संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|प्रथमो भागः|अथ श्रावणमास:|

श्रावणमास: - मङ्गलागौरीपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


आचम्य, देशकालौ स्मृत्वा हस्तेऽक्षतोदकं गृहीत्वा, ममेह जन्मनि जन्मान्तरे च पुत्रपौत्रादिवृद्धयेऽवैधव्यायुरारोग्यैश्वर्याद्यभीष्टसकलसिद्धिद्वारा श्रीमङ्गलागौरीदेवताप्रीत्यर्थं मयाऽऽचरितपञ्चवर्षात्मकमङ्गलागौरीव्रताङ्गत्वेन विहितं यथामिलितोपचारै: श्रीमङ्गलागौरीपूजनमहं करिष्ये । आदौ निर्वि० महागणपतिपू० कलशघण्टापूजनं च करिष्ये ॥ श्रीमहागणपतये० इति सम्पूज्य । वक्रतुण्ड० इति प्रार्थयेत्‌ । अनया० महा० प्रीयताम् । कलशस्य० । वरुणाय० गन्धपु० । आगमार्थं तु० । घण्टादेव्यै० गन्ध० ॥ अपवित्र:० कलशोदकेन पूजासम्भारान्‌ प्रोक्ष्य, ध्यायेत्‌ । कुङ्कुमागरुलिप्ताङ्गां सर्वाभरणभूषिताम्‌ । नीलकण्ठप्रियां गौरी वन्देऽहं मङ्गलाह्णयाम्‌ ॥ श्रीमङ्गलागौर्यै नम: मङ्गलागौरी ध्यायामि । अत्रागच्छ महादेवि सर्वलोकसुखप्रदे । यावद व्रतमहं कुर्वे पुत्रपौत्रादिवृद्धये ॥ श्रीमङ्गलागौर्यै० आवाह० ॥ रौप्येण चासनं दिव्यं रत्नमाणिक्यशोभितम्‌ । मयाऽऽनीतं गृहाण त्वं गौरि कामारिवल्लभे ॥ आसनं० ॥ गन्धपुष्पाक्षतैर्युक्तं पाद्यं सम्पादितं मया । गृहाण पुत्रपौत्रादीन्‌ सर्वान्‌ कामांश्च पूरय ॥ पाद्यं० । गन्धपुष्पाक्षतैर्युक्तमर्ध्यं सम्पादितं मया । गृहाण मङ्गले गौरि प्रसन्ना भव सर्वदा ॥ अर्ध्यं० । कामारिवल्लभे देवि कुर्वाचमनमम्बिके । निरन्तरमहं वन्दे चरणौ तव पार्वति ॥ आचमनीयं० ॥ कामधेनुसमुदभूतं दुग्धं चामृतमुत्तमम्‌ । पावनं सर्वलोकानां स्नानार्थं प्र० ॥ पयस्नानं० ॥ गोदुग्धं विकृतं देवि दधिरूपं गुणालयम्‌ । स्नानार्थं च मया दत्तं गृह्यतां परमेश्वरि ॥ दधिस्नानं० ॥ गोघृतं च मयाऽऽनीतं देवानां हविरुत्तमम्‌ । पावनं सर्वलोकानां स्नानार्थं प्र० ॥ घृस्नानं० । पुष्पसारसमुद्भभूतं मक्षिकाभि: कृतं मधु । स्नानार्थं च प्रयच्छाम्रि गृहाण परमेश्वरि ॥ मधुस्नानं० ॥ शर्करा च सिता श्रेष्ठा इक्षुसारसमुद्भवा । मया निवेदिता भक्त्या गृ० ॥ शर्करास्नानं० । जाह्णवीतोयमानीतं शुभ्रं कर्पूरसंयुतम्‌ ॥ स्नपपामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम्‌ ॥ स्नानं० । अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्चितं शुद्धं स्नानार्थं प्र० ॥ अभ्यङ्गस्नानं० ॥ अङ्गोद्वर्तनकं देवि कस्तूर्या कुङ्कमेन च । अन्यै: सुगन्धद्रव्यैश्च निर्मितं प्र० ॥ अङ्गोद्वर्तनं० ॥ नानातीर्थादाहृतं च तोयमुष्णं मया कृतम्‌ । स्नानार्थं च प्रयच्छामि गृ० ॥ उष्णोदकस्नानं० ॥ श्रीमङ्गलागौर्यैं नम इति मन्त्रेण गन्धादिपञ्चोपचारपूजां कृत्वा, निर्माल्यं विस्रस्य । अथाभिषेक: ।
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वरा: । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभु: ॥१॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयायते । आखण्डलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ॥२॥
वरुण: पवनश्चैव धनाध्यक्षस्ताथा शिव: । ब्रह्मणा सहिता: सर्वे दिकपाला: पान्तु ते सदा ॥३॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टि: श्रद्धा क्रिया मति: । बुद्धिर्लज्जा वपु: शान्ति: कान्तिस्तुष्टिश्च मातर: ॥४॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्य: समागता: । आदित्यश्चन्द्रमा भ्ॐओ बुधजीवसितार्कजा: ॥५॥
ग्रहास्त्वामभिषिचन्तु राहु: केतुश्च तर्पिता: । देवदानवगन्धर्वा यक्षराक्षसपन्नगा: ॥६॥
ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणा: ॥७॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥८॥
सरित: सागरा: शैलास्तीर्थानि जलदा नदा: । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥९॥
अमृताभिषेकोऽस्तु । वस्त्रं च सोमदेवत्यं लज्जायास्तु निवारणम्‌ । मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥ वस्त्रं० ॥ कञ्चुकीमुपवस्त्रं च नानारत्नै:समन्वितम्‌ । गृहाण त्वं मया दत्तं पार्वति जगदीश्वरि ॥ कञ्चुकीवस्त्रं० । भूषणानि च दिव्यानि मुक्ताहारयुतानि च । त्वदर्थमुपक्लृप्तानि गृहाण परमेश्वरि ॥ भूषणा० ॥ षोडशतण्डुलान्‌ स० । षोडश चणकशकलान्‌ स० ॥ कुङ्कुमागरुकर्पूरचन्दनं कस्तुरीं तथा । विलेपनं महादेवि गन्धं दास्यामि भक्तित: ॥ गन्धं० ॥ हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलान्वितम्‌ । सौभाग्यद्रव्यसंयुक्तं गृहाण परमेश्वरि ॥ सौभाग्यद्रव्याणि स० ॥ रञ्जिता: कुङकुमाद्येन अक्षताश्चातिशोभना: । ममैषां देवि दानेन प्रसन्ना भव पार्वति ॥ अक्षतान्‌० ॥ सेवन्तिकाबकुलचम्पकपाटलाब्जै: पुन्नागजातिकरवीररसालपुष्पै: । बिल्वप्रवालतुलसीदलमालतीभिस्त्वां पूजयामि जगदीश्वरि मे प्रसीद ॥ पुष्पाणि० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP