संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| अष्टमोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - अष्टमोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत अष्टमोऽध्यायः Translation - भाषांतर श्रीव्यास उवाचअथ चाभ्यन्तरं गत्वा नारदो हृष्टमानसः ।ददर्श स्वाश्रमं रम्यं अतीव सुमनोहरं ॥१॥पयः फेननिभशय्यासहितं रत्नमन्दिरं ।साक्षाद्गोरोचनाभैश्च मणिस्तम्भैर्विभूषितं ॥२॥मणीन्द्रसारसोपानैः कपाटैश्च परिष्कृतं ।मुक्तामाणिक्यहीराणां मालाराजिविराजितं ॥३॥शुद्धस्फटिकसंकाशं प्राङ्गणं मणिसंस्कृतं ।सुन्दरं मन्दिरचयं सद्रत्नकलशोज्ज्वलं ॥४॥रत्नपत्रपटाकीर्णं वह्निशुद्धांशुकान्वितं ।सुधानां च मधूनां च पूर्णकुम्भकं शतं शतं ॥५॥दासदासीसमूहैश्च रत्नालङ्कारभूषितैः ।पार्वतीप्रियसङ्गैश्च स्वकर्माकुलसङ्कल्पं ॥६॥तद्दृष्ट्वा च मुनिश्रेष्ठस्तत्पराभ्यन्तरं ययौ ।रत्नसिंहासनस्थं च शङ्करं च ददर्श सः ॥७॥व्याघ्रचर्माम्बरधरं सस्मितं चन्द्रशेखरं ।प्रसन्नवदनं स्वच्छं शान्तं श्रीमन्तं ईश्वरं ॥८॥विभूतिभूषिताङ्गं च परं गङ्गाजटाधरं ।भक्तप्रियं च भक्तेशं ज्वलन्तं ब्रह्मतेजसा ॥९॥त्रिनेत्रं पञ्चवक्त्रं च कोटिचन्द्रसमप्रभं ।जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनं ॥१०॥निर्लिप्तं च निरीहं च दातारं सर्वसम्पदां ।स्वेच्छामयं सर्वबीजं श्रीकृष्णं प्रकृतेः परं ॥११॥सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितं ।पार्श्वदप्रवरश्रेष्ठसेवितं श्वेतचामरैः ॥१२॥दुर्गासेवितपादाब्जं भद्रकालीपरिष्टुतं ।पुरतो हि वसन्तं तं स्कन्दं गणपतीं तथा ॥१३॥गले बद्ध्वा च वसनं भक्तिनम्रात्मकंधरः ।योगीन्द्रं स्वगुरुं शंभुं शिरसा प्रणनाम सः ॥१४॥तुष्टाव परया भक्त्या देवर्षिर्जगतां पतिं ।स्वगुरुं च पशुपतिं वेदोक्तेन स्तवेन च ॥१५॥श्रीनारद उवाचनमस्तुभ्यं जगन्नाथ मम नाथ मम प्रभो ।भवरूपतरोर्बीज फलरूप फलप्रद ॥१६॥अबीजज प्रज प्राज सर्वबीज नमोऽस्तु ते ।सद्भाव परमाभाव विभाव भावनाश्रय ॥१७॥भवेश भवबन्धेश भावाब्धिनाविनायक ।सर्वाधार निराधार साधार धरणीधर ॥१८॥वेदविद्याधाराधार गङाधर नमोऽस्तु ते ।जयेश विजयाधार जयबीज जयात्मक ॥१९॥जगदादे जयानन्द सर्वानन्द नमोऽस्तु ते ।इत्येवं उक्त्वा देवर्षिः शम्भोश्च पुरतः स्थितः ।प्रसन्नवदनः श्रीमान्भगवांस्तं उवाच सः ॥२०॥श्रीमहादेव उवाचवरं वृणु महाभाग यत्ते मनसि वर्तते ।दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्वसंपदां ॥२१॥सुखं मुक्तिं हरेर्भक्तिं निश्चलां अविनाशिनीं ।हरेः पादं तद्दास्यं सालोक्यादिचतुष्टयं ॥२२॥इन्द्रत्वं अमरत्वं वा यमत्वं अनिलेश्वरं ।प्रजापतित्वं ब्रह्मत्वं सिद्धत्वं सिद्धसाधनं ॥२३॥सिद्धैश्वर्यं सिद्धिबीजं वेदविद्याधिपं परं ।अणिमादिकसिद्धिं च मनोयायित्वं ईप्सितं ॥२४॥हरेः पदं च गमनं सशरीरेण लीलया ।एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ॥२५॥तन्मे ब्रूहि मुनिश्रेष्ठ सर्वं दातुं अहं क्षमः ।शङ्करस्य वचः श्रुत्वा तं उवाच महामुनिः ॥२६॥श्रीनारद उवाचदेहि मे हरिभक्तिं च तन्नामसेवने रुचिः ।अतितृष्णा गुणाख्याने नित्यं अस्तु ममेश्वर ॥२७॥नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयं ।पार्वती भद्रकाली च कार्त्तिकेयो गणेश्वरः ॥२८॥सर्वं ददौ महादेवो नारदाय च धीमते ।सर्वप्रदस्तु सर्वेशः सर्वकारणकारणः ॥२९॥नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत्शुचिः ।हरिभक्तिर्भवेत्तस्य तन्नाम्नि गुणतो रुचिः ॥३०॥दशवारजपेनैव स्तोत्रसिद्धिर्भवेन्नृणां ।सर्वसिद्धिर्भवेत्तस्य सिद्धस्तोत्रो भवेद्यदि ॥३१॥इह प्राप्नोति लक्ष्मीं च निश्चलां लक्षपौरुषीं ।परिपूर्णं अहैश्वर्यं अन्ते याति हरेः पदं ॥३२॥पुत्रं विशिष्टं लभते हरिभक्तं जितेन्द्रियं ।सुसाध्यां सुविनीतां सुव्रतां च पतिव्रतां ॥३३॥प्रजां भूमिं यशः कीर्तिं विद्यां सकवितां लभेथ् ।प्रसूयते महाबन्ध्या वर्षं एकं शृणोति चेथ् ॥३४॥गलत्कुष्ठी महारोगी सद्यो रोगात्प्रमुच्यते ।धनी महादरिद्रश्च कृपणः सत्यवान्भवेथ् ।विप्रद्ग्रस्तो राजबद्धो मुच्यते नात्र संशयः ॥३५॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे अष्टमोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP