संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीनारदपञ्चरात्रम्|प्रथमैकरात्रः| षष्ठोऽध्यायः प्रथमैकरात्रः प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः प्रथमैकरात्रः - षष्ठोऽध्यायः ‘श्रीनारदपञ्चरात्रम‘ हा ग्रंथ वाचल्याने सामान्यज्ञानात भर पडते. Tags : booknaradsnaskritपुस्तकश्रीनारदपञ्चरात्रम्संस्कृत षष्ठोऽध्यायः Translation - भाषांतर श्रीशुक उवाचसनत्कुमारो वैकुण्ठं ब्रह्मलोकं च ब्रह्मणि ?wहत्? ।गते ब्रह्मन्किं चकार भगवान्नारदो मुनिः ॥१॥व्यासो उवाचमुनिस्तयोश्च गतयोः स रुरोद सरित्तटे ।इतस्ततश्च बभ्राम मद्वियोगशुचास्पद ॥२॥स्वमानसे समालोक्य मुनिश्रेष्ठः स उन्मनाः ।ध्यायमानो हरिपदं शिवं द्रष्टुं समुत्सुकः ॥३॥प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा ।जगाम तपसस्थानात्कैलासाभिमुखे मुनिः ॥४॥स्नात्वा च कृतमालायां संपूज्य परमेश्वरं ।भुक्त्वा फलं जलं पीत्वा प्रययौ गन्धमादनं ॥५॥ददर्श ब्राह्मणं तत्र वटमूले मनोहरे ।कटमस्तं ध्यायमानं श्रीकृष्णचरणाम्बुजं ॥६॥दीर्गं नग्नं गौराङ्गं दीर्घलोमभिरावृतं ।निमीलिताक्षं सानन्दं सानन्दाश्रुसमन्वितं ॥७॥पाद्मे पद्मेशशेषादिसुरपूजितवन्दिते ।श्रीपादपद्मे शोभाढ्ये शश्वत्संन्यस्तमानसं ॥८॥बाह्यज्ञानपरित्यक्तं योगज्ञानविशारदं ।शिवस्य शिष्यं सद्भक्तं योगीन्द्राणां गुरोर्गुरोः ॥९॥हृत्पद्मे पद्मनाभं च परमात्मानं ईश्वरं ।प्रदीपकलिकाकारं ब्रह्मज्योतिःसनातनं ॥१०॥साक्षिस्वरूपं परमं भगवन्तं अधोक्षजं ।पश्यन्तं सस्मितं कृष्णं पुलकाङ्कितविग्रहं ॥११॥सद्भावोद्रिक्तचित्तं च सद्भावं पुरुषोत्तमे ।दृष्ट्वा महर्षिप्रवरं देवर्षिविस्मयं ययौ ॥१२॥इतस्ततश्च बभ्राम ददर्श स्वाश्रमं मुनेः ।अतीव सुरहःस्थानं रम्यं रम्यं नवं नवं ॥१३॥सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरं ।श्वेतरक्तोत्पलदलैः कमलैः कमनीयकं ॥१४॥गुञ्जदिन्दिन्दवरैर्?wहत्? मकरन्दोदरैस्तथा ।व्याकुलैः संकुलैः शश्वद्राजितैश्च विराजितं ॥१५॥वन्यैर्वृक्षैर्बहुविधैः फलशाखासुशोभितैः ।करञ्जकैश्च करजैर्बिम्बैः शाखोटिकैस्तथा ॥१६॥तिन्तिडीभिः कपित्थैश्च वटशिंशपाचन्दनैः ।मन्दारैः सिन्धुवारैश्च ताडिपत्रैः सुशोभनैः ॥१७॥गुवाकैर्नारिकेतैश्च खर्जुरैः पनसैस्तथा ।तालैः शालैः पियालैश्च हिन्तालैर्वकुलैरपि ॥१८॥आम्रैराम्रातकैश्चैव जम्बीरैर्दाडिमैस्तथा ।श्रीफलैर्वदरीभिश्च जम्बुभिर्नागरङ्गकैः ॥१९॥सुपक्वफलशोभाड्यैः सुस्निग्धैः सुमनोहरैः ।तरुणैस्तरुराजैस्च नानाजातिभिरीप्सितं ॥२०॥मल्लिकामालतीकुन्दकेतकीकुसुमैः शुभैः ।माधवीनां लताजालैश्चर्चितं चारुचम्पकैः ॥२१॥कदम्बानां कदम्बैश्च स्वच्छैः श्वेतैश्च पुष्पितैः ।नागेश्वराणां वृन्दैश्च दीप्तं मन्दारकैर्वरैः ॥२२॥हंसकारण्डवकुलैः पुंस्कोकिलकुलैस्तथा ।सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरं ॥२३॥शार्दूलैः शरभैः सिंहैर्गण्डकैर्महिषैः परं ।मनोहरैः कृष्णसारैश्चमरभिर्भावभूषितं ॥२४॥महामुनिप्रभावेन हिंसादोषविवर्जितं ।दस्युचौरहिंस्रजन्तुभयशोकविवर्जितं ॥२५॥सुपुण्यदं तीर्थवरं भारते सुप्रशंसितं ।सिद्धस्थलं सिद्धिदं तं मन्त्रसिद्धिकरं परं ॥२६॥दृष्ट्वाश्रमं मुनिश्रेष्ठो जगाम मुनिसंसदि ।आसने च समासीनं ध्यानहीनं ददर्श तं ॥२७॥समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षिपुङ्गवं ।दत्वामलं फलं मूलं संभाषां स चकार ह ॥२८॥प्रश्नं चकार स मुनिवीणापाणिं नारदं ।सस्मितः सस्मितं शुद्धं शुद्धवंशसमुद्भवं ॥२९॥सद्भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्मतेजसा ।अतिथिं ब्राह्मणवरं ब्रह्मपुत्रं च पूजितं ॥३०॥मुनिरुवाचकिं नाम भवतो विप्र क्व यासीति क्व चागतः ।क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥३१॥मां वा ममाश्रमं वापि पूतं कर्तुं इहागतः ।मूर्तिमद्ब्रह्मतेजो हि मम भाग्यादुपस्थितः ॥३२॥अथ वैष्णवदर्शनफलम्न ह्यम्मयानि तीर्थानि न देवा मृच्छितामयाः ।ते पुनन्त्युरुकालेन वैष्णवो दर्शनेन च ॥३३॥सद्यः पूतानि तीर्थानि सद्यः पूता ससागरा ।सशैलकाननद्वीपा पादस्पर्शाद्वसुन्धरा ॥३४॥धन्योऽहं कृतकृत्योऽहं सफलं मम जीवनं ।सहसोपस्थितो गेहे ब्राह्मणो वैष्णवोऽतिथिः ॥३५॥पूजितो वैष्णवो येन विश्वं च तेन पूजितं ।आश्रमं वस्तुसहितं सर्वं तुभ्यं निवेदितं ॥३६॥फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतं ।सुवासितं पिब स्वादु शीतलं निर्मलं जलं ॥३७॥दुग्धं च सुरभीदत्तं रम्यं मधुरितं मधु ।परिपक्वं फलरसं पिब स्वादु मुहुर्मुहुः ॥३८॥सुखबीज्ये सुतल्पे च शयनं कुरु सुन्दरे ।सुशीतवातसौगन्ध्यपूतेन सुरभीकृते ॥३९॥अथातिथिपूजनफलम्अतिथिर्यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयं ।हरौ तुष्टे गुरुस्तुष्टो गुरौ तुष्टे जगत्त्रयं ॥४०॥अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः ।तीर्थान्येतानि सर्वाणि पुण्यानि च व्रतानि च ॥४१॥तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च ।अपूजितैरतिथिभिर्सार्धं सर्वे प्रयान्ति ते ॥४२॥अथातिथिविमुखे दोषाःअतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।पितरस्तस्य देवाश्च पुण्यं धर्मव्रताशनाः ॥४३॥यमः प्रतिष्ठा लक्ष्मीश्चाभीष्टदेवो गुरुस्तथा ।निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषं ॥४४॥स्त्रीघ्नैश्चैव कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च ॥४५॥सत्यघ्नैश्च कृतघ्नैश्च पापिभिः स्थापिभिस्तथा ।दानापहारिभिश्चैव कन्याविक्रियिभिस्तथा ॥४६॥सीमापहारिभिश्चैव मिथ्यासाक्षिप्रदातृभिः ।ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्वहारिभिः ॥४७॥वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः ।शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः ॥४८॥श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातिभिः ।गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः ॥४९॥विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च ।अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः ॥५०॥पितृमातृघातिभिश्च शरणागतघातिभिः ।ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः ॥५१॥तुल्यो भवति विप्रेन्द्रातिथिरेव त्वनर्चितः ।इत्य एवं उक्त्वा मुनिः पूजयां आस नारदं ।मिष्टं च भोजयां आस शाययां आस भक्तितः ॥५२॥श्रीनारद उवाचनारदोऽहं मुनिश्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः ।तपःस्थलादागतोऽहं यामि कैलासं ईप्सितं ॥५३॥आत्मानं पावनं कर्तुं त्वां च द्रष्टुं इहागतः ।पुनन्ति प्राणिनः सर्वे विष्णुभक्तप्रदर्शनाथ् ॥५४॥को भवान्ध्यानपूतश्च नग्नश्च कटमस्तकः ।किं ध्यायसे महाभाग श्रेष्ठदेवश्च को गुरुह् ॥५५॥मुनिरुवाचजीवमुक्तो भवानेव पुनासि भुवनत्रयं ।यस्य तत्र कुले जन्म तस्य तत्तद्वचोमनः ॥५६॥पुत्रे यशसि तोये च कवित्वेन च विद्यया ।प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणां ॥५७॥विधाता जगतां ब्रह्मा ब्रह्मैकतानमानसः ।तत्पुत्रोऽसि महाख्यातो देवर्षिप्रवरो महान् ॥५८॥लोमशोऽ हं महाभाग जगत्पावनपावन ।नग्नोऽल्पायुर्विवेकी च वाससा किं प्रयोजनं ॥५९॥वृक्षमूले निवासे मे छत्रेण किं गृहेण च ।रौद्रवृष्टिवारणार्थं सांप्रतं कटमस्तकः ॥६०॥जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज ।ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवथ् ॥६१॥किं कलत्रेण पुत्रेण धनेन संपदा श्रिया ।किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥६२॥इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम ।मनोश्च पतनं तत्र मायया किं प्रयोजनं ॥६३॥सर्वलोमकोत्पाटनेन केशौघोत्पाटनेन च ।अल्पायुषो मम मुने मरणं निश्चितं भवेथ् ॥६४॥ध्याये श्रीपादपद्मं तत्पाद्मपद्मेशवन्दितं ।परस्य प्रकृतेस्तस्य कृष्णस्य परमात्मनः ॥६५॥तस्य मेऽभीष्टदेवस्य सर्वेषां कारणस्य च ।गुरुर्मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥६६॥मत्कण्ठे कवचं यस्य मद्गुरुः कथयिष्यति ।गुरोर्निषेधो यत्रास्ते तद्वक्तुं कः क्षमो भुवि ॥६७॥गुरोश्च वचनं यो हि पालनं न करोति च ।गुरूक्तं उक्त्वा पापी स ब्रह्महत्यां लभेद्ध्रुवं ॥६८॥स्वगुरुं शिवरूपं च तद्भिन्नं मन्यते हि यः ।ब्रह्महत्यां लभेत्सोऽपि विघ्नस्तस्य पदे पदे ॥६९॥अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर्वचः ।अपालने सर्वविघ्नं लभते नात्र संशयः ॥७०॥आशिषा पादरजसा चोच्छिष्टालिङ्गेन च ।मुच्यते सर्वपापेभ्यो जीवन्मुक्तो भवेन्नरः ॥७१॥स्वगुरुं शङ्करं पश्य गच्छ कैलासं ईप्सितं ।मुच्यते विघ्नपापेभ्यो गुरोश्चरणदर्शनाथ् ॥७२॥इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथ्मैकरात्रे लोमशनारदसंवादे षष्ठोऽध्यायः N/A References : N/A Last Updated : January 23, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP