प्राक्तु ब्रम्हात्मदर्शनाद्वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ।सन्ध्याश्रयस्तु प्रपञ्च: प्रतिदिनं बाध्यत इति ।अतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥४॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP