संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| प्रथमोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - प्रथमोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत प्रथमोऽध्यायः Translation - भाषांतर ओं नमो भगवते वासुदेवायअथ मङ्गलाचरणम्नारायणं नमस्कृत्य नरं चैव नरोत्तमं ।देवीं सरस्वतीं चैव ततो जयं उदीरयेथ्॥गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः ।कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ॥१॥लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।भक्त्या नमन्ति यं शश्वत्तं नमामि परात्परं ॥२॥ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा ।ज्योतिरभ्यन्तरे रूपं अतुलं श्यामसुन्दरं ॥३॥ध्यायेत्तं परमं ब्रह्म परमात्मानं ईश्वरं ।निरीहं अतिनिर्लिप्तं निर्गुणं प्रकृतेः परं ॥४॥सर्वेशं सर्वरूपं च सर्वकारणकारणं ।सत्यं नित्यं च पुरुषं पुराणं परं अव्ययं ॥५॥मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयं ।स्वेच्छामयं परं धाम भगवन्तं सनातनं ॥६॥स्तुवन्ति वेदा यं शश्वन्नानन्तं जानन्ति यस्य ते ।तं स्त्ॐइ परमानन्दं सानन्दं नन्दनन्दनं ॥७॥भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहं ।श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरं ॥८॥ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद्गुरोः ।परावराच्च परमाद्योगीन्द्राणां गुरोर्गुरोः ॥९॥वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरं ।तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवं ॥१०॥नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजं ।विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ॥११॥ओं नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत ।सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ॥१२॥कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणं ।श्रीकृष्णचरणाम्भोजध्यानैकतानमानसं ॥१३॥जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयं ।सुखासने सुखासीनं कृष्णद्वैपायनं मुनिं ॥१४॥पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः ।कारणण्च पुराणानां पुराणं परं अव्ययं ॥१५॥श्रीशुक उवाचभगवन्सर्वतत्त्वज्ञ वेदवेदाङ्गपारग ।यद्यत्प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतं ॥१६॥तेषु यत्सारभूतं चाप्यज्ञानान्धप्रदीपकं ।तत्तत्सर्वं समालोच्य मां बोधयितुं अर्हसि ॥१७॥अथ श्रीकृष्णभक्तिप्रशंशास पिता ज्ञानदाता यो ज्ञानं तत्कृष्णभक्तिदं ।सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ॥१८॥तदेव दास्यं शस्तं यत्साक्षाच्चरणसेवनं ।नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ॥१९॥शश्वन्निमेषरहितं तत्पादपद्मदर्शनं ।शश्वत्तत्सार्धं आलापसेवाकर्मनियोजनं ॥२०॥तेन सार्धं अविच्छेदस्थानं परं शोभनं ।भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतं ॥२१॥पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।विज्ञाय ज्ञानिनं पुत्रं परमाह्लादं आप ह ॥२२॥पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः ।यथाप्राप्तं गुरुमुखात्प्रवक्तुं उपचक्रमे ॥२३॥श्रीव्यास उवाचशुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते ।पुत्रेण भवतास्माकं कुलं मुक्तं च पावनं ॥२४॥स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः ।पुनाति पुंसां शतकं जन्ममात्रेण लीलया ॥२५॥मातामहानां शतकं मातरं मातृमातरं ।सोदरान्बान्धवांश्चैव भृत्यान्पत्नीं सहात्मजां ॥२६॥यत्कन्यां प्रतिगृह्णाति तदादिपुरुषत्रयं ।कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ॥२७॥स्वयं विधाता भगवान्परं कृष्णपरायणः ।कृष्णभक्तो वसिष्टस्तु तत्सुतो वैष्णवः स्वयं ॥२८॥वैष्णवस्तत्सुतः शक्तिः कृष्णध्यानैकमानसः ।पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ॥२९॥जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः ।अहं वेदविभक्ता च श्रीकृष्णपादसेवया ॥३०॥गुरुर्मे भगवान्साक्षाद्योगीन्द्रो नारदो मुनिः ।गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ॥३१॥तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् ।पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयं ॥३२॥श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः ।सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनं ॥३३॥श्रूयतां पञ्चरात्रं च वेदसारं अभीप्सितं ।पञ्चसंवादं इष्टं च भक्तानां अभिवाञ्च्छितं ॥३४॥प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं ।अथ षट्संवादाः ?wहत्? हि गोलोके शतशृङ्गे च पर्वते ॥३५॥सुपुण्ये विरजातीरे वटमूले मनोहरे ।पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवं ॥३६॥तं उवाच महाभक्तं स्तुवन्तं प्रणतं सुतं ।पञ्चरात्रं इदं पुण्यं श्रुत्वा च जगतां विधिः ॥३७॥प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरं ।भक्त्या तं पूजयां आस शङ्करः परमादरं ॥३८॥सुखासने सुखासीनं स्वस्थं भक्तं च पूजितं ।पप्रच्छ वार्तां विनयी विनयेन सुखावहां ॥३९॥सर्वं तं कथयां आस पञ्चरात्रादिकं शुभं ।वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ॥४०॥योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुं ।ज्ञानामृतं तं उक्त्वा स ब्रह्मलोकं जगाम ह ॥४१॥शम्भुश्च कथयां आस स्वशिष्यं नारदं मुनिं ।नारदः कथयां आस पुष्करे सूर्यपर्वणि ॥४२॥मां भक्तं अनुरक्तं च पुण्याहे मुनिसंसदि ।पञ्चरात्रं इदं शुद्धं भ्रमान्धध्वंसदीपकं ॥४३॥अथ पञ्चरात्रपदव्याख्यारात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतं ।तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥४४॥ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहं ।ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥४५॥ज्ञानं द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितं ।परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ॥४६॥ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदं ।तद्दास्यं अधीष्टं च यतो दास्यं लभेद्धरेः ॥४७॥चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परं ।सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदं ॥४८॥अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।ईशित्वं च वशित्वं च तथाकामावसायिता ॥४९॥सावज्ञं दूरश्रवणं परकायप्रवेशनं ।कायव्यूहं जीवदानं परजीवहरं परं ॥५०॥सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणं ।सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेथ् ॥५१॥ज्ञानं च परमं प्रोक्तं तद्वै वैषयिकं नृणां ।यदिष्टदेवी माया सा परं संमोहकारणं ॥५२॥विषये बद्धचितं च सर्वं इन्द्रियसेवनं ।पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतं ॥५३॥प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तदेव च ।नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परं ॥५४॥चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्च्छति ।पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्च्छति ॥५५॥ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः ।पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परं ॥५६॥ब्राह्मं शैवं च क्ॐआरं वासिष्टं कापिलं परं ।गौतमीयं नारदीयं इदं सप्तविधं स्मृतं ॥५७॥अथ ग्रन्थप्रशंसाषट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः ।इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजं ॥५८॥दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्कराथ् ।ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥५९॥पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः ।सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥६०॥सारभूतं च सर्वेषां वेदानां परमाद्भुतं ।नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभं ॥६१॥सर्वान्तरात्मा भगवान्ब्रह्मज्योतिः सनातनं ।परिपूर्णतमः श्रीमान्यथा कृष्णः सुरेषु च ॥६२॥यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी ।वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥६३॥विश्वस्तानां इन्द्रियानां मनश्च शीघ्रगामिनां ।ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ॥६४॥सनत्कुमारो भगवान्मुनीनां प्रवरो यथा ।बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ॥६५॥योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा ।कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥६६॥सरितां च यथा गङ्गा समुद्राणां जलार्णवः ।वृन्दावनं वनानां च वर्षानां भारतं यथा ॥६७॥पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥६८॥वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु ।पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ॥६९॥मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि ।यथा तेजस्विनां सूर्यो मिष्टानां अमृतं यथा ॥७०॥आधाराणां च स्थूलानां महाविष्णुर्यथा सुत ।सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ॥७१॥पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी ।यथा घृतं च गव्यानां शस्यानां धान्यं ईप्सितं ॥७२॥शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकं ॥७३॥यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि ।पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ॥७४॥सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च ।हनुमान्वानराणां च पक्षिणां गरुडो यथा ॥७५॥वाहनानां बलवतां शङ्करस्य यथा वृषः ।शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनं ॥७६॥एकादशी व्रतानां च तपःस्वनशनं यथा ।यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ॥७७॥सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनं ।शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ॥७८॥पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा ।लोकानां अपि लोकेशः शेषो नागेषु पूजितः ॥७९॥सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनां ।धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥८०॥विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः ।एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितं ॥८१॥यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु ।पञ्चरात्रं अभिज्ञाय नान्येषु च स्पृहा सतां ॥८२॥सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपं ।वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितं ॥८३॥इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP