संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| द्वितीयः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - द्वितीयः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत द्वितीयः सर्गः Translation - भाषांतर अधिगत्य जगत्यधीश्वरात्अथ मुक्तिं पुरुषोत्तमात्ततः ।वचसामपि गोचरो नयः स तामानन्दमविन्दत द्विजः ॥१॥अधुनीत खगः स नैकधातनुमुत्फुल्लतनूरुहीकृताम् ।करयन्त्रणदन्तुरान्तरेव्यलिखच्चञ्चुपुटेन पक्षती ॥२॥अयमेकतमेन पक्षतेरधिम्अध्योर्ध्वगजङ्घमङ्घ्रिणा ।स्खलनक्षण एव शिश्रियेद्रुतकण्डूयितमौलिरालयम् ॥३॥स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् ।नुनुदे तनुकण्डु पण्डितःपटुचञ्चूपुटकोटिकुट्टनैः ॥४॥अयमेत्य तडागनीडजै-र्लघु पर्यव्रियताथ शङ्कितैः ।उदडीयत वैकृतात्कर-ग्रहजादस्य विकस्वरस्वरैः ॥५॥वहतो बहुशैवलक्ष्मतांधृतरुद्राक्षमधुव्रतं खगः ।स नीलस्य ययौ करंपुनः सरसः कोकनदभ्रमादिव ॥६॥पतगश्चिरकाललालनात्अतिविश्रम्भमवापितो नु सः ॥७॥नृपमानसमिष्टमानसःस निमज्जत्कुतुकामृतोर्मिषु ।अवलम्बितकर्णशष्कुली-कलसीकं रचयन्नवोचत ॥८॥मृगया न विगीयतेनृपैरपि धर्मागममर्मपारगैः ।स्मरसुन्दर ! मां यदत्यजस्तव धर्मः स दयोदयोज्ज्वलः ॥९॥अबलस्वकुलाशिनोझषान्निजनीडद्रुमपीडिनः खगान् ।अनवद्यतृणार्दिनो मृगान्मृगयाधाय न भूभुजां घ्नताम् ॥१०॥यदवादिषमप्रियं तवप्रियमाधाय नुनुत्सुरस्मि तत् ।कृतमातपसंज्वरं तरोःअभिवृष्यामृतमंशुमानिव ॥११॥उपनम्रमयाचितं हितंपरिहर्तु न तवापि सांप्रतम् ।करकल्पजनान्तराद्विधेःशुचितः प्रापि स हि प्रतिग्रहः ॥१२॥पतगेन मया जगत्पतेःउपकृत्यैव तव किं प्रभूयते ।इति वेद्मि न तु त्यजन्तिमां तदपि प्रत्युपकर्तुमर्तयः ॥१३॥अचिरादुपकर्तुराचरेत्-अथ वात्मौपयिकीमुपक्रियाम् ।पृथुरित्थमथाणुरस्तु सान विशेषे विदुषामिह ग्रहः ॥१४॥भविता न विचारचारुचेत्तदपि श्रव्यमिदं मदीरितम् ।खगवागियमित्यतोऽपिकिं न मुदं धास्यति कीरगीरिव ॥१५॥स जयत्यरिसार्थसार्थ-कीकृतनामा किल भीमभूपतिः ।यमवाप्य विदर्भभूः प्रभुंहसति द्यामपि शक्रभर्तृकाम् ॥१६॥दमनादमनाक्प्रसेदुषस्-तनयां तथ्यगिरस्तपोधनात् ।वरमाप स दिष्टविष्टपत्रि-तयानन्यसदृग्गुणोदयाम् ॥१७॥भुवनत्रयसुभ्रुवामसौदमयन्ती कमनीयतामदम् ।उदियाय यतस्तनुश्रियादमयन्तीति ततोऽभिधां दधौ ॥१८॥श्रियमेव परं धराधिपाह्-गुणसिन्धोरुदितामवेहि ताम् ।व्यवधावपि वा विधोः कलांमृडचूडानिलयां न वेद कः ॥१९॥चिकुरप्रकरा जयन्ति तेविदुषी मूर्धनि साबिभर्ति यान् ।पशुनाप्यपुरस्कृतेन तत्-तुलनामिच्छतु चामरेण कः ॥२०॥स्वदृशोर्जनयन्ति सान्त्वनांखुरकण्डूयनकैतवान्मृगाः ।जितयोरुदयत्प्रमीलयोःतदखर्वेक्षणशोभया भयात् ॥२१॥अपि लोकयुगं दृशावपिश्रुतदृष्टा रमणीगुणा अपि ।श्रुतिगामितया दमस्वसुःव्यतिभाते सुतरां धरापते ! ॥२२॥नलिनं मलिनं विवृण्वतीपृषतीमस्पृशती तदीक्षणे ।अपि खञ्जनमञ्जनाञ्चितेविदधाते रुचिगर्वदुर्विधम् ॥२३॥अधरं किल बिम्बनामकंफलमस्मादिति भव्यमन्वयम् ।लभतेऽधरबिम्बमित्यदःपदमस्या रदनच्छदं वदत् ॥२४॥हृतसारमिवेन्दुमण्डलंदमयन्तीवदनाय वेधसा ।कृतमध्यबिलं विलोक्यतेधृतगम्भीरखनीखनीलिम ॥२५॥धृतलाञ्छनगोमयाञ्चनंविधुमालेनपाण्डुरं विधिः ।भ्रमयत्युचिटं विदर्भ-जानननीराजनवर्धमानकम् ॥२६॥सुषमाविषये परीक्षणेनिखिलं पद्ममभाजि तन्मुखात् ।अधुनापि न मङ्गलक्षणंसलिलोन्मज्जनमुज्झति स्फुटम् ॥२७॥धनुषी रतिपञ्चबाणयोःउदिते विश्वजयाय तद्भ्रुवौ ।नलिके न तदुच्चनासिकेत्वयि नालीकविमुक्तिकामयोः ॥२८॥सदृशी तव शूर ! सा परंजलदुर्गस्थमृणालजिद्भुजा ।अपि मित्रजुषां सरोरुहांगृहयालुः करलीलया श्रियः ॥२९॥वयसी शिशुतातदुत्तरेसुदृशि स्वाभिविधिं विधित्सुनी ।विधिनापि न रोमरेखयाकृतसीम्नी प्रविभज्य रज्यतः ॥३०॥अपि तद्वपुषि प्रसप्रतोःगमिते कान्तिझरैरगाधताम् ।स्मरयौवनयोः खलु द्वयोःप्लवकुम्भौ भवतः कुचावुमौ ॥३१॥कलसे निजहेतुदण्डजःकिमु चक्रभ्रमकारितागुणः ।स तदुच्चकुचौ भवन्प्रभा-झरचक्रभ्रममातनोति यत् ॥३२॥भजते खलु षण्मुखं शिखीचिकुरैर्निर्मितबर्हगर्हणः ।अपि जम्भरिपुं दमस्व-सुर्जितकुम्भः कुचशोभयेभराट् ॥३३॥उदरं नतमध्यपृष्ठता-स्फुटदङ्गुष्ठपदेन मुष्टिना ।चतुरङ्गुलमध्यनिर्गत-त्रिबलिभ्राजि कृतं दमस्वसुः ॥३४॥उदरं परिमाति मुष्टिनाकुतुकी कोऽपि दमस्वसुः किमु ।धृततच्चतुरङ्गुलीव यद्व-लिभिर्माति सहेमकाञ्चिभिः ॥३५॥पृथुवर्तुलतन्नितम्बकृन्-मिहिरस्यन्दनशिल्पशिक्षया ।विधिरेककचक्रचारिणंकिमु निर्मित्सति मान्मथं रथम् ॥३६॥तरुमूरुयुगेन सुन्दरीकिमु रम्भां परिणाहिना परम् ।तरुणीमपि जिष्णुरेवतां धनदापत्यतपः फलस्तनीम् ॥३७॥जलजे रविसेवयेव येपदमेतत्पदतामवापतुः ।ध्रुवमेत्य रुतः सहंसकी-कुरुतस्ते विधिपत्रदंपती ॥३८॥श्रितपुण्यसरः सरित्कथंन समाधि क्षपिताखिलक्षपम् ।जलजं गतिमेतु मञ्जुलांदमयन्तीपदनाम्नि जन्मनि ॥३९॥सरसीः परिशीलितुं मयागमिकर्मीकृतनैकनीवृता ।अतिथित्वमनायि सा दृशोःसदसत्संशयगोचरोदरी ॥४०॥अवधृत्य दिवोऽपि यौवतै-र्नसहाधीतवतीमिमामहम् ।कतमस्तु विधातुराशयेपतिरस्या वसतीत्यचिन्तयम् ॥४१॥अनुरूपमिमं निरूपयन्-नथ सर्वेष्वपि पूर्वपक्षताम् ।युवसु व्यपनेतुमक्षमःत्वयि सिद्धान्तधियं न्यवेशयम् ॥४२॥अनया तव रूपसीमयाकृतसंस्कारविबोधनस्य मे ।चिरमप्यवलोकिताद्य सास्मृतिमारूढवती शुचिस्मिता ॥४३॥त्वयि वीर ! विराजते परंदमयन्तीकिलकिञ्चितं किल ।तरुणीस्तन एव दीप्यतेमणिहारावलिरामणीयकम् ॥४४॥तव रूपमिदं तया विनाविफलं पुष्पमिवावकेशिनः ।इयमुद्धधना वृथावनीस्ववनी संप्रवदत्पिकापि का ॥४५॥अनया सुरकाम्यमानयासह योगः सुलभस्तु न त्वया ।धनसंवृतयाम्बुदागमेकुमुदेनेव निशाकरत्विषा ॥४६॥तदहं विदधे तथा तथादमयन्त्याः सविधे तव स्तवम् ।हृदये निहितस्तया भवान्-अपि नेन्द्रेण यथापनीयते ॥४७॥तव संमतिमेव केवलामधि-गन्तुं धिगिदं निवेदितम् ।ब्रुवते हि फलेन साधवोन तु कण्ठेन निजोपयोगिताम् ॥४८॥तदिदं विशदं वचोमृतंपरिपीयाभ्युदितं द्विजाधिपात् ।अतितृप्ततया विनिर्ममेस तदुद्गारमिव स्मितं सितम् ॥४९॥परिमृज्य भुजाग्रजन्मनापतगं कोकनदेन नैषधः ।मृदु तस्य मुदेऽकिरद्गिरःप्रियवादामृतकूपकण्ठजाः ॥५०॥न तुलाविषये तवाकृति-र्न वचोवर्त्मनि ते सुशीलता ।त्वदुदाहरणाकृतौ गुणाइति समामुद्रकसारमुद्रणा ॥५१॥न सुवर्णमयी तनुः परंननु किं वागपि तावकी तथा ।न परं पथि पक्षपातितान्-अवलम्बे किमु मादृशेऽपि सा ॥५२॥भृशतापभृता मयाभवान्मरुदासादि तुषारसारवान् ।धनिनामितरः सतां पुन-र्गुणवत्संनिधिरेव सन्निधिः ॥५३॥शतशः श्रुतिमागतैव सात्रिजगन्मोहमहौषधिर्मम ।अमुना तव शंसितेन तुस्वदृशैवाधिगतामवैमि ताम् ॥५४॥अखिलं विदुषामनाविलंसुहृदा च स्वहृदा च पश्यताम् ।सविधेऽपि नसूक्ष्मसाक्षिणीवदनालंकृतिमात्रमक्षिणी ॥५५॥अमितं मधु तत्कथा ममश्रवणप्राघुणकीकृता जनैः ।मदनानलबोधने भवेत्-खग ! धाय्या धिगधैर्यधारिणः ॥५६॥विषमो मलयाहिमण्डली-विषफूत्कारमयो मयोहितः ।खर्ग ! कालकलत्रदिग्-भवः पवनस्तद्विरहानलैधसा ॥५७॥प्रतिमासमसौ निशापतिःखग ! संच्छति यद्दिनाधिपम् ।किमु तीव्रतरैस्ततः करै-र्मम दाहाय स धैर्यतस्करैः ॥५८॥कुसुमानि यदि स्मरेषवोन तु वज्रं विषवल्लिजानि तत् ।हृदयं यदमूमुहन्ननूर्ममयच्चातितरामतीतपन् ॥५९॥तदिहानवधौ निमज्जतोमम कंदर्पशराधिनीरघौ ।भव पोत इवावलम्बनंविधिनाकस्मिकसृष्टसंनिधिः ॥६०॥अथवा भवतः प्रवर्तनान कथं पिष्टमियं पिनष्ट नः ।स्वत एव सतां परार्थताग्रहणानां हि यथा यथार्थता ॥६१॥तव वर्त्मनि वर्ततां शिवंपुनरस्तु त्वरितं समागमः ।अयि ! साधय साधयेप्सितंस्मरणीयाः समये वयं वयः ॥६२॥इति तं स विसृज्य धैर्यवान्-नृपतिः सूनृतवाग्बृहस्पतिः ।अविशद्वनवेश्म विस्मितःस्मृतिलग्नैः कलहंसशंसितैः ॥६३॥अथ भीमसुतावलोकनैःसफलं कर्तुमहस्तदेव सः ।क्षितिमण्डलमण्डनायितंनगरं कुण्डिनमण्डजो ययौ ॥६४॥प्रथमं पथि लोचनातिथिंपथिकप्रार्थितसिद्धिशंसिनम् ।कलसं जलसंभृतं पुरःकलहंसः कलयांबभूव सः ॥६५॥अवलम्ब्य दिदृक्षयाम्बरेक्षणमाश्चर्यरसालसं गतम् ।स विलासवनेऽवनीभृतःफलमैक्षिष्ट रसालसंगतम् ॥६६॥नभसः कलभैरुपासितंजलदैर्भूरितरक्षुपं नगरम् ।स ददर्श पतङ्गपुंगवोविटपच्छन्नतरक्षुपन्नगम् ॥६७॥स ययौ धुतपक्षतिः क्षणंक्षणमूर्ध्वायनदुर्विभावनः ।विततीकृतनिश्चलच्छदःक्षणमालोककदत्तकौतुकः ॥६८॥तनुदीधितिधारयारयाद्गतया लोकविलोकनामसौ ।छदहेम कषन्निवालसत्-कषपाषाणनिभे नभस्तले ॥६९॥विनमद्भिरधः स्थितैः खगै-र्झटिति श्येननिपातशङ्किभिः ।स निरैक्षि दृशैकयोपरिस्यदझांकारितपत्रपद्धतिः ॥७०॥ददृशे न जनेन यन्नसौभुवि तच्छायमवेक्ष्य तत्क्षणात् ।दिवि दिक्षु वितीर्णचक्षुषापृथुवेगद्रुतमुक्तदृक्पथः ॥७१॥न वनं पथि शिश्रियेऽमुनाक्वचिदप्युच्चतरद्रुचारुतम् ।न संगोत्रजमन्ववादिवा गतिवेगप्रसरद्रुचा रुतम् ॥७२॥अथ भीमभुजेन पालितानगरी मञ्जुरसौ धराजिता ।पतगस्य जगाम दृक्पथंहरशैलोपमसौधराजिता ॥७३॥दयितं प्रति यत्र संततारतिहासा इव रेजिरे भुवः ।स्फटिकोपलविग्रहागृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥७४॥नृपनीलमणीगृहत्विषाम्-उपधेर्यत्र भयेन भास्वतः ।शरणार्थमुवास वासरेऽ-प्यसदावृत्त्युदयत्तमं तमः ॥७५॥सितदीप्रमणिप्रकल्पितेयदगारे हसदङ्करोदसि ।निखिलान्निशि पूर्णिमा तिथी-नूपतस्थेऽतिथिरेकिका तिथिः ॥७६॥सुदतीजनमज्जनार्पितै-र्घुसृणैर्यत्र कषायिताशया ।न निशाखिलयापि वापिकाप्रससाद ग्रहिलेव मानिनी ॥७७॥क्षणनीरवया यया निशिश्रितवप्रावलियोगपट्टया ।मणिवेश्ममयं स्म निर्मलंकिमपि ज्योतिरबाह्यमिज्यते ॥७८॥विललास जलाशयोदरेक्वचन द्यौरनुबिम्बितेव या ।परिखाकपटस्फुटस्फुटत्-प्रतिबिम्बानवलम्बिताम्बुनि ॥७९॥व्रजते दिवि यद्गृहावली-चलचेलाञ्चलदण्डताडनाः ।व्यतरन्नरुणाय विश्रमंसृजते हेलिहयालिकालनाम् ॥८०॥क्षितिगर्भधराम्बरालयैःतलमध्योपरिपूरिणां पृथक् ।जगतां किल याखिलाद्भुता-जनि सारैर्निजचिह्नधारिभिः ॥८१॥दधदम्बुदनीलकण्ठतांवहदत्यच्छसुधोज्जलं वपुः ।कथमृच्छतु यत्र नाम नक्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥८२॥बहुरूपकशालभञ्जिका-मुखचन्द्रेषु कलङ्करङ्कवः ।यदनेककसौधकंधरा-हरिभिः कुक्षिगतीकृता इव ॥८३॥बलिसद्मदिवं स तथ्यवाग्उपरि स्माह दिवोऽपि नारदः ।अधराथ कृता ययेव साविपरीताजनि भूविभूषया ॥८४॥प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्तुसौरभैः ।कलहान्न घनाद्यदुत्थितात्अधुनाप्युज्झति घर्घरस्वरः ॥८५॥वरणः कनकस्य मानिनींदिवमङ्कादमराद्रिरागताम् ।घनरत्नकपाटपक्षतिःपरिरभ्यानुनयन्नुवास याम् ॥८६॥अनलैः परिवेषमेत्य याज्वलदर्कोपलवप्रजन्मभिः ।उदयं लयमन्तरा रवे-रवहद्बाणपुरीपरार्ध्यताम् ॥८७॥बहुकम्बुमणिर्वराटिका-गणनाटत्करकर्कटोत्करः ।हिमवालुकयाच्छवालुकःपटु दध्वान यदापणार्णवः ॥८८॥यदगारघटाट्टकुट्टिम-स्रवदिन्दूपलतुन्दिलापया ।मुमुचे न पतिव्रतौचितीप्रतिचन्द्रोदयमभ्रगङ्ग्या ॥८९॥रुचयोऽस्तमितस्य भास्वतःस्खलिता यत्र निरालयाः किल ।अनुसायमभुर्विलेपना-पणकश्मीरजपण्यवीथयः ॥९०॥विततं वणिजापणेऽखिलंपणितुं यत्र जनेन वीक्ष्यते ।मुनिनेव मृकण्डुसूनुनाजगतीवस्तु पुरोदरे हरेः ॥९१॥सममेणमदैर्यदापणेतुलयन्सौरभलोभनिश्चलम् ।पणिता न जनारवैरवैत्अपि गुञ्जन्तमलिं मलीमसम् ॥९२॥रविकान्तमयेन सेतुनासकलाहं ज्वलनाहितोष्मणा ।शिशिरे निशि गच्छतां पुराचरणौ यत्र दुनोति नो हिमम् ॥९३॥विधुदीधितिजेन यत्पथंपयसा नैषधशीलशीतलम् ।शशिकान्तमयं तपागमेकलितीव्रस्तपति स्म नातपः ॥९४॥परिखावलयच्छलेन यान परेषां ग्रहणस्य गोचरः ।फणिभाषितभाष्यफक्किका-विषमा कुण्डलनामवापिता ॥९५॥मुखपाणिपदाक्ष्णि पङ्कजैरचिताङ्गेष्वपरेषु चम्पकैः ।स्वयमादित यत्र भामजास्मरपूजाकुसुमस्रजः श्रियम् ॥९६॥जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः ।ध्रुवमप्सरसोऽवतीर्य यांशतमध्यासत तत्सखीजनः ॥९७॥स्थितिशालिसमस्तवर्णतांन कथं चित्रमयी बिभर्तु या ।स्वरभेदमुपैतु या कथंकलितानल्पमुखारवा न वा ॥९८॥स्वरुचारुणया पताकयादिनमर्केण समीयुषोत्तृषः ।लिलिहुर्बहुधा सुधाकरंनिशि माणिक्यमया यदालयाः ॥९९॥लिलिहे स्वरुचा पताकयानिशि जिह्वानिभया सुधाकरम् ।श्रितमर्ककरैः पिपासुयन्नृपसद्मामलपद्मरागजम् ॥१००॥अमृतद्युतिलक्ष्म पीतयामिलितं यद्वलभीपताकया ।वलयायितशेषशायिनःसखितामादित पीतवाससः ॥१०१॥अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवा-जिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनीयत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥१०२॥यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥१०३॥स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकंपाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।साक्षादप्सरसो विमानकलितव्योमान एवाभव-द्यन्न प्राय निमेषमभ्रतरसा यान्ती रसादध्वनि ॥१०४॥वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भै-र्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रै-र्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जृम्भते स्म ॥१०५॥विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैःशशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ।विफलितजलसेकप्रक्रियागौरवेणव्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥१०६॥अथ कनकपतत्रस्तव तां राजपुत्रींसदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।उडुपरिषदि मध्यस्थायिशीतांशुलेखा-नुकरणपटुलक्ष्मीमक्षिलक्षीचकार ॥१०७॥भ्रमणरयविकीर्णस्वर्णभासा खगेनक्वचन पतनयोग्यं देशमन्विष्यताधः ।मुखविधुमदसीयं सेवितुं लम्बमानःशशिपरिधिरिवोर्ध्वं मण्डलस्तेन तेने ॥१०८॥अनुभवति शचीत्थं सा घृताचीमुखाभि-र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।इति मतिरुदयासीत् पक्षिणः प्रेक्ष्य भैमींविपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥१०९॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।द्वैतीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥११०॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP