संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| त्रयोदशोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - त्रयोदशोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत त्रयोदशोऽध्यायः Translation - भाषांतर श्रीशुक उवाचस्तोत्रान्तरे च काले च किं रहस्यं बभूव ह ।तन्मे कथय भद्रं ते भगवन्भगवद्वचः ॥१॥श्रीव्यास उवाचस्तोत्रान्तरे च काले च गन्धर्वश्चोपवर्हणः ।उवाच ब्रह्मसंसदि भगवन्तं सनातनं ॥२॥सर्वैर्देवैरहं शप्तश्चाधुना देवहेतुना ।देवानां अग्निपुञ्जश्च प्रदीप्तश्च सुमेरुवथ् ॥३॥अधुना च त्वयि गते भस्मासान्मां करिष्यति ।अतो रक्ष जगन्नाथ मां समुद्धर्तुं अर्हसि ॥४॥त्वदंशशूकरेणैव धरोद्धारः कृतः पुरा ।हिरण्याख्यं महादैत्यं निहत्य चावलीलया ॥५॥पाद्मपद्मार्चितपदे पद्मे ते शरणागतं ।मां अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलाथ् ॥६॥गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगदीश्वरः ।उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्मसंसदि ॥७॥अथ गन्धर्वमोक्षणम्श्रीभगवानुवाचगन्धर्वराजप्रवर स्थिरो भव भयं त्यज ।शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥८॥सर्वेभ्योऽपि भयं नास्ति मद्भक्तानां अकर्मणां ।जन्ममृत्युजराव्याधिभयं तेषां न विद्यते ॥९॥मन्मन्त्रोपासकश्चैव स्वतन्त्रो नित्यविग्रहः ।पुनर्न विद्यते जन्म मन्त्रग्रहणमात्रतः ॥१०॥नास्ति कालाद्भयं तस्य न निषेकाद्विधेरपि ।मन्त्रग्रहणमात्रेण मुच्यते सर्वकर्मणः ॥११॥मन्मन्त्रो हि देहात्पापं कोटिजन्मकृतं च यथ् ।सुदीप्तो ज्वलदग्निश्च तृणपुञ्जं देहाद्यथा ॥१२॥मन्मन्त्रग्रहणाद्योगान्मन्नामग्रहणस्य वा ।तेषां पापानि वेपन्ते कोटिजन्मकृतानि च ॥१३॥यमस्तन्नामलिखनं दूरीभूतं करोति च ।अन्ते दास्यं च लभते गत्वा गोलोकं उत्तमं ॥१४॥यावदायुर्भ्रमेत्तावत्स्वतन्त्रो मत्तकुञ्जरः ।ततः पापाः फलायन्ते वैनतेयादिवोरगाः ॥१५॥तेषां च पादरजसा सद्यः पूता वसुन्धरा ।पुनाति सर्वतीर्थानि दूरतो दर्शनादपि ॥१६॥पूतश्च पवनो वह्निर्जलं च तुलसीदलं ।पूतान्येव हि तीर्थानि गङ्गादीनि च गायन ॥१७॥पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पतिव्रता ।मन्मन्त्रोपासकाश्चैव तेभ्यः पूतोत्तमाः सदा ॥१८॥मन्त्रोपासकानां च तीर्थस्थानं व्रतं सुत ।श्राद्धं दानं पूजनं च यथा चर्वितचर्वणं ॥१९॥भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः ।तत्तन्त्रं च तथा दानमलं श्राद्धं च निष्फलं ॥२०॥श्राद्धस्य सम्प्रदानं च कर्तुश्च पुरुषत्रयं ।पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्धवस्तु च ॥२१॥केचिदेवं वदन्तीति पितृलोकार्थं एव च ।तद्विरुद्धं च ते तुष्टा मन्त्रग्रहणमात्रतः ॥२२॥तेषां शुभाशिषं कर्म नैव भोगाय कल्पते ।देवान्न प्रभवेद्वत्स सिद्धधान्ये यथाङ्कुरः ॥२३॥साक्षात्करोति तेषां च कर्ममूलनिकृन्तनं ।मन्त्रोपासकादन्ये कर्मभोगं च भुञ्जते ॥२४॥मया स्वयं प्रदत्तश्च स्वमन्त्रः पुरुषाय च ।परद्वाराद्ग्राहयित्वा भक्तं मुक्तं करोम्यहं ॥२५॥मया प्रदत्तमन्त्रश्च पुरा मृत्युञ्जयस्तथा ।मृत्युञ्जयाय गोलोके शुद्धसत्त्वगुणाय च ॥२६॥पुनः सनत्कुमाराय धर्माय ब्रह्मणे तथा ।कपिलाय च शेषाय गणेशाय च महामते ॥२७॥नारायणर्षये चैव धर्मपुत्राय धीमते ।पुनर्महाविष्णवे च विश्वानि यस्य लोमसु ॥२८॥कालाधिष्ठातृदेवाय तस्मै सर्वान्तकाय च ।उपेन्द्राय च कामाय भृगवेऽङ्गिरसे तथा ॥२९॥सरस्वत्यै च पद्मायै राधायै विरजातटे ।शवित्र्यै विष्णुमायायै पार्षदेभ्यश्च पुत्रक ॥३०॥तुभ्यं न दत्तो मन्त्रोऽत्र श्रूयतां तन्निमित्तकं ।जनिष्यसि शूद्रयोनौ ब्रह्मणो वाक्यपालनाथ् ॥३१॥इत्येवं कथितं सर्वं गच्छ वत्स यथा सुखं ।द्वादशाब्दान्तरे शूद्रयोनौ देवाज्जनिष्यसि ॥३२॥पञ्चवर्षाभ्यन्तरे च मन्मन्त्रं प्राप्य विप्रतः ।दशाब्दान्ते वपुस्त्यक्त्वा ब्रह्मपुत्रो भविष्यसि ॥३३॥मन्मन्त्रं पुनरेवेति शम्भुवक्त्राल्लभिष्यसि ।इत्येवं उक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥३४॥गन्धर्वः प्रययौ तस्माद्योषिद्भिः सह पुत्रक ।इत्येवं कथितं सर्वं पूर्ववृत्तान्तं एव च ॥३५॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गन्धर्वमोक्षणं नाम त्रयोदशोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP