संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| षोडश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - षोडश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत षोडश सर्गः Translation - भाषांतर वृतः प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः ।पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥१॥विभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः ।मृगेक्षणानां समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥२॥परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि ।दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥३॥नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया ।अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसंपदा ॥४॥विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः ।दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्योपचिकाय तच्चयः ॥५॥हरिद्विपद्वीपिभिरांशुकैर्नभोनभस्वदाध्मापनपीनितैरभूत् ।तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनाम्बरवल्लिवेल्लिवेल्लितम् ॥६॥भुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः ।ददर्श दूतीमिव भीमजन्मनह् स तत्प्रतीहारमहीं महीपतिः ॥७॥श्लथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा ।प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतप्रश्निततूर्यनिःस्वना ॥८॥विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः ।अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्गमः ॥९॥निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृतार्हणम् ।विनीतमा द्वारत एव पद्गतां गतं तमैक्षिष्ट मुदा विदर्भराट् ॥१०॥अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः ।सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः ॥११॥यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः ।शिवामथ स्वस्य शिवाय नन्दनां ददे पतिः सर्वविदे महीभृताम् ॥१२॥असिस्वदद्यन्मधुपर्कमर्पितं स तद्व्यधात्तर्कमुदर्कदर्शिने ।यदेष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदाकृत ॥१३॥वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः ।सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः ॥१४॥विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल ।विशङ्क्य सूत्रं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः ॥१५॥सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः ।ददौ तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् ॥१६॥बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् ।बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥१७॥असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म ददाति भासुरम् ।ददे हि तस्मै धवनामधारिणे स शंभुसंभोगनिमग्नयानया ॥१८॥अधारि यः प्राङ्नहिषासुरद्विषा कृपाणमस्मै तमदत्त कूकुदः ।अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन पराङ्गदारणः ॥१९॥उवाह यः सान्द्रतराङ्गकाननः स्वशौर्यसूर्योदयपर्वतव्रतम्।सनिर्झरः शाणनधौतधारया समूढसंध्यः क्षतशत्रुजासृजा ॥२०॥यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् ।स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥२१॥यदङ्गभूमी बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले ।रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥२२॥पुरैव तस्मिन्समदेशि तत्सुताभिकेन यः सौहृदनाटिनाग्निना ।नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम् ॥२३॥प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् ।कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते ॥२४॥महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम् ।स तद्ददेऽस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥२५॥जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय ददे मुदं न यः ।ददद्दिदृक्षादरदासतां यथा तयैव तत्पांसुलकण्ठनालताम् ॥२६॥दिवस्पतेरादरदर्शिनादरादढौकि यस्तं प्रति विश्वकर्मणा ।तमेकमाणिक्यमयं महोन्नतं पतद्ग्रहं ग्राहितवान्नलेन सः ॥२७॥नलेन ताम्बूलविलासितोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा ।इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणचारुणश्चिरात् ॥२८॥मयेन भीमं भगवन्तमर्चता नृपेति पूजा प्रभुनाम्नि या कृता ।अदत्त भीमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनम् महत् ॥२९॥छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं विसर्पति ।न नीलकण्ठत्वमधास्यदत्र चेत् स कालकूटं भगवानभोक्ष्यत ॥३०॥विराध्य दुर्वाससमस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः ।अदत्त तस्मै स मदच्छलात्सदा यमभ्रमातङ्गतयैव वर्षुकम् ॥३१॥मदान्मदग्रे भवताथवा भिया परं दिगन्तादपि यात जीवत ।इति स्म यो दिक्करिणः स्वकर्णयोर्विनैव वर्णस्रजमागतैर्गतैः ॥३२॥बभार बीजं निजकीर्तये रदौ द्विषामकीर्त्यै खलु दानविप्लुषः ।श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीमुपास्त यः ॥३३॥न तेन वाहेषु विवाहदक्षिणीकृतेषु संख्यानुभवेऽभवत्क्षमः ।न शातकुम्भेषु न मत्तकुम्भिषु प्रयत्नवान्कोऽपि न रत्नराशिषु ॥३४॥करग्रहे वाम्यमधत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः ।कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ॥३५॥स्थिरा त्वमश्मेव भवेति मन्त्रवागनेशदाशास्य किमाशु तां ह्रिया ।शिला चलेत्प्रेरणया नृणामपि स्थितेस्तु नाचालि बिडौजसापि सा ॥३६॥प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधे विदर्भजाम् ।जगाद विच्छिद्य पटं प्रयास्यतो नलादविश्वासमिवैष विश्ववित् ॥३७॥ध्रुवावलोकाय तदुन्मुखभुवा निर्दिश्य पत्याभिदधे विदर्भजा ।किमस्य न स्यादणिमाक्षिसाक्षिकस्तथापि तथ्यो महिमागमोदितः ॥३८॥धवेन सादर्शि वधूररुन्धतीं सतीमिमां पश्य गतामिवाणुताम् ।कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति ॥३९॥प्रसूनता तत्करपल्लवस्थितैरुडुच्छविर्व्योमविहारिभिः पथि ।मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झितैर्द्युतिः ॥४०॥तया प्रतीष्टाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् ।ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता ॥४१॥अपह्नुतः स्वेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।दृशोरपि प्रस्रुतमस्रु सात्त्विकं घनैः समाधीयत धूमलङ्घनैः ॥४२॥बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्त्वमवेक्ष्य तत्क्षणम् ।जनेषु रोमाञ्चमितेषु मिश्रतां ययुस्तयोः कण्टककुड्मलश्रियः ॥४३॥बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा ।न कम्पसंपत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधा समेधितः ॥४४॥दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः ।महर्षिणेवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः ॥४५॥सकौतुकागारमगात्पुरंध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः ।अधात्सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना ॥४६॥तथाशनाय निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया ।विमुक्तसंभोगमशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम् ॥४७॥कटाक्षणाज्जन्यजनैर्निजप्रजाः क्वचित्परीहारसमचीकर्त्तराम् ।धराप्सरोभिर्वरयात्रयागतानभोजयद्भोजकुलाङ्कुरः क्वचित् ॥४८॥स कंचिदूचे रचयन्तु तेमनोपहारमत्राङ्गरुचेर्यथोचितम् ।पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् ॥४९॥मुखेन तेत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमतिं खलाहसत् ।वराङ्गभागः स्वमुखं मतोऽधुना स हि स्फुटं येन किलोपविश्यते ॥५०॥युवामिमे मे स्त्रितमे इतीरिणौ गले तथोक्ता निजगुच्छमेकिका ।न भास्यदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः पराकृषत् ॥५१॥नलाय वालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेऽर्पितात् ।अहासि लोकैः सरटात्पटोज्झिनी भयेन जङ्घायतिलङ्घिरंहसः ॥५२॥पुरःस्थलाङ्गूलमदात्खला वृसीमुपाविशत्तत्र ऋजुर्वरद्विजः ।पुनस्तदुत्थाप्य निजामतेर्वदाऽहसच्च पश्चात्कृतपुच्छतत्प्रदा ॥५३॥स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा ।परेण पश्चान्निभृतं न्यधापयद्ददर्श चादर्शतलं हसन्खलु ॥५४॥अथोपचारोद्धुरचारुलोचना विलासनिर्वासितधैर्यसंपदः ।स्मरस्य शिल्पं वरवर्गविक्रिया विलोककं लोकमहासयन्मुहुः ॥५५॥तिरोवलद्वक्त्रसरोजनालया स्मिते स्मितं यत्खलु यूनि बालया ।तया तदीये हृदये निखाय तद्व्यधीयतासंमुखलक्ष्यवेधिता ॥५६॥कृतं यदन्यत्करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया ।हृदस्तदीयस्य तदेव कामुके जगाद वार्तामखिलां खलुं खलु ॥५७॥जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितम् ।पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणवञ्चनक्षणः ॥५८॥युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः ।श्लथोऽपि सख्यां परिधिः कलानिधौ दधावहो तं प्रति गाढबन्धताम् ॥५९॥नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः ।पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे न्यविक्षत ॥६०॥मुखं यदस्मायि विभुज्य सुभ्रुवा ह्रियं यदालम्ब्य नतास्यमासितम् ।अवादि वा यन्मृदु गद्गदं युवा तदेव जग्राह तदाप्तिलग्नकम् ॥६१॥विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिष्वदे ।उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददृशे तदाननम् ॥६२॥स तत्कुचस्पृष्टकचेष्टिदोर्लताचलद्दलाभव्यजनानिलाकुलः ।अवाप नानानलजालशृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा ॥६३॥अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन ।यथा युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः ॥६४॥पपौ न कोऽपि क्षममास्यमेलितं जलस्य गण्डूषमुदीतसंमदः ।चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकाऋमुकभ्रुवः ॥६५॥हरिन्मणेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः ।भृतं न शाकैः प्रवितीर्णमस्ति वस्त्विषेदमेवं हरितेति बोधिताः ॥६६॥ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्न विलोकयन्मुखम् ।स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक् ॥६७॥अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमाऋदवम् ।रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः ॥६८॥वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरश्चुम्बति सुन्दरे दृशा ।स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनी ह्रीणतरा पराददे ॥६९॥यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिर्ध्रुवं ततः ।वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् ॥७०॥यदष्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते ।अपि क्रतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै दधते सुधान्धसः ॥७१॥अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥७२॥न राजिकाराद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि ।धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्धतालुभिः ॥७३॥वियोगिदाहाय कटूभवत्त्विषस्तुषारभानोरिव खण्डमाहृतम् ।सितं मृदु प्रागथ दाहदायि तत्खलः सुहृत्पूर्वमिवाहितस्ततः ॥७४॥नवौ युवानौ निजभावगोपिनावभूमिषु प्राग्विहितभ्रमिक्रमः ।दृशोर्विधत्तः स्म यदृच्छया किल त्रिभागमन्योन्यमुखे पुनः पुनः ॥७५॥व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः ।निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषजलैः किमश्रपि ॥७६॥परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्धुमपि क्षणं प्रति ।निमेषणेनैव कियच्चिरायुषा जनेषु यूनोरुदपादि निर्णयः ॥७७॥अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे ।ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिम् ॥७८॥क्रमेण कूरं स्पृशतोष्मणः पदं सितां च शीतां चतुरेण वीक्षिता ।दधौ विदग्धारुणितेऽधरेऽङ्गुलीमनौचितीचिन्तनविस्मिता किल ॥७९॥कियत्त्यजन्नोदनमानयन्कियत्करस्य पप्रच्छ गतागतेन याम् ।अहं किमेष्यामि किमेष्यसीति सा व्यधत्त नम्रं किल लज्जयाननम् ॥८०॥यथामिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे ।तथा विदग्धैः परिकर्मनिर्मितं विचित्रमेते परिहस्य भोजिताः ॥८१॥नखेन कृत्वाधरसन्निभां निभाद्युवा मृदुव्यञ्जनमांसफालिकाम् ।ददंश दन्तैः प्रशशंस तद्रसं विहस्य पश्यन्परिवेषिकाधरम् ॥८२॥अनेकसंयोजनया तथाकृतेर्निकृत्य निष्पिष्य च तादृगर्जनात् ।अमी कृताकालिकवस्तुविस्मयं जना बहु व्यञ्जनमभ्यवाहरन् ॥८३॥पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणः ।पुनः कर् कर्तुमना गलन्तिकां हसात्सखीनां सहसा न्यवर्तत ॥८४॥युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् ।चकार तन्नीविनिवेशिनं करं बभूव तच्च स्फुटकण्टकोत्करम् ॥८५॥प्रलेहजस्नेहधृतानुबिम्बनां चुचुम्ब कोऽपि श्रितभोजनच्छलः ।मुहुः परिस्पृश्य कराङ्गुलीमुखैस्ततो नु रक्तैः स्वमवापितैर्मुखम् ॥८६॥अराधि यन्मीनमृगाजपत्त्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् ।अशाकि लोकैः कुत एव जेमितुं न तत्तु संख्यातुमपि स्म शक्यते ॥८७॥कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किंचनकुञ्चितभुवा ।क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननयान्वकम्पि सः ॥८८॥अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः ।निपीय भृङ्गारकसङ्गि तत्र तैरवर्णि वारि प्रतिवारमीदृशम् ॥८९॥त्वया विधातर्यदकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् ।वृथेदमारम्भि तु सर्वतोमुखस्तथोचितः कर्तुंिदंपिबस्तव ॥९०॥सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते ।सखि त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्ददतुः किलौदनम् ॥९१॥इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।ध्रुवं मनोज्ञा व्यतरद्युदुत्तरं भिषेण भृङ्गारधृते करद्वयी ॥९२॥अमीभिराकण्ठमभोजि तद्गृहे तुषारधारामृदितेव शर्करा ।हयद्विषद्बष्कयणीपयःसुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ॥९३॥तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता ।इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता ॥९४॥ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सितयापि किं तया ।इतीरिणे बिम्बफलं फलेच्छलाददायि बिम्बाधरयारुचेच्च तत् ॥९५॥समं ययोरिङ्गितवान्वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् ।अकारि नाकूतमवारि सा यया विदग्धयाऽरञ्जि तयैव भाववित् ॥९६॥सखीं प्रति स्माह युवेङ्गितेक्षिणी क्रमेण तेऽयं क्षमते न दित्सुताम् ।विलोम तद्व्यञ्जनमर्प्यते त्वया वरं किमस्मै न नितान्तमर्थिने ॥९७॥समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वर्तुलयालयीकृतम् ।अलंकृतं क्षीरवटैस्तदश्नतां रराज पाकार्पितगैरिकश्रिया ॥९८॥चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बितां विटः ।पुनःपुनः पानकपानकैतवाच्चकार तच्चुम्बनचुंकृतान्यपि ॥९९॥घनैरमीषां परिवेषकैर्जनैरवर्षि वर्षोपलगोलकावली ।चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा ॥१००॥कियद्बहु व्यञ्जनमेतदर्प्यते ममेति तृप्तेर्वदतां पुनःपुनः ।अमूनि संख्यातुमसावढौकि तैश्छलेन तेषां कठिनीव भूयसी ॥१०१॥विदग्धबालेङ्गितगुप्तिचातुरी प्रवह्लिकोत्पाटनपाटवे हृदः ।निजस्य टीकां प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम् ॥१०२॥घृतप्लुते भोजनभाजने पुरः स्फुरत्पुरंध्रिप्रतिबिम्बिताकृतेः ।युवा निधायोरसि लड्डुकद्वयं नखैर्लिलेखाथ ममर्द निर्दयम् ॥१०३॥विलोकिते रागितरेण सस्मितं ह्रियाथ वैमुख्यमिते सखीजने ।तदालिरानीय कुतोऽपि शार्करीं करे ददौ तस्य विहस्य पुत्रिकाम् ॥१०४॥निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः ।अशक्नुविद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः ॥१०५॥पृथक्प्रकारेङ्गितशंसिताशयो युवा ययोदासि तयापि तापितः ।ततो निराशः परिभावयन्परामये तयातोषि सरोषायैव सः ॥१०६॥पयः स्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी ।पदं रुचेर्भोज्यभुजां भुजिक्रिया प्रिया बभूवोज्ज्वलकूरहारिणी ॥१०७॥चिरं युवाकूतशतैः कृताऋथनश्चिरं सरोषेङ्गितया च निर्धुतः ।सृजन्करक्षालनलीलयाञ्जलीनसेचि किंचिद्विधुताम्बुधारया ॥१०८॥न षड्विधः षिङ्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः ।अपारशृङ्गारमयः समुन्मिषन्भृशं रसस्तोषमधत्त सप्तमः ॥१०९॥मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम् ।दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः ॥११०॥अमीषु तथ्यानृतरत्नजातयोर्वराटराट्चारुनितान्तचारुणोः ।स्वयं गृहाणैकमिहेत्युदीर्य तद्द्वयं ददौ शेषजिघृक्षवे हसन् ॥१११॥इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः ।द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि ॥११२॥उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गीं परिणीय तां नलः ।अथ प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना ॥११३॥परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् ।रथे स भैमीं स्वयमध्यरूरुहन्न तत्किलाश्लिक्षदिमां जनेक्षितः ॥११४॥इति स्मरः शीघ्रमतिश्चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥११५॥तथा किमाजन्मनिजाङ्कवर्धितां प्रहित्य पुत्रीं पितरौ विषेदतुः ।विसृज्य तौ तं दुहितुः पतिं यथा विनीततालक्षगुणीभवद्गुणम् ॥११६॥निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः ।तडागकल्लोल इवानिलं तटाद्धृतानतिर्व्याववृते वराटराट् ॥११७॥पितात्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः ।अतः परं पुत्रि न कोऽपि तेऽहमित्युदस्रुरेष व्यसृजन्निजौरसीम् ॥११८॥प्रियः प्रियैकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु ।तथास्त तन्मातृवियोगवाडवः स तु प्रियप्रेममहाम्बुधावपि ॥११९॥असौ महीभृद्बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि ।भुवा कुरङ्गक्षणदन्तिचारयोर्बभार शोभां कृतपादसेवया ॥१२०॥तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया ।विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः ॥१२१॥मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् ।ददर्श पश्यामिव नैषधः प्रियामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः ॥१२२॥पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः ।ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥१२३॥अथ नगरधृतैरमात्यरत्नैःपथि समियाय स जाययाभिरामः ।मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥१२४॥कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं विवेश ॥१२५॥अथ पथि पथि लाजैरात्मनो बाहुवल्ली-मुकुलकुलसकुल्यैः पूजयन्त्यो जयेति ।क्षितिपतिमुपनेमुस्तं दधाना जनाना-ममृतजलमृणालीसौकुमाऋयं कुमार्यः ॥१२६॥अभिनवदमयन्तीकान्तिजालावलोक-प्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन ।निखिलनगरसौधाट्टावलीचन्द्रशालाःक्षाणमिव निजसंज्ञांसान्वयामन्वभूवन् ॥१२७॥निषधनृपमुखेन्दुश्रीसुधां सौधवाता-यनविवरगरश्मिश्रेणिनालोपनीताम् ।पपुरसमपिपासापांसुलत्वोत्परागा-ण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥१२८॥अवनिपतिपथाट्टस्त्रैणपाणिप्रवाल-स्खलितसुरभिलाजव्याजभाजःप्रतीच्छन् ।उपरि कुसुमवृष्टीरेष वैमानिकाना-मभिनवकृतभैमीसौधभूमिं विवेश ॥१२९॥इति परिणयमित्थं यानमेकत्र यानेदरचकितकटाक्षप्रेक्षणं चानयोस्तत् ।दिवि दिविषदधीशाःकौतुकेनावलोक्यप्रणिदधुरिवगन्तुं नाकमानन्दसान्द्राः ॥१३०॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महा-काव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥१३१॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP