संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:| सूर्यपूजाविधिः अथ श्रावणमास: सूर्यपूजाविधिः शिवपूजाविधिः षोडशसोमवारकथा प्राकृतकथा शिवामुष्टिव्रतविधि: मङ्गलागौरीपूजाविधि: अथाङ्गपूजा मङ्गलागौरीकथा बुधगुरुपूजाप्रकार: जीवन्तिकापूजाविधि: वरलक्ष्मीपूजाविधि: वरलक्ष्मीकथा नृसिंहशनिहनुमतां पूजनप्रकार: नागपूजाविधि: सूपौदनवायनदानविधि: दध्योदनदानविधि: पवित्रारोपणविधि: सभादीपदानविधि: रक्षाबन्धनविधि: हलषष्ठीपूजाविधि: श्रीकृष्णपूजाविधि: अष्टोत्तरशतविष्णुनामावलि जन्माष्टमीपूजाविधि: पिठोराव्रतम् चतु:षष्टियोगिनीपूजनप्रयोग: पिठोराव्रताङ्गोवृषपूजाविधि: श्रावणमास: - सूर्यपूजाविधिः सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत सूर्यपूजाविधिः Translation - भाषांतर तत्र प्रति रविवासरे मौनेनोत्थाय शीतजलेन स्नात्वा नित्यकर्म सम्पाद्य नागवल्लीदले रफचन्दनेन द्वादशपरिधियुतमर्कवद्वर्तुलं मण्डलं विलिख्य तत्र संज्ञायुतं सूर्यं पूजयेत् । नारिकेलबीजं शर्कराखण्डयुतं नैवेद्यार्थं सम्पादयेत् । अथ पूजाविधि: । आचम्य देशकालौ स्मृत्वा, मम निखिलदुरितदौर्भाग्यदु:स्वप्नदैन्यादिपीडापरिहारद्वारा सुखसौभाग्यसन्तत्यारोग्यैश्वर्याभिवृद्धयर्थं श्रीसंज्ञासहितसूर्यप्रीत्यर्थं श्रावणरविवारे सूर्यपूजनमहं करिष्ये । कलशघण्टापूजनादि प्रोक्षणान्तं कृत्वा, ध्येय: सदा सवितृमण्डलमध्यवर्ती नारायण: सरसिजासनसन्निविष्ट: । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्र: ॥ श्रीसूर्यं ध्यायामि । श्रीसंज्ञासहितसूर्याय नम इति नाममन्त्रेण षोडशोपचारै: रक्तचन्दनरक्ताक्षताजपापुष्पै: सम्पूज्य भूमौ जानुनी निधाय रक्ताक्षतारक्तचन्दनमिश्रितजपापुष्पसहितजलेन द्वादशार्ध्यान् दद्यात् । मित्राय नम इदमर्ध्यं स०, इत्यादि । द्वादशप्रदक्षिणा द्वादशनमस्कारांश्च कुर्यात् । तत: षट्तन्तुनिर्मितं षडग्रन्थियुतं सूत्रं सूर्यापार्पयित्वा दक्षिणकरे बध्नीयात् । स्त्री तु वामकरे । ततो द्वादशफलयुतं वायनं ब्राह्मणाय दद्यात् । यस्य० । अनेन० प्रीयताम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP