संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| पञ्चमोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - पञ्चमोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत पञ्चमोऽध्यायः Translation - भाषांतर श्रीसनत्कुमार उवाचतवेच्छा यत्र कवचे ध्याने तद्वद साम्प्रतं ।यच्छृणोमि शुभं तच्च केन श्रेयसि तृप्यते ॥१॥ब्रमोवाचध्यानं सामवेदोक्तं दत्तं नारायणेन वै ।कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥२॥नवीनजलदश्यामं पीतकौशेयवाससं ।चन्दनोक्षितसर्वाङ्गं सस्मितं श्यामसुन्दरं ॥३॥मालतीमाल्यभूषाढ्यं रत्नभूषणभूषितं ।मुनीन्द्रेशसुसिद्धेशब्रह्मेशशेषवन्दितं ॥४॥सर्वस्वरूपं सर्वेशं सर्वबीजं सनातनं ।सर्वाद्यं सर्वज्ञं पुरुषं प्रकृतेः परं ॥५॥निर्गुणं च निरीहं च निर्लिप्तं ईस्वरं भजे ।ध्यात्वा मूलेन तस्मै च दद्यात्पाद्यादिकं मुदा ॥६॥ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन्नरः ।जप्त्वा च मन्त्रं भक्त्या दण्डवत्प्रणमेद्भुवि ।इति ते कथितं वत्स किं भूयः श्रोतुं इच्छसि ॥७॥श्रीसनत्कुमार उवाचब्रूहि मे कवचं ब्रह्मन्जगन्मङ्गलमङ्गलं ।पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥८॥अथ जगन्मङ्गलमङ्गलकवचम्ब्रह्मोवाचशृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं ।श्रीकृष्णेनैव कथितं मह्यं च कृपया परा ॥९॥मया दत्तं च धर्माय तेन नारायणर्षये ।ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥१०॥अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहं ।यद्धृत्वा पठनात्सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥११॥एवं इन्द्रादयः सर्वे सर्वैश्वर्यं आप्नुयुः ।ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयं ॥१२॥धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥१३॥गोपीशश्चक्षुषी पातु तालु च भगवान्स्वयं ।गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥१४॥गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः ।वक्षस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥१५॥नभिं पातु पद्मनाभः कङ्कालं कंससूदनः ।पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकं ॥१६॥पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयं ।नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥१७॥सर्वेश्वरश्च सर्वाङ्गं सन्ततं मधुसूदनः ।प्राच्यां पातु च रामश्च वह्नौ च वंशीधरः स्वयं ॥१८॥पातु दामोदरो दक्षे नैरृते च नरोत्त्मः ।पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयं ॥१९॥अनन्तश्चोत्तरे पातु ऐशान्यां ईश्वरः स्वयं ।जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥२०॥पातु वृन्दावनेशश्च मां भक्तं शरणागतं ।इति ते कथितं वत्स कवचं परमाद्भुतं ॥२१॥सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सतां ।इदं कवचं इष्टं च पूजाकाले च यः पठेथ् ॥२२॥हरिदास्यं अवाप्नोति गोलोके वासं उत्तमं ।इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥२३॥नारद उवाचनारायणर्षिणा दत्तं कवचं यत्सुदुर्लभं ।सुभद्राय ब्राह्मणाय तन्मे वक्तुं इहार्हसि ॥२४॥ब्रह्मोवाचमदिष्टदेव्याः कवचं कथं तत्कथयामि ते ।मत्कण्ठे पश्य कवचं सद्रत्नगुटिकान्वितं ॥२५॥नारायणर्षिणा दत्तं कवचं गुटिकान्वितं ।तथापीदं न कथितं निषिद्धं हरिणा स्मृतं ॥२६॥तस्यर्षेश्चेष्टदेव्याश्च नोक्तं तेनेदं ईप्सितं ।मह्यं न दत्ता गुटिका बान्धवैर्भर्त्सितेन च ॥२७॥आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति ।प्राणा नष्टाश्च दानेन चेति वेदविदो विदुः ॥२८॥शङ्करं गच्छ भगवन्जन्मान्तरगुरुं तव ।स एव तुभ्यं कवचं दास्यस्येव न संशयः ॥२९॥त्वत्प्राक्तनेन विप्रेन्द्र सत्वरेण शुभेन च ।ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत्सुदुर्लभं ॥३०॥कुमार गच्छ वैकुण्ठं स्वगुरुं पश्य सत्वरं ।नारायणश्च कवचं तुभ्यं दास्यसि निश्चितं ॥३१॥सनत्कुमारो भगवान्गत्वा वैकुण्ठं ईप्सितं ।संप्राप्य कवचं वत्स कवचं तत्सुदुर्लभं ॥३२॥आज्ञया ब्रह्मणश्चापि नारदो गन्तुं उद्यतः ।ब्रह्मा ययौ ब्रह्मलोकं जन्ममृत्युजरापहं ॥३३॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चमोऽध्यायः References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP