संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण| तॄतीयः स्कन्धः| अध्यायः १० तॄतीयः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ तृतीयः स्कन्धः - अध्यायः १० भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १० Translation - भाषांतर विदुर उवाचअन्तर्हिते भगवति ब्रह्मा लोकपितामहःप्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुःये च मे भगवन्पृष्टास्त्वय्यर्था बहुवित्तमतान्वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान्सूत उवाचएवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनिःप्रीतः प्रत्याह तान्प्रश्नान्हृदिस्थानथ भार्गवमैत्रेय उवाचविरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपःआत्मन्यात्मानमावेश्य यथाह भगवानजःतद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठितःपद्ममम्भश्च तत्काल कृतवीर्येण कम्पितम्तपसा ह्येधमानेन विद्यया चात्मसंस्थयाविवृद्धविज्ञानबलो न्यपाद्वायुं सहाम्भसातद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम्अनेन लोकान्प्राग्लीनान्कल्पितास्मीत्यचिन्तयत्पद्मकोशं तदाविश्य भगवत्कर्मचोदितःएकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधाएतावाञ्जीवलोकस्य संस्थाभेदः समाहृतःधर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठ्यसौविदुर उवाचयथात्थ बहुरूपस्य हरेरद्भुतकर्मणःकालाख्यं लक्षणं ब्रह्मन्यथा वर्णय नः प्रभोमैत्रेय उवाचगुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितःपुरुषस्तदुपादानमात्मानं लीलयासृजत्विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमाययाईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिनायथेदानीं तथाग्रे च पश्चादप्येतदीदृशम्सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यःकालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमःआद्यस्तु महतः सर्गो गुणवैषम्यमात्मनःद्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयःभूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकःवैकारिको देवसर्गः पञ्चमो यन्मयं मनःषष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोःषडिमे प्राकृताः सर्गा वैकृतानपि मे शृणुरजोभाजो भगवतो लीलेयं हरिमेधसःसप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यःवनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाःउत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणःतिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतःअविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनःगौरजो महिषः कृष्णः सूकरो गवयो रुरुःद्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तमखरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथाएते चैकशफाः क्षत्तः शृणु पञ्चनखान्पशून्श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्लकौसिंहः कपिर्गजः कूर्मो गोधा च मकरादयःकङ्कगृध्रबकश्येन भासभल्लूकबर्हिणःहंससारसचक्राह्व काकोलूकादयः खगाःअर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम्रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनःवैकृतास्त्रय एवैते देवसर्गश्च सत्तमवैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकःदेवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराःगन्धर्वाप्सरसःसिद्धा यक्षरक्षांसि चारणाःभूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयःदशैतेविदुराख्याताः सर्गास्ते विश्वसृक्कृताःअतः परं प्रवक्ष्यामि वंशान्मन्वन्तराणि चएवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिःसृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP