संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|द्वितीयः पाद:| सूत्र २६-३० द्वितीयः पाद: सूत्र १-२ सूत्र ३ सूत्र ४ सूत्र ५-६ सूत्र ७ सूत्र ८-९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १६-१७ सूत्र १८-२० सूत्र २१ सूत्र २२ सूत्र २३-२५ सूत्र २६-३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३४ सूत्र ३५-३७ सूत्र ३८ सूत्र ३९-४१ द्वितीयोध्यायः - सूत्र २६-३० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २६-३० Translation - भाषांतर अतोऽनन्तेन तथा हि लिङ्गम् ॥२६॥अतोऽनन्तेन तथा हि लिङ्गम् ।अतश्च स्वाभाविकत्वादभेदस्याविद्याकृत्वाच्च भेदस्य विद्ययाऽविद्यां विधूय जीव: परेणानन्तेन प्राज्ञेनात्मनैकता गच्चति ।तथा हि लिङ्गं स यो ह वैतत्परमं ब्रम्हा वेद ब्रम्हौव भवति ब्रम्हौव सन्ब्रम्हाप्येतीत्यादि ॥२६॥उभयव्यपदेशात्त्वहिकुण्डलवत् ॥२७॥उभयव्यपदेशात्त्वहिकुण्डलवत् । तस्मिन्नव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये । क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते ।ततस्तु तं पश्यते निष्कलं ध्यायमान इति ध्यातृध्यातव्यत्वेनद्रष्ट्टद्रष्टव्यत्वेन च परात्परं पुरुषमुपैति दिव्यमिति गन्तृगन्तव्यत्वेन य: सर्वाणि भूतान्यन्तरो यमयतीति नियन्तृनियन्तव्यत्वेन क्वचित्तु तयोरेवाभेदो व्यपदिश्यते तत्त्वमस्यहं ब्रम्हास्मि एष त आत्मा सर्वान्तर एष त आत्माऽन्तर्याम्यमृत इति।तत्रैवमुभयव्यपदेशे सति यद्यभेद एवैकान्ततो गृहयते भेदव्यपदेशो निरालम्बन एव स्यात् ।अत उभयव्यपदेशदर्शनादहिकुण्डलवदत्र तत्त्वं भवितुमर्हति ।यथाहिरित्यभेद: कुण्डलाभोगप्रंशुत्वादीनि तु भेद एवमिहापीति ॥२७॥प्रकाशाश्रयवद्वा तेजस्त्वात् ॥२८॥प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ अथ वा प्रकाशाश्रयवदतेस्प्रतिपत्तव्यम् ।यथा प्रकाश: सावित्रस्तदाश्रयश्च सविता नात्यन्तभिन्नावुभयोरपि तेजस्त्वाविशेषात् ।अथ च भेदव्यपदेशभाजौ भवत एवमिहापीति ॥२८॥पूर्ववद्वा ॥२९॥पूर्ववद्वा ॥ यथा वा पूर्वंमुपन्यस्तं प्रकाशादिवञ्चावैशेष्यमिति तथैवैतद्भवितुमर्हति ।तथा हयविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते यदि पुन:परमार्थंत एव चद्ध: कश्चिदात्माऽहिकुण्डलन्यायेन परस्यात्मन: संस्थाभूत: प्रकाशाश्रयन्यायेन चैकदेशभूतोऽभ्युपगम्येत तत: पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवैयर्थ्यं प्रसज्येत न चात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवव्द्यपदिशति ।अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया ।तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्त: ॥२९॥प्रतिषेधाच्च ॥३०॥प्रतिषेधाच्चा ॥ इतश्चैष एव सिद्धान्त: । यत्कारणं परस्मादात्मनोऽन्यच्चेतनं प्रतिषेधति शास्त्रं नान्योऽतोऽस्ति द्रष्टेत्येवमादि ।अथात आदेशो नेति नेति तदेतदब्रम्हापूर्वमनपरमनन्तरमबाहयमिति च ब्रम्हाव्यतिरिक्तप्रपञ्चनिराकरणादब्रम्हामात्रपरिशेषाच्चैष एव सिद्धान्त इति गम्यते ॥३०॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP