संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः २७ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः २७ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः २७ Translation - भाषांतर श्रीभगवानुवाचप्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैःअविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत्स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जतेअहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यतेतेन संसारपदवीमवशोऽभ्येत्यनिर्वृतःप्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषुअर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्ततेध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथाअत एव शनैश्चित्तं प्रसक्तमसतां पथिभक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम्यमादिभिर्योगपथैरभ्यसञ्श्रद्धयान्वितःमयि भावेन सत्येन मत्कथाश्रवणेन चसर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतःब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसायदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिःविविक्तशरणः शान्तो मैत्रः करुण आत्मवान्सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम्ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य चनिवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनःउपलभ्यात्मनात्मानं चक्षुषेवार्कमात्मदृक्मुक्तलिङ्गं सदाभासमसति प्रतिपद्यतेसतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम्यथा जलस्थ आभासः स्थलस्थेनावदृश्यतेस्वाभासेन तथा सूर्यो जलस्थेन दिवि स्थितःएवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैःस्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक्भूतसूक्ष्मेन्द्रियमनो बुद्ध्यादिष्विह निद्रयालीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियःमन्यमानस्तदात्मानमनष्टो नष्टवन्मृषानष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरःएवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यतेसाहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहःदेवहूतिरुवाचपुरुषं प्रकृतिर्ब्रह्मन्न विमुञ्चति कर्हिचित्अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभोयथा गन्धस्य भूमेश्च न भावो व्यतिरेकतःअपां रसस्य च यथा तथा बुद्धेः परस्य चअकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयःगुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम्क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम्अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठतेश्रीभगवानुवाचअनिमित्तनिमित्तेन स्वधर्मेणामलात्मनातीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम्ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसातपोयुक्तेन योगेन तीव्रेणात्मसमाधिनाप्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम्तिरोभवित्री शनकैरग्नेर्योनिरिवारणिःभुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशःनेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य चयथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत्स एव प्रतिबुद्धस्य न वै मोहाय कल्पतेएवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम्युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित्यदैवमध्यात्मरतः कालेन बहुजन्मनासर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिःमद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसानिःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम्प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयःयद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमेयदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्गअनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP