संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| द्वादशोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - द्वादशोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत द्वादशोऽध्यायः Translation - भाषांतर शुक उवाचमहोत्सवे सुनिष्पन्ने दानस्योत्तरकालतः ।किं बभूव रहस्यं च तन्मां व्याख्यातुं अर्हसि ॥१॥श्रीव्यास उवाचसंप्राप्य दानं देवानां गन्धर्वश्चोपवर्हणः ।तेषां च पुरतो भक्त्या विदयां आस वै सदा ॥२॥श्रुत्वा तद्वचनं ब्रह्मा तं उवाच च संसदि ।शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगतां अपि ॥३॥मथुरागमनं चैव कृष्णस्य परमात्मनः ।विलापं गोपगोपीनां श्रावयास्मांश्च साम्प्रतं ॥४ ।॥महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः ।गायन्तु ताश्च संगीतं नृत्यन्त्वप्सरां गणाः ॥५॥ब्रह्मणश्च वचः श्रुत्वा ननृत्युश्चाप्सरोगणाः ।चक्रुस्ताः सरसं गीतं विद्याधर्यश्च संसदि ॥६॥मायिनां चैव प्रवरो गन्धर्वश्चोपवर्हणः ।जगौ सन्धानभावेन मथुरागमनं हरेः ॥७॥विलापं गोकुलस्थानां श्रुत्वा विप्राः सुरादयः ।मूर्च्छां प्रापुश्च रुरुदुर्ददुर्दानं पुनः पुनः ॥८॥गोपीनां विरहालापैर्मूर्च्छितश्चोपवर्हणः ।विस्वरेण वितनात्तु तालभङ्गो बभूव ह ॥९॥तत्तालभङ्गं विज्ञाय देवाश्च मुनयस्तथा ।चुकुपुः सहसा सर्वे निर्गतास्तन्मुखाग्नयः ॥१०॥तद्दृष्ट्वा सहसा भीतो गन्धर्वश्चोपवर्हणः ।सस्मार कृष्णं स्वभीष्टं परमात्मानं ईश्वरं ॥११॥ददृशुः स्मृतिमात्रेण तत्तेजो नभसि स्थितं ।स्तम्भिता देवताः सर्वाशिचक्रपुत्तलिका यथा ॥१२॥स्तम्भिता वह्नयः सर्वे मुनयश्च विजृम्भिताः ।हरिस्मृतिश्चाभयदा शुभदा विघ्ननाशिनी ॥१३॥ददृशुर्देवताः सर्वाः मुनयश्चापि योषितः ।गन्धर्वाश्च तथैवान्ये तेजो दृश्यं सुखप्रदं ॥१४॥परं कुञ्ज्ञटिकाकारं कोटीन्दुकिरणप्रभं ।योजनायतविस्तीर्णं सुस्निग्धं सुमनोहरं ॥१५॥तत्तेजोऽभ्यन्तरे सर्वे ददृशू रथं उत्तमं ।गव्यूतिमानं विस्तीर्णं धनुष्कोटिसमुच्छ्रितं ॥१६॥श्वेताश्वानां च चक्राणां सहस्रेण समावृतं ।अमूल्यरत्नरचितं ईश्वरेच्छाविनिर्मितं ॥१७॥नानाचित्रविचित्राढ्यं मनोयायि ममोहरं ।मुक्तामाणिक्यपरमहीराहारैर्विराजितं ॥१८॥रत्नदर्पणलक्षैश्च त्रिलक्षैः श्वेतचामरैः ।वह्निशुद्धांशुकानां च त्रिलक्षैः परिशोभितं ॥१९॥त्रिकोटिभिश्च ज्वलितं क्रीडासुन्दरमन्दिरैः ।पारिजातप्रसूनानां मन्दराणां मनोहरैः ॥२०॥मालाजालैस्त्रिलक्षैश्च मालतीनां च मण्डितं ।एवंभूतं रथं दृष्ट्वा ददृशुस्ते तदनन्तरे ॥२१॥मध्यकोष्ठाभ्यन्तरे च किशोरं श्यामसुन्दरं ।वह्निशुद्धांशुकेनैव पीतवर्णेन शोभितं ॥२२॥रत्नकेयूरवलयरत्नमञ्जीररञ्जितं ।रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वलं ॥ ।२३॥ईषद्धास्यप्रसन्नास्यं नित्योपास्यं सुरासुरैः ।चन्दनोक्षितसर्वाङ्गं मालतीमाल्यमण्डितं ॥२४॥मणिना कौस्तुभेन्द्रेण गण्डस्थलविभूषितं ।परं प्रधानं परमं परमात्मानं ईश्वरं ॥२५॥स्तुतं ब्रह्मेशशेषैश्च राधावक्षः स्थलस्थितं ।वेदानिर्वचनीयं च स्वेच्छामयं अनीश्वरं ॥२६॥नित्यं नित्यं निर्गुणं च ज्योतिरूपं सनातनं ।प्रकृतेः परं ईशानं भक्तानुग्रहकातरं ॥२७॥कोटिकन्दर्पलावण्यलीलाधाममनोहरं ।मयूरपुच्छचूडं च वरं वंशीधरं परं ॥२८॥दृष्ट्वा तं अद्भुतं रूपं तुष्टाव कमलोद्भवः ।गणेशः शेषः शम्भुश्च तदन्ये मुनयः सुराः ॥२९॥ब्रह्मोवाचपरं ब्रह्म परं धाम परमात्मानं ईश्वरं ।वन्दे वन्द्यं च सर्वेषां सर्वकारणकारणं ॥३०॥सर्वेश्वरं सर्वरूपं सर्वाद्यं सद्भिरीडितं ।वेदावेद्यं च विद्वद्भिर्न दृष्टं स्वप्नगोचरे ॥३१॥श्रीमहादेव उवाचसिद्धस्वरूपं सिद्धाद्यं सिद्धबीजं सनातनं ।प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर्गुरुं ॥३२॥वन्दे वन्द्यं च महतां परात्परतरं विभुं ।स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरं ॥३३॥भक्तिप्रियं च भक्तेशं स्वभक्तिदास्यदं परं ।स्वपदप्रदं एकं च दातारं सर्वसम्पदां ॥३४॥अनन्त उवाचवक्त्राणां च सहस्रेण किं वा स्त्ॐइ श्रुतिश्रुतं ।कोटिभिः कोटिभिर्वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥३५॥किं उ स्तोष्यति शम्भुश्च पञ्चवक्त्रेण वाञ्च्छितं ।कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्मुखः ॥३६॥षड्वक्त्रो गजवक्त्रश्च देवाश्च मुनयोऽपि वा ।वेदा वा किं वेदविदः स्तुवन्ति प्रकृतेः परं ॥३७॥वेदानिर्वचनीयं च वेदा निर्वक्तुं अक्षमाः ।वेदविज्ञातवाक्येन विद्वांसः किं स्तुवन्ति तं ॥३८॥श्रीगणेश उवाचमूर्खो वदति विष्णाय बुधो वदति विष्णवे ।नम इत्येवं अर्थं च द्वयोरेव समं फलं ॥३९॥यस्मै दत्तं च यज्ज्ञानं ज्ञानदाता हरिः स्वयं ।ज्ञानेन तेन स स्तौति भावग्राही जनार्दनः ॥४०॥एकवक्त्रोऽनेकवक्त्रो मूर्खो विद्वान्स्वकर्मणा ।अधनी च धनी वापि सपुत्रो वाप्यपुत्रकः ॥४१॥कर्मणा परं ईशं च स्तोतुं को वाप्यनुत्तमं ।यथाशक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥४२॥संकीर्तनं च भजनं जपनं बुद्ध्यनुक्रमं ।कुर्वन्ति सन्तोऽसन्तश्च सन्ततं परमात्मनः ॥४३॥कार्तिकेय उवाचसर्वान्तरात्मा भगवान्ज्ञानं च सर्वजीविनां ।ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तं ॥४४॥भवेषु त्रिविधो लोकोऽप्युत्तमो मध्यमोऽधमः ।सर्वे स्वकर्मवशगा निषेकः केन वार्यते ॥४५॥सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्प्रभुं ।मदीश्वरस्य समता सर्वेषु किंकरेषु च ॥४६॥भजन्ति केचित्शुद्धान्तं परमात्मानं ईश्वरं ।केचित्तदंशांशं प्राप्नुवन्ति क्रमेण तं ॥४७॥धर्म उवाचअहं साक्षी च सर्वेषां विधिना निर्मितः पुरा ।विधातुश्च विधाता त्वं सर्वेश्वरं नमोऽस्तु ते ॥४८॥देवा ऊचुःयं स्तोतुं असमर्थश्च सहस्रायुः स्वयं विधिः ।ज्ञानाधिदेवः शम्भुश्च तं स्तोतुं किं वयं क्षमाः ॥४९॥वेदा ऊचुःकिं जानीमो वयं के वाप्यनन्तेशस्य यो गुणः ।वयं वेदाश्त्वं अस्माकं कारणस्यापि कारकः ॥५०॥मुनयः ऊचुःयदि वेदा न जानन्ति माहात्म्यं परमात्मनः ।न जानीमस्तव गुणं वेदानुसारिणो वयं ॥५१॥सरस्वत्युवाचविद्याधिदेवताहं च वेदा विद्याधिदेवकाः ।वेदाधिदेवो धाता च तदीशं स्त्ॐइ किं प्रभो ॥५२॥पद्मोवाचयत्पादपद्मं पद्मेशः शेषाश्चान्ये सुरास्तथा ।ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परं ॥५३॥सावित्र्युवाचसावित्री वेदमाताहं वेदानां जनको विधिः ।त्वां एव धत्ते धातरं नमामि त्रिगुणात्परं ॥५४॥श्रीपार्वत्युवाचतव वक्षसि राधाहं रासे वृन्दावने वने ।महालक्ष्मीश्च वैकुण्ठे पादपद्मार्चने रता ॥५५॥श्वेतद्वीपे सिन्धुकन्या विष्णोरुरसि भूतले ।ब्रह्मलोके च ब्रह्माणी वेदमाता च भारती ॥५६॥तवाज्ञया च देवानां अविर्भूता च तेजसि ।निहत्य दैत्यान्देवारीन्दत्वा राज्यं सुराय च ॥५७॥तत्पश्चाद्दक्षकन्याहं अधुना पार्वती हरे ।तवाज्ञया हरक्रोडे त्वद्भक्ता प्रतिजन्मनि ॥५८॥नारायणप्रिया शश्वत्तेन नारायणी श्रुतौ ।विष्णोरहं पराशक्तिर्विष्णुमाया च वैष्णवी ॥५९॥अनन्तकोटि ब्रह्माण्डं मया सम्मोहितं सदा ।विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥६०॥महाविष्णोश्च माताहं विश्वानि यस्य लोमसु ।रामेश्वरी च सर्वाद्या सर्वशक्तिस्वरूपिणी ॥६१॥तद्रासे धारणाद्राधा विद्वद्भिः परिकीर्तिता ।परमानन्दपादाब्जं वन्दे सानन्दपूर्वकं ॥६२॥यत्पादपद्मं ध्यायन्ते परमानन्दकारणं ।पादपद्मेशशेषाद्या मुनयो मनवः सुराः ॥६३॥योगिनः सन्ततं सन्तः सिद्धाश्च वैष्णवास्तथा ।अनुग्रहं कुरु विभो बुद्धिशक्तिरहं तव ॥६४॥इति संवृतं स्तोत्रं यः पठेत्संयतः शुचिः ।इहैव च सुखं भुङ्क्ते यात्यन्ते श्रीहरेः पदं ॥६५॥निवृत्तेषु च वेदेषु देवीषु मुनिपुङ्गवे ।उपवर्हणगन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥६६॥अथ गन्धर्वकृतस्तोत्रम्गन्धर्व उवाचवन्दे नवघनश्यामं पीतकौशेयवाससं ।सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परं ॥६७॥राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं ।राधासेवितपादाब्जं राधावक्षःस्थलस्थितं ॥६८॥राधानुरागं राधिकेष्टं राधापहृतमानसं ।राधाधरं भवाधारं सर्वाधारं नमामि तं ॥६९॥राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं ।राधासहचरं शश्वत्राधाज्ञापरिपालकं ॥७०॥ध्यायन्ते योगिनो योगात्सिद्धाः सिद्धेश्वराश्च यं ।तं ध्याये सततं शुद्धं भगवन्तं सनातनं ॥७१॥सेवन्ते सन्ततं सन्तो ब्रह्मेशशेषसंज्ञकाः ।सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनं ॥७२॥निर्लिप्तं च निरीहं च परमात्मानं ईश्वरं ।नित्यं सत्यं च परं भगवन्तं सनातनं ॥७३॥यं सृष्टेरादिभूतं च सर्वबीजं परात्परं ।योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं ॥७४॥बीजं नानावताराणां सर्वकारणकारणं ।वेदावेद्यं वेदबीजं वेदकारणकारणं ॥७५॥योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं ।इत्येवं उक्त्वा गन्धर्वः पपात धरणीतले ॥७६॥ननाम दण्डवद्भूमौ देवदेवं परात्परं ।इति तेन कृतं स्तोत्रं यः पठेत्प्रयतः शुचिः ॥७७॥इहैव जीवन्मुक्तश्च परे याति परां गतिं ।हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ।पार्षदप्रवरत्वं च लभते नात्र संशयः ॥७८॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गन्धर्वकृतस्तोत्रं नाम द्वादशोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP