संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| दशमोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - दशमोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत दशमोऽध्यायः Translation - भाषांतर श्रीशुक उवाचनारदो हि महाज्ञानी देवर्षिर्ब्रह्मणः सुतः ।सर्ववेदविदां श्रेष्ठो गरिष्ठश्च वरिष्ठकः ॥१॥कथं स नोपदिष्टश्च ज्ञानहीनो महामुनिः ।तन्मां बोधय विभो सन्देहभञ्जनं कुरु ॥२॥श्रीव्यास उवाचनारदो ब्रह्मणः पुत्रः पुराकल्पे बभूव सः ।सर्वज्ञानं ददौ तस्मै विधाता जगतां अपि ॥३॥वेदांश्च पाठयां आस वेदाङ्गान्यपि सुव्रत ।सिद्धविद्यां शिल्पविद्यां योगशास्त्रं पुराणकं ॥४॥भगवानेकदा पुत्रं कथयां आस संसदि ।सृष्टिं कुरु महाभाग कृत्वा दारपरिग्रहं ॥५॥ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।उवाच पितरं कोपात्परं कृष्णपरायनः ॥६॥श्रीनारद उवाचसर्वेषां अपि वन्द्यानां पिता चैव महागुरुः ।ज्ञानदातुः परो वन्द्यो न भूतो न भविष्यति ॥७॥स्तनदात्री गर्भधात्री स्नेहकर्त्री सदाम्बिका ।जन्मदातान्नदाता स्यात्स्नेहकर्ता पिता सदा ॥८॥न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुं ।करोति सद्गुरुः शिष्यकर्ममूलनिकृन्तनं ॥९॥गुरुश्च ज्ञानोद्गिरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।तत्तन्त्रं स च मन्त्रश्च कृष्णभक्तिर्यतो भवेथ् ॥१०॥श्रीकृष्णविमुखो भूत्वा विषये यस्य मानसं ।विषं अत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥११॥स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः ।यो ददाति हरौ भक्तिं कर्ममूलनिकृन्तनी ॥१२॥श्रीकृष्णभजनं तात सर्वमङ्गलमङ्गलं ।कर्मोपभोगरोगऽणां औषधं तन्निकृन्तनं ॥१३॥अहो जगद्विधातुश्च धर्मशास्तुरियं मतिः ।स्वयं मायामोहितश्च परं भ्रष्टं करोति च ॥१४॥विष्णुस्त्वां मोहितां कृत्वा युयोज स्रष्टुं ईश्वरः ।न ददौ स्वात्मभक्तिं तां स्वदास्यं चातिदुर्लभं ॥१५॥माता ददाति पुत्राय मोदकं क्षुन्निवारकं ।स च बालो न जानाति कथंभूतं च मोदकं ॥१६॥बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः ।पिता प्रयाति कार्यार्थं विष्णुना मोहितस्तथा ॥१७॥संसारकूपपतितो विष्णुना प्रेरितो भवान् ।न युक्तं पतनं तत्र तदुद्धारं अभीप्सितं ॥१८॥ज्ञानी गुरुश्च बलवान्भवाब्धेः शिष्यं उद्धरेथ् ।गुरुः स्वयं असिद्धश्च दुर्बलः कथं उद्धरेथ् ॥१९॥गुरोरत्यवलिप्तस्य कार्याकार्यं अजानतः ।उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥२०॥स गुरुः परमो वैरी यो ददाति ह्यसन्मतिं ।तं नमस्कृत्य सत्शिष्यः प्रयाति ज्ञानदं गुरुं ॥२१॥संसारविषयोन्मत्तो गुरुरार्तः स्वकर्मणि ।दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥२२॥नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रं उवाच सः ।कम्पितस्तमसा धाता कोपरक्तास्यलोचनः ॥२३॥ब्रह्मोवाचज्ञानं ते भवतु भ्रष्टं स्त्रीजितो भव पामर ।सर्वजातिषु गन्धर्वः कामी सोऽपि भवान्भव ॥२४॥पञ्चाशत्कामिनीनां च स्वयं भर्ता भवाचिराथ् ।तासां वशश्च सततं स्त्रीणां क्रीडा मृगो यथा ॥२५॥शृङ्गारशूरो भव रे शश्वत्सुस्थिरयौवनः ।तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥२६॥कामबाध्यो भव चिरं दिव्यवर्षसहस्रकं ।निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥२७॥ततो वर्षसहस्रान्ते मया शप्तः स्वकर्मणा ।विप्रदास्यां तु शूद्रायां जनिष्यसि न संशयः ॥२८॥ततो वैष्णवसंसर्गात्विष्णोरुच्छिष्टभोजनाथ् ।विष्णुमन्त्रप्रसादेन विष्णुमायाविमोहितः ॥२९॥तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः ।शशाप पितरं शिघ्रं दारुणं च यथोचितं ॥३०॥अपूज्यो भव दुष्टं त्वं त्वन्मन्त्रोपासकः कुतः ।अगम्यागमनेच्छा ते भविष्यति न संशयः ॥३१॥नारदस्य तु शापेन सोऽपूज्यो जगतां विधिः ।दृष्ट्वा स्वकन्यारूपं च पश्चाद्धावितवान्पुरा ॥३२॥पुनः स्वदेहं तत्याज भर्त्सितः सनकादिभिः ।लज्जितः कामयुक्तश्च पुनर्ब्रह्मा बभूव सः ॥३३॥नारदस्तु नमस्कृत्य पितरं कमलोद्भवं ।विप्रदेहं परित्यज्य गन्धर्वश्च बभूव सः ॥३४॥नवयौवनकालेन बलवान्मदनोद्धतः ।जहार कन्याः पञ्चाशत्बलाच्चित्ररथस्य तु ॥३५॥गान्धर्वेन विवाहेन ता उवाह च निर्जने ।मूर्च्छां प्रापुश्च ताः कन्या दृष्ट्वा सुन्दरं ईश्वरं ॥३६॥विसस्पुरुश्च पितरं मातरं भ्रातरं तथा ।रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥३७॥कन्दरेर्कन्दरे रम्ये रम्ये सुन्दरमन्दिरे ।शैले शैले सुरहसि कानने कानने तथा ॥३८॥पुष्पोद्यने तरुद्याने नद्यां नद्यां नदे नदे ।सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्रसरोवरे ॥३९॥सुरेशस्यापि निकटे सुभद्रस्य तटे तटे ।अगम्ये च महाघोरे गन्धमादनगह्वरे ॥४०॥परिजाततरुणां च पुष्पितानां मनोहरे ।तदन्तरे सुन्दरे चामोदिते पुष्पवायुना ॥४१॥मलये निलये रम्ये सुगन्धे चन्दनान्विते ।चन्दनोक्षितसर्वाङ्गश्चन्दनाक्तेन कामिना ॥४२॥रम्यचम्पकशय्यासु चन्दनाक्तासु सस्मिताः ।दिवानिशं न जानन्ति कामिना सस्मितेन च ॥४३॥विस्यन्दके शूरसेने नन्दने पुष्पभद्रके ।स्वाहावने काम्यके च रम्यके पारिभद्रके ॥४४॥सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रकेऽपि च ।कालञ्जरे पञ्जरे च काञ्चीकाञ्चनकानने ॥४५॥मधुमाधवमासे च मधूरे मधुकानने ।वने कल्पतरूणां च विश्वकारुकृतस्थले ॥४६॥रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे ।सुवेले च सुपार्श्वे च प्रवालांकुरकानने ॥४७॥मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे ।वने केलिकदम्बानां केतकीनां मनोहरे ॥४८॥माधवीमालतीनां च यूथिकानां वने वने ।चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥४९॥नागेश्वरलवङ्गानां अन्तरे ललितालये ।कुमुदानां पङ्कजानां पङ्किले कोमलस्थले ॥५०॥स्थलपद्मप्रकारो च भूमिचम्पककानने ।लाङ्गलीनां रसालानां पनसानां सुखप्रदे ॥५१॥कदलीबदरीणां च श्रीफलानां च श्रीयुते ।जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥५२॥कृत्वा बिहारं ताभिश्च गन्धर्वश्चोपवर्हणः ।दिव्यं वर्षसहस्रं च स्वाश्रमं पुनराययौ ॥५३॥श्रुत्वा विधातुराह्वानं पुष्करं च ययौ पुनः ।ददर्श तत्र ब्रह्माणं रत्नसिंहासनस्थितं ॥५४॥देवेन्द्रैश्चापि सिद्धेन्द्रैर्मुनीन्द्रैः सन्कादिभिः ।समावृतं सभायां च रक्षोगन्धर्वकिन्नरैः ॥५५॥सुशोभितं यथा चन्द्रं गगने भगणैः सह ।प्रणनाम सभामध्ये ताभिः सार्धं जगद्विधिं ॥५६॥महेशं च गणेशं च धनेशं शेषं ईश्वरं ।धर्मं धन्वन्तरिं स्कन्दं सूर्यसोमहुताशनं ॥५७॥उपेन्द्रेन्द्रं विश्वकारुं वरुणं पवनं स्मरं ।यमं अष्टौ वसून्रुद्रान्जयन्तं नलकूवरं ॥५८॥सर्वान्देवान्नमस्कृत्य ननाम मुनिपुङ्गवं ।अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसं ॥५९॥सर्वश्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा ।सनकं सनन्दं च तृतीयं च सनातनं ॥६०॥सनत्कुमारं योगीशं ज्ञानिनां च गुरोर्गुरुं ।वोढुं पञ्चशिखं सङ्खं भृगुं अङ्गिरसं तथा ॥६१॥आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरं ।मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविं ॥६२॥बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशं ।वाल्मीकिं परशुरामं संवर्तं च विभाण्डकं ॥६३॥देवलं च वामदेवं ऋशयशृङ्गं पराशारं ।एतान्सर्वान्नमस्कृत्य तस्थौ स पुरतो विधेः ॥६४॥तुष्टाव सर्वान्देवांश्च मुनीन्द्रांश्च तथैव च ।तं उवाच सभामध्ये विधाता जगतां अपि ।सस्मितः सुप्रसन्नश्च गन्धर्वं उपवर्हणं ॥६५॥ब्रह्मोवाचश्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितं ।कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥६६॥गोपीनां वस्त्रहरणं हरं रासमहोत्सवं ।ताभिः सार्धं जलक्रीडां हरेरुत्कीर्तनं कुरु ॥६७॥कृष्णसङ्कीर्तनं तूर्णं पुनाति श्रुतिमात्रतः ।श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥६८॥यत्रैव प्रभवेद्वत्स तन्नामगुणानुकीर्तनं ।तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥६९॥तत्कीर्तनध्वनिं श्रुत्वा सर्वाणि पातकानि च ।दूरादेव पलायन्ते वैनतेयं इवोरगाः ॥७०॥तद्दिनं सफलं धन्यं यशस्यं सर्वमङ्गलं ।श्रीकृष्णकीर्तनं यत्र तत्रैव नायुषो व्ययः ॥७१॥संकीर्तनध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः ।तेषां पादरजःस्पर्शात्सद्यः पूता वसुन्धरा ॥७२॥तत्कीर्तनं भवेद्यत्र कृष्णस्य परमात्मनः ।स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदं ॥७३॥नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च ।तपस्विनां च व्रतिनां व्रतानां तपसां स्थलं ॥७४॥वर्तते पापिनां देहे पापानि त्रिविधानि च ।महापापोपपापातिपापान्येव स्मृतानि च ॥७५॥हन्ता यो विप्रभिक्षूणां यतीनां ब्रह्मचारिणां ।स्त्रीणां च वैष्णवानां च स महापातकी स्मृतः ॥७६॥भ्रूणाघ्नश्चापि गोघ्नश्च शूद्रघ्नश्च कृतघ्नकः ।विश्वासघाती विड्भोजी स एव ह्युपपातकी ॥७७॥अगम्यागमिनो ये च सुरविप्रस्वहारिणः ।अतिपातकिनश्चैते वेदविद्भिः प्रकीर्तिताः ॥७८॥कृष्णसंकीर्त्नध्यानात्तन्मन्त्रग्रहणादहो ।मुच्यन्ते पातकैस्तैस्तैः पापिनस्त्रिविधाः स्मृताः ॥७९॥तपोयज्ञकृती पूतस्तीर्थस्नातव्रती तथा ।भिक्षुर्यतिर्ब्रह्मचारी वानप्रस्थश्च तापसः ॥८०॥पवित्रः परमो वह्निः सुपवित्रं जलं यथा ।एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीं ॥८१॥विष्णुपादोदकोच्छिष्टं भुञ्जते ये च नित्यशः ।पश्यन्ति च शिलाचक्रं पूजां कुर्वन्ति नित्यशः ॥८२॥जीवन्मुक्तास्च ते धन्या हरिदासाश्च भारते ।पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवं ॥८३॥नहि तेषां पराभूताः पुण्यवन्तो जगत्त्रये ।तेषां च पादरजसा तीर्थं पूतं तथा धरा ॥८४ ।॥तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः ।पुरुषाणां सहस्रं च पूतं तज्जन्ममात्रतः ॥८५॥इत्युक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः ।आश्चर्यं मेनिरे श्रुत्वा देवाश्च मुनयस्तथा ॥८६॥एतस्मिन्नन्तरे तत्र विद्याधर्यः समागताः ।गन्धर्वाश्चापि विविधा ननृतुः किन्नरा जगुः ॥८७॥रम्भोर्वशी घृताची च मेनका च तिलोत्तमा ।सुधामुखी पूर्णचित्ती मोहिनी कलिका तथा ॥८८॥चम्पावती चन्द्रमुखी पद्मा पद्ममुखीति च ।एताश्चान्याश्च बह्व्यश्च श्वश्वत्सुस्थिरयौवनाः ॥८९॥बृहन्नितम्बश्रोणीकास्तनभारैः समानताः ।ईषद्धास्याः प्रसन्नास्याः कामार्ताश्च समाययुः ॥९०॥वेदज्ञा मूर्तिमन्तश्च वेदाश्चात्वार एव च ।ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्मचारिणः ॥९१॥समाययुस्तथा मन्दा दैवज्ञाः स्तुतिपाठकाः ।लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥९२॥तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा ।वारुणी मनसेन्द्राणी ताः सर्वा देवयोषितः ॥९३॥मुनिपत्न्यश्च गन्धर्व्यो हर्षयुक्ताः समाययुः ।अहो महोत्सवं परमानन्दमानसाः ।विचित्रां च ब्रह्मसभां पुष्करं तीर्थं आययुः ॥९४॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे महोत्सवारम्भो नाम दशमोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP