संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १९ तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १९ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १९ Translation - भाषांतर मैत्रेय उवाचअवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचःप्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत्ततः सपत्नं मुखतश्चरन्तमकुतोभयम्जघानोत्पत्य गदया हनावसुरमक्षजःसा हता तेन गदया विहता भगवत्करात्विघूर्णितापतद्रेजे तदद्भुतमिवाभवत्स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम्मानयन्स मृधेधर्मं विष्वक्सेनं प्रकोपयन्गदायामपविद्धायां हाहाकारे विनिर्गतेमानयामास तद्धर्मं सुनाभं चास्मरद्विभुःतं व्यग्रचक्रं दितिपुत्राधमेन स्वपार्षदमुख्येन विषज्जमानम्चित्रा वाचोऽतद्विदां खेचराणां तत्र स्मासन्स्वस्ति तेऽमुं जहीतिस तं निशाम्यात्तरथाङ्गमग्रतो व्यवस्थितं पद्मपलाशलोचनम्विलोक्य चामर्षपरिप्लुतेन्द्रियो रुषा स्वदन्तच्छदमादशच्छ्वसन्करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निवअभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम्पदा सव्येन तां साधो भगवान्यज्ञसूकरःलीलया मिषतः शत्रोः प्राहरद्वातरंहसम्आह चायुधमाधत्स्व घटस्व त्वं जिगीषसिइत्युक्तः स तदा भूयस्ताडयन्व्यनदद्भृशम्तां स आपततीं वीक्ष्य भगवान्समवस्थितःजग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम्स्वपौरुषे प्रतिहते हतमानो महासुरःनैच्छद्गदां दीयमानां हरिणा विगतप्रभःजग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम्यज्ञाय धृतरूपाय विप्रायाभिचरन्यथातदोजसा दैत्यमहाभटार्पितं चकासदन्तःख उदीर्णदीधितिचक्रेण चिच्छेद निशातनेमिना हरिर्यथा तार्क्ष्यपतत्रमुज्झितम्वृक्णे स्वशूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णमुरो विभूतिमत्प्रवृद्धरोषः स कठोरमुष्टिना नदन्प्रहृत्यान्तरधीयतासुरःतेनेत्थमाहतः क्षत्तर्भगवानादिसूकरःनाकम्पत मनाक्क्वापि स्रजा हत इव द्विपःअथोरुधासृजन्मायां योगमायेश्वरे हरौयां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम्प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन्दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इवद्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिःवर्षद्भिः पूयकेशासृग् विण्मूत्रास्थीनि चासकृत्गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघदिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाःबहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैःआततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाःप्रादुष्कृतानां मायानामासुरीणां विनाशयत्सुदर्शनास्त्रं भगवान्प्रायुङ्क्त दयितं त्रिपात्तदा दितेः समभवत्सहसा हृदि वेपथुःस्मरन्त्या भर्तुरादेशं स्तनाच्चासृक्प्रसुस्रुवेविनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम्रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिःतं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजःकरेण कर्णमूलेऽहन्यथा त्वाष्ट्रं मरुत्पतिःस आहतो विश्वजिता ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनःविशीर्णबाह्वङ्घ्रिशिरोरुहोऽपतद्यथा नगेन्द्रो लुलितो नभस्वताक्षितौ शयानं तमकुण्ठवर्चसं करालदंष्ट्रं परिदष्टदच्छदम्अजादयो वीक्ष्य शशंसुरागता अहो इमं को नु लभेत संस्थितिम्यं योगिनो योगसमाधिना रहो ध्यायन्ति लिङ्गादसतो मुमुक्षयातस्यैष दैत्यऋषभः पदाहतो मुखं प्रपश्यंस्तनुमुत्ससर्ज हएतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम्पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिःदेवा ऊचुःनमो नमस्तेऽखिलयज्ञतन्तवे स्थितौ गृहीतामलसत्त्वमूर्तयेदिष्ट्या हतोऽयं जगतामरुन्तुदस्त्वत्पादभक्त्या वयमीश निर्वृताःमैत्रेय उवाचएवं हिरण्याक्षमसह्यविक्रमं स सादयित्वा हरिरादिसूकरःजगाम लोकं स्वमखण्डितोत्सवं समीडितः पुष्करविष्टरादिभिःमया यथानूक्तमवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम्यथा हिरण्याक्ष उदारविक्रमो महामृधे क्रीडनवन्निराकृतःसूत उवाचइति कौषारवाख्यातामाश्रुत्य भगवत्कथाम्क्षत्तानन्दं परं लेभे महाभागवतो द्विजअन्येषां पुण्यश्लोकानामुद्दामयशसां सताम्उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनःयो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम्क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम्तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिःकृतज्ञः को न सेवेत दुराराध्यमसाधुभिःयो वै हिरण्याक्षवधं महाद्भुतं विक्रीडितं कारणसूकरात्मनःशृणोति गायत्यनुमोदतेऽञ्जसा विमुच्यते ब्रह्मवधादपि द्विजाःएतन्महापुण्यमलं पवित्रं धन्यं यशस्यं पदमायुराशिषाम्प्राणेन्द्रियाणां युधि शौर्यवर्धनं नारायणोऽन्ते गतिरङ्ग शृण्वताम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP