संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| श्रीकृष्णपूजाविधि: अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - श्रीकृष्णपूजाविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत श्रीकृष्णपूजाविधि: Translation - भाषांतर ॥ अथ गोकुलाष्टम्यां श्रीकृष्णपूजाविधि: ॥तत्र निशीथव्यापिन्यामष्टम्यां निशीथेरोहिणीयुतायां जन्माष्टमीव्रतं जयन्तीव्रतं च सहैवेति सकलसिद्धान्त: । सर्वथा निशीथे अष्टमीयोगाभावे उभयेद्यू रोहिणीयोगा भावे सकलनिशीथव्याप्तौ अंशत: समव्याप्तौ वा परेद्युरेव जन्माष्टमीव्रतम् । विषमव्याप्तौ त्वधिकव्यापिन्याम् । अथ पूजाविधि: । आचम्य प्राणानायम्य देशकालौ स्मृत्वा, मम सकुटुम्बस्य क्षेमस्थैर्यविजयाभयायुरारोग्यैश्वर्याभिवृध्यर्थं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिध्यर्थं नन्दयशोदाबलदेवादिश्रीकृष्णप्रीत्यर्थं च पुरुषसूक्तेन पुराणोक्तमन्त्रैश्च यथामिलितोपचारद्रव्यै: जन्माष्टमीव्रताङ्गत्वेन विहितं परिवारसहितश्रीकृष्णपूजनमहं करिष्ये । तदङ्गत्वेन गणपतिपूजनं आसनविधिं पुरुषसूक्तन्यासान् कलशपूजनं शङ्खघण्टापूजनं च करिष्ये । गणपतिपूजनादिपूजासम्भारप्रोक्षणान्तं कृत्वा प्राणप्रतिष्ठां कुर्यात् । तद्विधिश्च सिद्धिविनायकपूजायां द्रष्टव्य: अथ धानम् । गायद्भि: किन्नराद्यै: सततपरिवृता वेणुवीणानिनादै: श्रृङ्गारादर्शकुम्भप्रवरकृतकरै: किन्नरै: सेव्यमाना । पर्यङ्के स्वास्तृतायामुदिततरमुखी पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुवदना देवकी दिव्यरूपा ॥ देवक्यै० देवकीं ध्यायामि । मञ्चके बालकं सुप्तं पर्यङ्के स्तनपायिनम् । श्रीवत्सवक्षसं शान्तं नीलोत्पलदलच्छविम् ॥ श्रीकृष्णाय नम: श्रीकृष्णं परिबारदेवताश्च ध्यायामि ।१. श्रीकृष्णा० श्रीकृष्णं आ० ।२. देवक्यै० देवकीं आ० ।३. रोहिण्यै० रोहिणीं० ।४. वसुदेवा० वसुदेवं० ।५. बलदेवा० बलदेवं० ।६. यशोदायै० यशोदां आ० ।७. नन्दाय० नन्दं आ० । ८. गर्गाय० गर्गं आ० । ९. चतुर्मुखा० चतुर्मुखं० ।१०. गोकुला० गोकुलं आ० । ११. रुकमिण्यै० रुक्मिणीं० ।१२. सत्यभामायै० सत्यभामां आ० ।१३. नाग्नजित्यै० नाग्नजितीं० ।१४. कालिन्द्यै० कालिन्दीं आ० ।१५. मित्रविन्दा० मित्रविन्दां० ।१६. लक्ष्मणा० लक्ष्मणां आ० ।१७. जाम्बवत्यै० जाम्बवतीं० ।१८. सुशीला० सुशीलां आ० ।१९. कंसाय० कंसं आ० ।२०. गवे० गां आ० । २१. कुञ्जरा० कुञ्जरं आ० ।२२. यमुना० यमुनां आ० ।२३. कालिया० कालियं० ।सहस्रशीर्षा० आगच्छ देवदेवेश जगद्योने रमापते । पूजयिष्याम्यहं देव प्रसादात्सुमुखो भव ॥ श्रीकृष्णाद्यावाहितदेवताभ्यो नम: । आवाहनं० ॥ पुरुषण० देवदेव जगन्नाथ गरुडासनसंस्थित । आसनं कल्पितं दिव्यं जगद्धाम नमोऽस्तु ते ॥ आसनं० ॥ एतावा० नानातीर्थाहृतं शुद्धं निर्मलं पुष्पवासितम् । पाद्यं गृहाण देत्यारे विश्वरूप नमोऽस्तु ते ॥ पाद्यं० ॥ त्रिपादू० गङ्गादिसर्धतीर्थेभ्यो मयाऽऽनीतं सुशीतलम् । गोपीपते गृहाणार्घ्यं गन्धपुष्पफलैर्युतम् ॥ अर्ध्यं० ॥ तस्माद्वि० कृष्णावेणीसमुद्भूतं कालिन्दीजलसंयुतम् । गृहाणाचमनं कृष्ण विश्चकाय नमोऽस्तु ते ॥ आचमनीयं० ॥ दधि क्षौद्रं घृतं शुद्धं कपिलाया: सुगन्धि यत् । सुस्वादु मधुरं शौरे मधुपर्कं गृहाण मे ॥ मधुपर्कं० ॥ पयो दधि घृतं क्षौद्रं शर्करासहितं प्रभो । स्ननार्थं देवदेवेश गृह्यतां देवकीसुत ॥ आप्यायस्वेत्यादिवैदिकमन्त्रिश्च पञ्चामृतस्नानं० ॥ यत्पुरुषेण० मन्दाकिनी गौतमी च यमुना च सरस्वती । ताभ्य: स्नानार्थमानीतं गृहाण शिशिरं जलम् ॥ स्नानं० ॥ तैल सुगन्धसंयुक्तं नानापुष्पै: सुवासितम् । मङ्गलार्थं मया दत्तमभ्यङ्गं प्र० । कनिक्र० तैलाभ्यङ्गस्नानं० । हिरद्राया: कृतं चूर्णं सतैलं ससुगन्धिकम् । मया निवेदितं साम्बूद्वर्तनं प्र० ॥ हरिद्राचूर्णलेपनं० ॥ नानतीर्थादाहृतं च सुगन्धं जलमुत्तमम् । उष्णं कृतं मया देव स्नानार्थं प्र० ॥ उष्णोदकस्नानं० ॥ आचमनीयं० । स्नानसमये नीराज्य, पञ्चोपचारपूजां कृत्वा पुरुषसूक्तेन, श्रीसूक्तेन, सुरास्त्वेत्यादिभिश्चाभिषेक: । तंयज्ञं० क्षौमं च पट्टसूत्राढयं मयाऽऽनीतं शुभांशुकम् । गृह्यतां देवदेवेश रमाधीश सुरोत्तम ॥ वस्रं० ॥ तस्माद्यज्ञात्सर्वहुत: सं० दामोदर नमस्तेऽस्तु त्राहि मां भवसागरात् । ब्रह्मसूत्रं सोत्तरीयं गृ० ॥ यज्ञोपवी० ॥ किरीटकुण्डलादीनि काञ्चीवलययुग्मकम् । कौस्तुभं वनमाला च भूषणानि जगत्प्रभो ॥ आभूषणं० ॥ तस्मा० ऋ० कुङ्कुमेन समायुक्तं कर्पूरादिसमन्वितम् । मया निवेदितं भक्त्या चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षताश्च सुरश्रेष्ठा: कुङ्कुमाक्ता: सुशोभिता: । पूजासंरक्षणार्थाय अक्षता: प्रति० ॥ आक्षतान्० ॥ तस्माद० पुष्पाणि यानि दिव्यानि पारिजातोद्भवानि च । मालतीकेशरादीनि पूजार्थं प्रति० ॥ पुषाणि० ॥॥ अथाङ्गपूजा ॥१. श्रीकृष्णाय० पादौ पू० ।२. सङ्कर्षणाय० गुल्फौ पू० ।३. कालात्मने० जानुनी पू० ।४. विश्वकर्मणे० जङ्घे पू० ।५. विश्वनेत्रा० कटी पू० ।६. विश्वकर्त्रे० मेढ्रं पू० ।७. पद्मनाभाय० नाभिं पू० ।८. परमात्मने० हृदयं पू० ।९. श्रीकण्ठाय० कण्ठं पू० ।१०. सर्वास्त्रधारिणे० बाहू पू० ।११. वाचस्पतये० मुखं पू० ।१२. केशवाय० ललाटं पू० ।१३. सर्वात्मने० शिर: पू० ।१४. विश्वरूपिणे० सर्वाङ्गं पू० । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP