संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| सप्तमोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - सप्तमोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत सप्तमोऽध्यायः Translation - भाषांतर संभाष्य लोमशं तस्माज्जगाम नारदो मुनिः ।पुष्पभद्रानदीतीरं अतीव सुमनोहरं ॥१॥यत्रास्ते शृङ्गकूटश्च शुद्धस्फटिकसन्निभिः ।नानावृक्षसमायुक्तैस्त्रिभिरन्यैः सरोवरैः ॥२॥हंसकारण्डवाकीर्णैर्भ्रमरैर्ध्वनिसुन्दरैः ।पुंस्कोकिलनिनादैश्च सन्ततं सुमनोहरैः ॥३॥शैत्यसौगन्ध्यमान्ध्यैश्च वायुभिः सुरभीकृतैः ।समाधियुक्तो यत्रास्ते मार्कण्डेयो महामुनिः ॥४॥स मुनिर्नारदं दृष्ट्वा भक्त्या च प्रणनाम च ।पप्रच्छ कुशलं शान्तं शान्तः सत्त्वगुणाश्रयः ॥५॥मार्कण्डेयो उवाचअद्य मे सफलं जन्म जीवनं चातिसार्थकं ।ममाश्रमे पुण्यराशिर्ब्रह्मपुत्रश्च नारदः ॥६॥अहो देवर्षिप्रवरो दीप्तमान्ब्रह्मतेजसा ।क्व यासि कुत आयासि किं ते मनसि वर्तते ॥७॥मानसं प्राणिनां एव सर्वकर्मैककारणं ।मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥८॥मुनेश्च वचनं श्रुत्वा वीणापाणि स्वं ईप्सितं ।उवाच सस्मितं शान्तं वचः सत्यं सुधोपमं ॥९॥नारद उवाचहे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरं ।द्रष्टुं महादेवं च प्रणामं कर्तुं ईश्वरं ॥१०॥पूजां गृहीत्वा चेत्युक्त्वा प्रययौ नारदो मुनिः ।मार्कण्डेयश्च शोकार्तः सद्विच्छेदः सुदारुणः ॥११॥हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया ।स्वर्गमन्दाकिनीतीरं कैलासं प्रययौ मुनिः ॥१२॥ददर्श वटवृक्षं च योजनायतं उच्छ्रितं ।शोभितं शतकैः स्कन्धैः रक्तपक्वफलान्वितैः ॥१३॥सुस्निग्धैः सुन्दरैः रम्यै रम्यपक्षीन्द्रसंकुलैः ।सिद्धेन्द्रैश्च मुनीन्द्रैश्योगीन्द्रैः परिशोभितं ॥१४॥प्रणतांस्तांश्च संभाष्य पार्वतीकाननं ययौ ।सुन्दरं वर्तुलाकारं चतुर्योजनं ईप्सितं ॥१५॥शोभितं सुन्दरै रम्यैः सप्तभिश्च सरोवरैः ।शश्वन्मधुकरासक्तपद्मराजिविराजितैः ॥१६॥नीलरक्तोत्पलदलपटलैः परिशोभितैः ।पुष्पोद्यानैश्च शतकैः पुष्पितैः सुमनोहरैः ॥१७॥मल्लिकामालतीकुन्दयूथिकामाधवीलता ।केतकीचम्पकाशोकमन्दारकविराजिका ॥१८॥नागपुन्नागकुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका ।विष्णुक्रान्ता च तुलसी शोफली सप्तला तथा ॥१९॥एतेषां च समूहैश्च पुष्पवल्लीविराजितैः ।आम्रैराम्रातकैस्तालनारिकेलैः पियालकैः ॥२०॥खर्जूरैश्च गुवाकैश्च पलासैर्जम्बुभिस्तथा ।दाडिम्बैश्चापि जम्बीरैर्निम्बैश्चैव वटैस्तथा ॥२१॥करञ्जैर्वदरीभिश्च परितः श्रीफलोज्ज्वलैः ।कदम्बानां कदम्बैश्च तिन्तिण्डीनां कदम्बकैः ॥२२॥अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः ।वटशाखोटकैः कुन्दैः शंगुभिः सप्तपर्णकैः ॥२३॥पिच्छिलैः पर्णशालैश्च गम्भारिभिश्च वल्गुकैः ।हिङ्गुलैरञ्जनैर्वल्कैर्भूर्जपत्रैः सपत्रकैः ॥२४॥अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विराजितं ।कल्पवृक्षैः पारिजातैश्चारुचन्दनपल्लवैः ॥२५॥सुस्निग्धस्थलपद्मैश्च चित्रितैर्भूमिचम्पकैः ।अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विभूषितं ॥२६॥सिंहेन्द्रैः शरभेन्द्रैश्च गजेन्द्रैर्गण्डकेन्द्रैः ।शार्दूलेन्द्रैश्च महिषैरश्वैश्च वन्यशूकरैः ॥२७॥शल्लकैर्बल्लकैर्मर्कैः कूटैश्च शशकैः शकैः ।कृष्णसारैश्च हरिणैश्चमरीचामरोज्ज्वलं ॥ ।२८॥पुंस्कोकोलकुलानां च गानैश्च विराजितं ।मत्तानां पल्लवस्थानां माधवेषु मनोहरं ॥२९॥शुकानां राजहंसानां मयूराणां च पुत्रकैः ।क्षेमकरीखञ्जनानां राजिभिश्च मनोहरं ॥३०॥हरित्पीतरक्तकृष्णसुपक्वफलपत्रकैः ।सुस्निग्धाक्षतपत्रैश्च नूतनैरभिभूषितं ॥३१॥हिंसाभयादिरहितं सर्वेषां पशुपक्षिणां ।परस्परं च सुप्रीतं हिंस्राणां क्षुद्रजन्तुभिः ॥३२॥तत्र क्रीडास्थलं रम्यं पार्वतीपरमेशयोः ।मुनीन्द्रैरिन्द्रनीलैश्च पद्मरागैः परिष्कृतं ॥३३॥क्रोशायतं परिमितं वर्तुलं चन्द्रविम्बवथ् ।अम्लानरम्भास्तम्भानां लक्षलक्षैश्च वेष्टितं ॥३४॥चित्रितं सूक्ष्मसूत्राक्तैर्नूतनैरभिभूषितं ।नूतनाक्षतपत्रैश्च ललितैः परिशोभितं ॥३५॥रक्तपीतासितैः स्निग्धैरम्लानैः सुमनोहरैः ।परितः परितः शश्वन्मालाजालैर्विभूषितं ॥३६॥शय्याभूतं सुतल्पैश्च स्निग्धचम्पकचन्दनैः ।पुष्पचन्दनयुक्तेन वायुना सुरभीकृतं ॥३७॥कस्तूरीकुङ्कमासक्तसुगन्धिचन्दनैः सितैः ।मार्जितं चित्रितं चित्रैः परितो रङ्गवस्तुभिः ॥३८॥दृष्ट्वा तदद्भुतं शीघ्रं प्रययौ स्वर्णदीं मुनिः ।शुद्धस्फटिकसंकासां सर्वपापविनाशिनीं ॥३९॥भवाब्धिघोरतरणे तरणीं नित्यनूतनां ।कृष्णपादप्रसूतां च जगत्पूज्यां पतिव्रतां ॥४०॥स्नाट्वा कृष्णं च संपूज्य परमात्मानं ईश्वरं ।प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परं ॥४१॥साक्षिणं कर्मणां एव ब्रह्म ज्योतिः सनातनं ।प्रययौ पुरतो रम्यं राजमार्गं ददर्श सः ॥४२॥मणिभिः स्फटिकाकारैरमलैर्बहुमूल्यकैः ।परिष्कृतं च सर्वत्र निर्मितं विश्वकर्मणा ॥४३॥सतां पुण्यवतां दृष्टं अदृष्टं कृतपापिनां ।धनुः शतं परिमितं चित्रराजिविराजितं ॥४४॥दध्यं सर्वाश्रमान्तं च प्रख्यात्कोटिगुणोत्तरं ।रथं ददर्श पुरतो मनोयायि मनोहरं ॥४५॥अमूल्यरत्ननिर्माणविमाणसारसुन्दरं ।धनुर्लक्षं परिमितं परितो वर्तुलाकृतं ॥४६॥ऊर्ध्वस्थितं ऊर्ध्वगं च सहस्रचक्रसंयुतं ।धनुर्लक्षोऽपि सूतं च वह्निशुद्धांशुकान्वितं ॥४७॥हीरासारविनिर्माणं सुचारुकलशोज्ज्वलं ।रत्नप्रदीपदीप्ताढ्यं रत्नदर्पणभूषितं ॥४८॥मुक्ताशुक्तिनिबद्धैश्च शोभितं श्वेतचामरैः ।माणिक्यसारहारेण मणिराजैर्विराजितं ॥४९॥पारिजाटप्रसूतानां मायाजालैः परिष्कृतं ।ग्रीष्ममध्याह्नमार्तण्डं सहस्रसदृशोज्ज्वलं ॥५०॥ईश्वरेच्छाविनिर्माणं कामपुरं च कामिनां ।सर्वभोगसमाविष्टं कल्पवृक्षपरं वरं ॥५१॥ससक्तचित्रितै रम्यै रतिमन्दिरसुन्दरैः ।गोलोकादागतं पूर्वं क्रीडार्थं शङ्करस्य च ॥५२॥विवाहे परिनिष्पन्ने पार्वतीपरमेशयोः ।रथं दृष्ट्वा च प्रययौ कियद्दूरं महामुनिः ॥५३॥अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमं ।रत्नेन्द्रसारनिर्माणं शिविरैः शतकोटिभिः ॥५४॥मितैस्तस्मात्शतगुणैस्तत्र सुन्दरमन्दिरैः ।युक्तं रत्नकपाटैश्च रत्नधातुविचित्रितैः ॥५५॥परमस्तम्भसोपानैर्वज्रमिश्रैर्विभूषितं ।ददर्श शिविरं शम्भोः परिखाभिस्त्रिभिर्युतं ॥५६॥दुर्लघ्याभिरामित्राणां सुगम्याभिः सतां अहो ।प्रकारैश्च त्रिभिर्युक्तं धनुर्लक्षोच्छ्रितं सुत ॥५७॥सम्मितं सप्तभिर्द्वारैर्नानारक्षकरक्षितैः ।धनुःशतसहस्रं च चतुरस्रं च सम्मितं ॥५८॥अमूल्यरत्ननिर्माणं चतुःशालाशतैर्युतं ।अतीव रम्यं पुरतो पुरद्वारं ददर्श सः ॥५९॥पुरतो रत्नभित्तौ च कृत्रिमं च सुशोभितं ।पुण्यं वृन्दावनं रम्यं तन्मध्ये रासमण्डलं ॥६०॥सर्वत्र राधाकृष्णं च प्रत्येकं रतिमन्दिरे ।रम्यं कुञ्जकुटीराणां सहस्रं सुमनोहरं ॥६१॥सुगन्धि पुष्पशय्यानां सहस्रं चन्दनोक्षितं ।द्वारपालं च तत्रैव मणिभद्रं भयंकरं ॥६२॥त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परं ।तं संभाष्य विलोक्यैवं द्वितीयद्वारं ईप्सितं ॥६३॥जगाम च मुनिश्रेष्ठो ददर्श चित्रं उत्तमं ।कदम्बानां समूहं च तन्मूलं च मनोहरं ॥६४॥रत्नभित्तिसमायुक्तं कालिन्दीकूलं उत्तमं ।स्नातं गोपीसमूहं च नग्नसर्वाङ्गं अद्भुतं ॥६५॥कदम्बाग्रे च श्रीकृष्णं वस्त्रपुञ्जकरं परं ।तत्रैव शूलहस्तं च महाकालं ददर्श च ॥६६॥कृपालुं द्वारपालं तं संभाष्य नारदो मुनिः ।प्रययौ शीघ्रगामी स तृतीयद्वारं उत्तमं ॥६७॥ददर्श तत्र पुरतः कृत्रिमं वटमूलकं ।गोपानां च समूहं च पीतम्बरधरं परं ॥६८॥बालक्रीडां च कुर्वन्तं तन्मध्ये कृष्णं उत्तमं ।ब्राह्मणीभिः प्रदत्तं च भुक्तवन्तं सुपायसं ॥६९॥कुर्वन्तं च समाधानं मुनेः वामकरेण च ।गृहीत्वा तदनुज्ञां च चतुर्थं द्वारं ईप्सितं ॥७०॥प्रययौ ब्रह्मपुत्रश्च ददर्श चित्रं उत्तमं ।गोवर्धनं पर्वतं च तत्र कृष्णकरस्थितं ॥७१॥गोकुलं गोकुलस्थानां गोपीनां चैव रक्षणं ।व्याकुलं गोकुलं भीतं शक्रवृष्टिभयेन च ॥७२॥अभयं दत्तवन्तं च कृष्णं दक्षकरेण च ।नन्दिनं द्वारपालं च शूलहस्तं च सस्मितं ॥७३॥विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअं उत्तमं ।नानाकृतिमचित्राढ्यं वीरभद्रान्वितं परं ॥७४॥तत्रैव नीपमूलं च यमुनाकुलं एव च ।कालीयदमनं तत्र कृतिमं च ददर्श ःअ ॥७५॥तद्दृष्ट्वा सस्मितस्तुष्टः षष्टद्वाऋअं जगाम सः ।द्वारे नियुक्तं बालं च शूलहस्तं चतुर्भुजं ॥७६॥रत्नसिंहासनस्थं च सस्मितं स्वगणाधिपं ।ददर्श चित्रं तत्रैव मथुरागमनं हरेः ॥७७॥गोपिकानां विलापं च यशोदानन्दयोस्तथा ।व्याकुलं गोकुलं चापि रथस्थं शरणं हरिं ॥७८ ।॥अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलं ।तद्दृष्ट्वा सप्तमद्वारं द्वारपालं ददर्श सः ॥७९॥चित्रं कौतुकयुक्तं च मथुरायाः प्रवेशनं ।सबलं गोपसहितं श्रीकृष्णं प्रकृतेः परं ॥८०॥मथुरानागरीभिश्च बालकैर्वानिरर्गलैः ।वीक्षन्तं सादरं सर्वैर्नगरस्थैर्मनोहरं ॥८१॥धनुर्भङ्गं तथा शंभोः कंसादिनिधनादिकं ।सभार्यं वसुदेवं च निगडान्मुक्तं ईप्सितं ॥८२॥द्वारे नियुक्तं देवेशं गणेशं गणसंयुतं ।ध्यानस्थं च विभान्तं च शुद्धस्फटिकमालया ॥८३॥जपन्तं परमं शुद्धं ब्रह्मज्योतिः सनातनं ।निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परं ॥८४॥दृष्ट्वा तं च सुरश्रेष्ठं मुनिश्रेष्ठोऽपि नारदः ।सामवेदोक्तस्तोत्रेण पुष्टाव परमेश्वरं ।साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ॥८५॥अथ गणपतिस्तोत्रम्भो गणेश सुरश्रेष्ठ लम्बोदर परात्पर ।हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन ॥८६॥मुक्तिद शुभद श्रीद श्रीधरस्मरणे रत ।परमानन्द परम पार्वतीनन्दन स्वयं ॥८७॥सर्वत्र पूज्य सर्वेश जगत्पूज्य महामते ।जगद्गुरो जगन्नाथ जगदीश नमोऽस्तु ते॥७.८८॥यत्पूजा सर्वपरतो यः स्तुतः सर्वयोगिभिः ।यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहं ॥८९॥परमाराधनेनैव कृष्णस्य परमात्मनः ।पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥९०॥तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकं ।ज्ञानिश्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरं ॥९१॥इत्येवं उक्त्वा देवर्षिस्तत्रैवान्तर्दधे विभुः ।नारदः प्रययौ शीघ्रं ईश्वराभ्यन्तरं मुदा ॥९२॥इदं लम्बोदरस्तोत्रं नारदेन कृतं पुरा ।पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे ॥९३॥संकल्पितं पठेद्यो हि वर्षं एकं सुसंयतः ।विशिष्टपुत्रं लभते परं कृष्णपरायणं ॥९४॥यशस्विनं च विद्वांसं धनिनं चिरजीविनं ।विघ्ननाशो भवेत्तस्य महैश्वर्यं यशोऽमलं ।इहैव च सुखं भक्त्यान्ते याति हरेः पदं ॥९५॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे गणपतिस्तोत्रं नाम सप्तमोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP