संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र ५-६ द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र ५-६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५-६ Translation - भाषांतर पराभिध्यानात्तु तिरोहितं ततो हयस्य नन्धविपर्ययौ ॥५॥पराभिध्यानात्तु तिरोहितं ततो हयस्य नन्धविपर्ययौ ॥ अथापि स्यात्परस्यैव तावदात्मनोंऽशो जीवोऽग्नेरिव विस्फुलिङ्ग ।तत्रैवं सति यथाग्निविस्फुलिङ्गयो: समाने दहनप्रकासनशक्ती भवत एवं जीवेश्वरयोरपि ज्ञानैश्चर्यशक्ती ततश्च जीवस्य ज्ञानैश्चर्यवशात्साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति ।अत्रोच्यते - सत्यपि जीवेश्वरयोरंशांशीभावे प्रत्यक्षमेव जीवस्येश्चरविपरीतधर्मत्वम् ।किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव ।न नास्त्येव ।विद्यमानमपि तु तत्तिरोहितमविद्यादिव्यवधानात् ।तत्पुनस्तिरोहितं सत्परमेश्वरमभिध्यायतो य्तमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव द्दक्शशक्तिरीषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् ।कुतस्ततो हीश्चराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवत: ।ईश्वरस्वरूपापरिज्ञानाद्बन्धस्तत्स्वरूपपरिज्ञानात्तु मोष: ।तथा च श्रुति: - ज्ञात्वा देवं सर्वपाशापहानि: क्षीणै: क्लेशैर्जन्ममृत्युप्रहाणि: ।तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकाम इत्येवमाद्या ॥५॥देहयोगाद्वा सोऽपि ॥६॥देहयोगाद्वा सोऽपि ॥ कस्मात्पुनर्जीव: परमात्मांश एव संस्तिरस्कृतज्ञानैश्चर्यो भवत्ति ।युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशानयोरिति ।उच्यते । सत्य्मेवैतत् ।सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावो देहयोगादेहेन्द्रियमनोबुद्धि विषयवेदनादियोगाद्भवति ।अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणिगतस्य दहनप्रकाशन तिरोहिते भवतो यथा वा भस्मच्छन्नस्य ।एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्य्पाधियोगात्तदविवेकभ्रमकृतो जीवस्य ज्ञानैस्वर्यतिरोभाव: ।वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थ: ।नन्वन्य एव जीव ईश्वराद्स्तु तिरस्कृतज्ञानैश्वर्यत्वात्किं देहयोगकल्पनया ।नेत्युच्यते ।न हयन्यत्वं जीवस्येश्वारदुपपद्यते सेयं देवतैक्षत इत्युपक्रम्यानेन जीवेमात्मनानुप्रविश्येत्यात्मशब्देन जीवस्य परामर्शात् ।तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इतिच जीवायोपदिसतीश्वरात्मत्वम् ।अतोऽनन्य एवेश्वराज्जीव: सन्देहयोगात्तिरोहितज्ञानैश्वर्यो भवति \अतश्च न साङकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ।यदि च साङ्कल्पिकी स्वप्ने रथादि सृष्टि: स्यान्नैवानिष्टं कश्चित्स्वप्नं पश्येत् ।न हि कश्चिदनिष्टं संकल्पयते ।यत्पुनरुक्त जागरितदेश्रुति: स्वप्नस्य सत्यत्वं स्थापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयंज्योतिष्ट्वविरोधात् ।श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ।जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्राय तत् ।तस्मादुपपन्नं स्वप्नस्यमायामात्रत्वम् ॥६॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP