संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| बुधगुरुपूजाप्रकार: अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - बुधगुरुपूजाप्रकार: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत बुधगुरुपूजाप्रकार: Translation - भाषांतर ॥ श्रावणे प्रतिबुधगुरुवासरे बुधगुरुपूजाप्रकार: ॥कामनाभेदेनानेकस्थले तौ विलिख्य पूजयेत् । यथा सन्ततिकामनायाम्, बालान्दोलनोपरि विलेख्यौ । धनवृद्धिकामनायाम्, कोशागारे । पाकवृद्धिकामनायाम्, पाकागारे । देवकृपाकामनायाम्, देवागारे । स्त्र्यवियोगकामनायाम्, शय्यागारे । धान्यवृद्धिकामनायाम्, धान्यागारे हरिद्रादिना विलिख्य पूजामारभेत् । देशकालौ स्मृत्वा मम अमुककामना सिद्धिद्वारा श्रीबुधगुरुप्रीत्यर्थं बुधगुरुपूजनमहं करिष्ये । कलशपूजनादि विधाय पूजासम्भारान् प्रोक्ष्य, प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं गुरूं प्रणमाम्यहम् ॥ ध्यानं० । श्रीबुधगुरुभ्यां नम इति आवाहनादिषोडशोपचारै: सम्पूज्य नैवेद्यकाले मूलकसहितदधिभक्तनैवेद्यं समर्प्य पूजां समाप्य य: करिष्यति मेधावी मिलित्वा युवयोर्व्रतम् । तस्य स्यात्सकला सिद्धि: सत्यं सत्यं न संशय: ॥ इति सम्प्रार्थयेत् । तत: स्वस्त्रीयमातुलौ सम्भोजयेत् । अनेन पूजनेन श्रीबुधगुरुप्रीयेताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP