संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १३ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १३ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १३ Translation - भाषांतर श्रीशुक उवाचनिशम्य वाचं वदतो मुनेः पुण्यतमां नृपभूयः पप्रच्छ कौरव्यो वासुदेवकथादृतःविदुर उवाचस वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवःप्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुनेचरितं तस्य राजर्षेरादिराजस्य सत्तमब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौश्रुतस्य पुंसां सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थःतत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदयेषु येषाम्श्रीशुक उवाचइति ब्रुवाणंविदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम्प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्टमैत्रेय उवाचयदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुःप्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषतत्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पितातथापि नः प्रजानां ते शुश्रूषा केन वा भवेत्तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषुयत्कृत्वेह यशो विष्वगमुत्र च भवेद्गतिःब्रह्मोवाचप्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वरयन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम्एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौशक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैःस त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैःउत्पाद्य शासधर्मेण गां यज्ञैः पुरुषं यजपरं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृपभगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यतियेषां न तुष्टो भगवान्यज्ञलिङ्गो जनार्दनःतेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम्मनुरुवाचआदेशेऽहं भगवतो वर्तेयामीवसूदनस्थानं त्विहानुजानीहि प्रजानां मम च प्रभोयदोकः सर्वभूतानां मही मग्ना महाम्भसिअस्या उद्धरणे यत्नो देव देव्या विधीयताम्मैत्रेय उवाचपरमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम्कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम्सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गताअथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैःयस्याहं हृदयादासं स ईशो विदधातु मेइत्यभिध्यायतो नासा विवरात्सहसानघवराहतोको निरगादङ्गुष्ठपरिमाणकःतस्याभिपश्यतः खस्थः क्षणेन किल भारतगजमात्रः प्रववृधे तदद्भुतमभून्महत्मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सहदृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधाकिमेतत्सूकरव्याजं सत्त्वं दिव्यमवस्थितम्अहो बताश्चर्यमिदं नासाया मे विनिःसृतम्दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्गण्डशिलासमःअपि स्विद्भगवानेष यज्ञो मे खेदयन्मनःइति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिःभगवान्यज्ञपुरुषो जगर्जागेन्द्रसन्निभःब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान्स्वगर्जितेन ककुभः प्रतिस्वनयता विभुःनिशम्य ते घर्घरितं स्वखेद क्षयिष्णु मायामयसूकरस्यजनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन्स्मतेषां सतां वेदवितानमूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम्विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेशउत्क्षिप्तवालः खचरः कठोरः सटा विधुन्वन्खररोमशत्वक्खुराहताभ्रः सितदंष्ट्र ईक्षा ज्योतिर्बभासे भगवान्महीध्रःघ्राणेन पृथ्व्याः पदवीं विजिघ्रन्क्रोडापदेशः स्वयमध्वराङ्गःकरालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान्गृणतोऽविशत्कम्स वज्रकूटाङ्गनिपातवेग विशीर्णकुक्षिः स्तनयन्नुदन्वान्उत्सृष्टदीर्घोर्मिभुजैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेतिखुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारपारं त्रिपरू रसायाम्ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्तपातालमूलेश्वरभोगसंहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतःयस्योपमानो न बभूव सोऽच्युतो ममास्तु माङ्गल्यविवृद्धये हरिःस्वदंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाःतत्रापि दैत्यं गदयापतन्तं सुनाभसन्दीपिततीव्रमन्युःजघान रुन्धानमसह्यविक्रमं स लीलयेभं मृगराडिवाम्भसितद्रक्तपङ्काङ्कितगण्डतुण्डो यथा गजेन्द्रो जगतीं विभिन्दन्तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाङ्गप्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चिमुख्या उपतस्थुरीशम्ऋषय ऊचुःजितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नमःयद्रोमगर्तेषु निलिल्युरद्धयस्तस्मै नमः कारणसूकराय तेरूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम्छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम्स्रक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रेप्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम्दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रःजिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सत्यावसथ्यं चितयोऽसवो हि तेसोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवःसत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनःनमो नमस्तेऽखिलमन्त्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मनेवैराग्यभक्त्यात्मजयानुभावित ज्ञानाय विद्यागुरवे नमो नमःदंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरायथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनीत्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन तेचकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमःसंस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिताविधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाःकः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम्न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम्विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम्सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताःस वै बत भ्रष्टमतिस्तवैषते यः कर्मणां पारमपारकर्मणःयद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम्मैत्रेय उवाचइत्युपस्थीयमानोऽसौ मुनिभिर्ब्रह्मवादिभिःसलिले स्वखुराक्रान्त उपाधत्तावितावनिम्स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिःरसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिःय एवमेतां हरिमेधसो हरेः कथां सुभद्रां कथनीयमायिनःशृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनोऽस्याशु हृदि प्रसीदतितस्मिन्प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिरलं लवात्मभिःअनन्यदृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्वगतिं परः पराम्को नाम लोके पुरुषार्थसारवित्पुराकथानां भगवत्कथासुधाम्आपीय कर्णाञ्जलिभिर्भवापहामहो विरज्येत विना नरेतरम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP