संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| पञ्चदशोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - पञ्चदशोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत पञ्चदशोऽध्यायः Translation - भाषांतर गते नियमिते काले गन्धर्वश्चोपवर्हणः ।स्वयोगेन जहौ देहं भारते प्राक्तनादहो ॥१॥स जज्ञे शुद्रयोनौ च पितुः शापेन च दैवतः ।विष्णुप्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥२॥विमुक्तस्तातशापेन सम्प्राप्य ज्ञानं उत्तमं ।प्रतिजन्मस्मृतिस्तस्य कृष्णमन्त्रप्रसादतः ॥३॥पितुः सकाशादागत्य सम्प्राप चन्द्रशेखराथ् ।श्रीकृष्णमन्त्रं अतुलं स्वर्गमन्दाकिनीतटे ॥४॥स्वर्गमन्दाकिनीतीराद्गुरुणा शङ्करेण च ।सहितः प्रययौ तूर्णं पार्वतीसन्निधानतः ॥५॥उवास तत्र शम्भुश्च नारदश्च महामुनिः ।पार्वती भद्रकाली स्कन्दो गणपतिः स्वयं ॥६॥महाकालश्च नन्दी च वीरभद्रः प्रतापवान् ।सिद्धा महर्षयश्च मुनयः सन्कादयः ॥७॥योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भुसंसदि ।यत्स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥८॥नारायणर्षिभगवान्ब्राह्मणाय ददौ पुरा ।पूजाविधानं यद्यच्च पुरश्चरणपूर्वकं ॥९॥तदेव भगवान्शम्भुः प्रददौ नारदाय च ।उवाच शम्भुं देवर्षिर्योगिनां च गुरोर्गुरुं ।पार्वतीसन्निधौ तत्र नारदश्च महामुनिः ॥१०॥भगवन्सर्वधर्मज्ञ सर्वज्ञ सर्वकारण ।सद्यत्पृष्टं मया पूर्वं तन्मां व्याख्यातुं अर्हसि ॥११॥यद्यत्पृष्टं त्वया ब्रह्मन्प्रत्येकं च क्रमेण च ।पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्सभासदः ॥१२॥आध्यात्मिकं च यज्ज्ञानं वेदानां सारं उत्तमं ।ज्ञानं ज्ञानिषु सारं यत्कृष्णभक्तिप्रदं शुभं ॥१३॥निर्वाणमुक्तिदं ज्ञानं कर्ममूलनिकृन्तनं ।तत्सिद्धियोगान्मुक्तिश्च योगिनां अपि वाञ्च्छितं ॥१४॥संसारविषयं ज्ञानं शश्वत्सम्मोहवेष्टितं ।आश्रमाणां समाचारं तेषां धर्मपरिष्कृतं ॥१५॥चतुर्णां वर्णनां विधानां महेश्वर ।भिक्षूणां वैष्णवानां च यतीनां ब्रह्मचारिणां ॥१६॥वानप्रस्थाश्रमाणां च पण्डितानां तथैव च ।पतिव्रतानां यद्यच्च श्रीकृष्णपूजनं च यथ् ॥१७॥यत्स्तोत्रं कवचं मन्त्रं पुरश्चरणं ईप्सितं ।सार्वाह्निकं अभीष्टं च विपाकं कर्मजीविनां ॥१८॥संसारवासनाबद्धं लक्षणं प्रकृतीशयोः ।तयोः परं वा यद्ब्रह्म तस्यावतारवर्णनं ॥१९॥कस्तत्कलावतीर्णश्च कस्तदंशश्तथैव च ।परिपूर्णतमः कश्च कः पूर्णः कः कलांशकः ॥२०॥कस्य वाराधने शम्भो किं फलं किं यशस्तथा ।अङ्गाङ्गिनोर्भेदफलं विस्तीर्णं निरपेक्षकं ॥२१॥नारायणर्षिकवचं सुभद्रब्राह्मणाय च ।यद्दत्तं किं तद्देवेश तदाराध्यश्च कः सुरः ॥२२॥अतिसंगोपनीयं च कवचं परमाद्भुतं ।सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥२३॥सनत्कुमारो जानाति नोक्तं तेन पुरा च मां ।मया ज्ञानं अनापृष्टं यद्यज्जानासि मङ्गलं ॥२४॥वेदसारं अनुपमं कर्ममूलनिकृन्तनं ।तन्मे कथय भद्रेश मां एवानुग्रहं कुरु ॥२५॥अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभं ।पुराणेष्वितिहासे च वेदाङ्गेषु सुदुर्लभं ॥२६॥गुरोश्च ज्ञानोदिगरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।तत्तन्तं स च मन्त्रः स्यात्कृष्णभक्तिर्यतो भवेथ् ॥२७॥ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानतः प्रभो ।वेदकारणपूज्यश्त्वं ज्ञानाधिष्ठातृदेवता ॥२८॥तस्माद्भवान्परं ज्ञानं वद वेदविदां वर ।मां भक्तं अनुरक्तं च शरणागतं ईश्वर ॥२९॥नारदस्य वचः श्रुत्वा योगिनां च गुरोर्गुरुः ।भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥३०॥इत्येवं कथितं सर्वं पूर्वाख्यानं मनोहरं ।हरिभक्तिप्रदं सर्वं कर्ममूलनिकृन्तनं ॥३१॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चदशोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP