संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| शिवपूजाविधिः अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - शिवपूजाविधिः सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत शिवपूजाविधिः Translation - भाषांतर श्रावणे प्रति सोमवासरे प्रदोषे शिवपूजनमुपवासो नक्तं वेत्यादि विहितम् । प्रदोषे स्नात्वा सायं सन्ध्यावन्दनादि विधाय देशकालौ स्मृत्वा आत्मन: अशेषपापक्षयपूर्वकसत्पुत्रप्राप्तिधनधान्यैश्वर्याद्यभिवृद्धिद्वारा अमुककामनया वा श्रावणसोमवारनिमित्तं श्रीउमामहेश्वरप्री० उमामहेश्वरपूजनमहं करिष्ये । आसनविध्यादिसम्भारप्रोक्षणान्नं कृत्वा, ध्यायेन्नित्यं महेशं रजतमिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पो ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वायं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥१॥बन्धूकसन्निभं देवं त्रिनेत्रं चन्द्रशेखरम् । त्रिशूलधारिणं देवं चारुल्लासं सुनिर्मलम् ॥२॥कपालधारिणं देवं वरदाभयहस्तकम् । उमया सहितं शम्भुं ध्यायेत्सोमेश्वरं सदा ॥३॥श्रीउमामहेश्वराभ्यां० उमामहेश्वरौ ध्यायामि । आयाहि भगवन् शम्भो शर्व त्वं गिरिजापते । प्रसन्नो भव देवेश नमस्तुभ्यं हि शङ्कर ॥ त्रिपुरान्तकरं देवं चन्द्रचूडं महद्युतिम् । गजचर्मपरीधानं सोमंचावाहयाम्यहम् ॥ श्रीउमा० आवाहनं० । विश्वेश्वर महादेव राजराजेश्वरप्रिय । आसनं दिव्यमीशान दास्येऽहं तुभ्यमीश्वर ॥ श्रीउमा० आसनं० । महादेव महेशान महानन्द परात्पर ॥ पाद्यं गृहाण मद्दतं पार्वतीश महेश्वर ॥ पाद्यं० । त्र्यम्बकेश सदाचार जगदादिविधायक । अर्ध्यं गृहाण देवेश साम्ब सर्वार्थदायक ॥ अर्थ्वं० । त्रिपुरान्तक दीनार्तिनाश श्रीकण्ठ शाश्वत । गृहणाचमनीयं च पवित्रोदककल्पितम् ॥ आचमनीयं० । पयो दधि घृतं चैव शर्करा मधुसंयुतम् । पञ्चामृतं मयानीतं गृहाणेदं जगत्पते ॥ पञ्चामृतस्नानं० । गङ्गा गोदावरी रेवा पयोष्णी यमुना तथा । ताभ्य: स्नानार्थमानीतं जलं स्वीक्रियतां प्रभो ॥ स्नानं० । पञ्चोपचारै: सम्पूज्याभिषेकं कुर्यात् । महिम्न: पारन्ते० इत्यादिभि: । वस्त्राणि पट्टकूलानि विचित्राणि नवानि च । मयाऽऽनीतानि देवेश प्रसन्नो भव शङ्कर ॥ वस्त्रं० । सौवर्णं राजतं शुभ्रं कार्पासस्य विनिर्मितम् । उपवीतं मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ यज्ञोपवीतं० । सर्वेश्वर जगद्वन्द्य दिव्यासनसमन्वित । गन्धं गृहाण देवेश सुरराज नमोऽस्तु ते ॥ चन्दनं० । अक्षताश्च सुरश्रेष्ठ शुभ्राधूताश्च निर्मला: । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ अक्षतान्स० ॥ माल्यादीनि० पुष्पाणि० ।॥ अथाङ्गपूजा ॥१. शिवाय० पादौ पू० ।२. महेश्वराय० जङ्घे पू० ।३. शम्भवे० जानुनी पू० ।४. पिनाकिने० उरु० पू० ॥५. शशिशेखरा० कटी पू० ।६. शूलपाणये० नाभिं पू० ।७. वामदेवाय० उदरं पू० ।८. विरूपाक्षाय० कण्ठं पू० ।९. नीललोहिताय० मुखं पू० ।१०. शाङ्कराय० नेत्रे पू० ।११. रुद्राय० कर्णौ पू० ।१२. शर्वाय० ललाटं पू० ।१३. सदा शिवाय० शिरा: पू० ।१४. महादे० सर्वाङगं पू० ।वनस्पति० धूपं० । आज्यं च वर्ति० दीपं दर्शयामि । अपूपानि च पक्वानि मण्डलावटकानि च । पायसं पूपमन्नं च नैवेद्यं प्रतिगृह्य ताम् ॥ नैवेद्यं० । नैवेद्यान्ते आचम० । करोद्वर्तनं० । कूष्माण्डं मातुलिङ्गं च नारिकेलफलानि च । गृहाण पार्वतीकान्त सोमेशान नमोऽस्तु ते ॥ फलं० । पूगीफलं० ताम्बूलं० । हिरण्यगर्भ० दक्षिणां० । अग्निर्ज्योती रविर्ज्योतिर्ज्योतिर्नारायणो विधु: । नीराजयामि सोमेशां पञ्चदीपै: सुरेश्वर ॥ कर्पूरदीपं० । हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नम: ॥ नमस्कारान्० । यानि कानि च० प्रदक्षिणां० । हर विश्वाखिलाधार निराधार निराश्रयापुषाञ्जलिं गृहाणेश सोमेश्वर नमोऽस्तु ते ॥ पुष्पाञ्जलिं० । बिल्वपत्रं सुवर्णस्य त्रिशूलाकारमेव च । मयार्पितं तु तच्छम्भो गृहाण परमेश्वर ॥ बिल्वपत्रं० । यस्य स्मृत्या० । अनेन मया० श्रीउमा० पू० उमामहेश्वरौ प्रीयेताम् ॥ श्रावणे कार्तिके माघे वा शुक्लपक्षे सोमवारे शुभे तिथौ षोडशसोमवारवतारम्भ:कार्य:। श्रावणसोमवारे शिवपूजनवदत्रापि पूजनं कार्यम् । सङ्कल्पे तु अद्य पू० प्राप्त्यर्थं पूर्वसङ्कल्पितामुककामनयाऽऽचरितषोडशसोमवारवताङ्गत्वेन विहितं श्रीउमामहेश्वरप्रीत्यर्थं यथामिलितोपचारद्रव्यै: श्रीउमामहेश्वरपूजनमहं क० । इति विशेष: । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP