संस्कृत सूची|संस्कृत स्तोत्र साहित्य|नैषधीयचरितम्| चतुर्थ सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - चतुर्थ सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत चतुर्थ सर्गः Translation - भाषांतर अथ नलस्य गुणं गुणमात्मभूःसुरभि तस्य यशः कुसुमं धनुः ।श्रुतिपथोपगतं सुमनस्तयातमिषुमाशु विधाय जिगाय ताम् ॥१॥यदतनुज्वरभाक्तनुते स्मसा प्रियकथासरसीरसमज्जनम् ।सपदि तस्य चिरान्तरतापिनीपरिणतिर्विषमा समपद्यत ॥२॥ध्रुवमधीतवंतीयमधीरतांदयितदूतपतद्गतवेगतः ।स्थितिविरोधकरीं द्व्यणुकोदरीतदुदितः स हि यो यदनन्तरः ॥३॥अतितमां समपादि जडाशयंस्मितलवस्मरणेऽपि तदाननम् ।अजनि पङ्गुरपाङ्गनिजाङ्गण-भ्रमिकणेऽपि तदीक्षणखञ्जनः ॥४॥किमु तदन्तरुभौ भिषजौ दिवःस्मरनलौ विशतः स्म विगाहितुम् ।तदभिकेन चिकित्सितुमाशु तांमखभुजामधिपेन नियोजितौ ॥५॥कुसुमचापजतापसमाकुंकमलकोमलमैक्ष्यत तन्मुखम् ।अहरहर्वहदभ्यधिकाधिकांरविरुचिग्लपितस्य विधोर्विधाम् ॥६॥तरुणतातरणिद्युतिनिर्मित-द्रढिम तत्कुचकुम्भयुगं तदा ।अनलसंगतितापमुपैतु नोकुसुमचापकुलालविलासजम् ॥७॥अधृत यद्विरहोष्मणि भज्जितंमनसिजेन तदूरुयुगं तदा ।स्पृशति तत्कदनं कदलीतरुःयदि मरूज्वलदूषरदूषितः ॥८॥स्मरशराहतिनिर्मितसंज्वरंकरयुगं हसति स्म दमस्वसुः ।अनपिधानपतत्तपनातपंतपनिपीतसरः सरसीरुहम् ॥९॥मदनतापभरेण विदीर्य नोयदुदपाति हृदा दमनस्वसुः ।निबिडपीनकुचद्वययन्त्रणातभपराधमधात्प्रतिबध्नती ॥१०॥निविशते यदि शूकशिखा पदेसृजति सा कियतीमिव न व्यथाम् ।मृदुनोर्वितनोतु कथं न ताम्-अवनिभृत्तु निविश्य हृदि स्थितः ॥११॥मनसि सन्तमिव प्रियमीक्षितुंनयनयोः स्पृहयान्तरुपेतयोः ।ग्रहणशक्तिरभूदिदमीययोःअपि न संमुखवास्तुनि वस्तुनि ॥१२॥हृदि दमस्वसुरश्रुझरप्लुतेप्रतिफलद्विरहात्तमुखानतेः ।हृदयभाजमराजत चुम्बितुंनलमुपेत्य किलागमि तन्मुखम् ॥१३॥सुहृदमग्निमुदञ्चयितुं स्मरंमनसि गन्धवहेन मृगीदृशः ।अकलि निःश्वसितेन विनिर्गमा-नुमितनिह्नुतवेशनमायिता ॥१४॥विरहपाण्डिमरागतमोमषी-शितिमतन्निजपीतिमवर्णकैः ।दश दिशः खलु तद्दृगकल्पयल्-लिपिकरी नलरूपकचित्रिताः ॥१५॥स्मरकृतां हृदयस्य मुहुर्दशां बहुवदन्निव निःश्वसितानिलः ।व्यधित वाससि कम्पमदः श्रितेत्रसति कः सति नाश्रयबाधने ॥१६॥करपदाननलोचननामभिःशदतलैः सुतनोर्विरहज्वरे ।रविमहो बहुपीतचरं चिराद्अनिशतापमिषादुदसृज्यत ॥१७॥उदयति स्म तदद्भुतमालिभिःधरणिभृद्भुवि तत्र विमृश्य यत् ।अनुमितोऽपि च बाष्पनिरीक्षणाद्द्व्यविभिचचार न तापकरो नलः ॥१८॥हृदि विदर्भभुवः प्रहरञ्शरैरतिपतिर्निषधाधिपतेः कृते ।कृततदन्तरगस्वदृढव्यधैःफलदनीतिरमूर्च्छदलं खलु ॥१९॥विधुरमानि तया यदि भानुमान्कथमहो स तु तद्धृदयं तथा ।अपि वियोगभरास्फुटनस्फुटी-कृतदृषत्त्वमजिज्वलदंशुभिः ॥२०॥हृदयदत्तसरोरुहया तयाक्व सदृगस्तु वियोगनिमग्नया ।प्रियधनुः परिरभ्य हृदा रत्तिःकिमनुमर्तुमशेत चितार्चिषि ॥२१॥अनलभावमियं स्वनिवासिनोन विरहस्य रहस्यमबुध्यत ।प्रशमनाय विधाय तृणान्यसू-ञ्ज्वलति तत्र यदुज्झितुमैहत ॥२२॥प्रकृतिरेतु गुणः स न योषितांकथमिमां हृदयं मृदु नाम यत् ।तदिषुभिः कुसुमैरपि दुन्वतासुविवृतं विबुधेन मनोभुवा ॥२३॥रिपुतरा भवनादविनिर्यतींविधुरुचिर्गृहजालबिलैर्नु ताम् ।इतरथात्मनिवारणशङ्कयाज्वरयितुं विशवेशधराविशत् ॥२४॥हृदि विदर्भभुवोऽश्रुभृति स्फुटंविनमदास्यतया प्रतिबिम्बितम् ।मुखदृगोष्ठमरोपि मनोभुवातदुपमाकुसुमान्यखिलाः शराः ॥२५॥विरहपाण्डुकपोलतले विधुःव्यधित भीमभुवः प्रतिबिम्बितः ।अनुपलक्ष्यसितांशुतया मुखंनिजसखं सुखमङ्कमृगार्पणात् ॥२६॥विरहतापिनि चन्दनपांशुभिःवपुषि सार्पितपाण्डिममण्डना ।विषधराभबिसाभरणा दधेरतिपतिं प्रति शंभुविभीषिकाम् ॥२७॥विनिहितं परितापिनि चन्दनंहृदि तया धृतबुद्बुदमाबभौ ।उपनमन्सुहृदं हृदयेशयंविधुरिवाङ्कगतोडुपरिग्रहः ॥२८॥स्मरहुताशनदीपितया तयाबहु मुहुः सरसं सरसीरुहम् ।श्रयितुमर्धपथे कृतमन्तराश्वसितनिर्मितमर्मरमुज्झितम् ॥२९॥प्रियकरग्रहमेवमवाप्स्यतिस्ननयुगं तव ताम्यति किं न्विति ।जगदतुर्निहिते हृदि नीरजेदवथुकुङ्मलेन पृथुस्तनीम् ॥३०॥त्वदितरो न हृदापि मया धृतःपतिरितीव नलं हृदयेशयम् ।स्मरहविर्भुजि बोधयति स्म साविरहपाण्डुतया निजशुद्धताम् ॥३१॥विरहतप्ततदङ्गनिवेशिताकमलिनी निमिषद्दलमुष्टिभिः ।किमपनेतुमचेष्टत किं परा-भवितुमैहत तद्दवथुं पृथुम् ॥३२॥इयमनङ्गशरावलिपन्नग-क्षतविसारिवियोगविषावशा ।शशिकलेव खरांशुकरार्दिताकरुणनीरनिधौ निदधौ न कम् ॥३३॥ज्वलति मन्मथवेदनया निजेहृदि तयार्द्रमृणाललतार्पिता ।स्वजयिनोस्त्रपया सविधस्थयोःमलिनतामभजद्भुजयोर्भृशम् ॥३४॥पिकलतेश्रुतिकम्पिनि शैवलंहृदि तया निहितं विचलद्बभौ ।सतततद्गतहृच्छयकेतुनाहृतमिव स्वतनूघनघर्षिणा ॥३५॥न खलु मोहवशेन तदाननंनलमनः शशिकान्तमबोधि तत् ।इतरथा राशिनोऽभ्युदये ततःकथमसुस्रुवदस्रुमयं पयः ॥३६॥रतिपतेर्विजयास्त्रमिषुर्यथाजयति भीमसुतापि तथैव सा ।स्वविशिखानिव पञ्चतया ततोनियतमैहत योजयितुं स ताम् ॥३७॥शशिमयं दहनास्त्रमुदित्वरंमनसिजस्य विमृश्य वियोगिनी ।झटिति वारुणमश्रुमिषादसौतदुचितं प्रतिशस्त्रमुपाददे ॥३८॥अतनुना नवमम्बुदमाम्बुदंसुतनुरस्त्रमुदस्तमवेक्ष्य सा ।उचितमायतनिःश्वसितच्छला-च्छ्सनशस्त्रममुञ्चदमुं प्रति ॥३९॥रतिपतिग्रहितानिलहेतितांप्रतियती सुदती मलयानिले ।तदुरुतापभयात्तमृणालिका-मयमियं भुजगास्त्रमिवादित ॥४०॥न्यधित तद्धृदि शल्यमिव द्वयंविरहितां च तथापि च जीवितम् ।किमथ तत्र निहत्य निखातवा-व्रतिपतिः स्तनबिल्वयुगेन तत् ॥४१॥अतिशरव्ययता मदनेन तांनिखिलपुष्पमयस्वरशरव्ययात् ।स्फुटमकारि फलान्यपि मुञ्चतातदुरसि स्तनतालयुगार्पणम् ॥४२॥अथ मुहुर्बहुनिन्दितचन्द्रयास्तुतविधुंतुदया च तया मुहुः ।पतितया स्मरतापमये गदेनिजगदेऽश्रुविमिश्रमुखी सखी ॥४३॥नरसुराब्जभुवामिव यावताभवति यस्य युगं यदनेहसा ।विरहिणामपि तद्गतवद्युव-क्षणमितं न कथं गणितागमे ॥४४॥जनुधत्त सती स्मरतापिताहिमवतो न तु तन्महिमादृता ।ज्वलति भालतले लिखितः सती-विरह एव हरस्य न लोचनम् ॥४५॥दहनजा न पृथुर्दवथुव्यथाविरहजैव पृथुर्यदि नेदृशम् ।दहनमाशु विशन्ति कथं स्त्रियःप्रियमपासुमुपासितुमुद्धुराः ॥४६॥हृदि लुठन्ति कला नितराममू-र्विरहिणीवधपङ्ककलङ्किताः ।कुमुदसख्यकृतस्तु बहिष्कृताःसखि ! विलोकय दुर्विनयं विधोः ॥४७॥अयि ! विधुं परिपृच्छ गुरोःकुतः स्फुटमशिक्ष्यत दाहवदान्यता ।ग्लपितशंभुगलाद्गरलात्त्वयाकिमुदधौ जड ! वा वडवानलात् ॥४८॥अयमयोगिवभूवधपातकैःभ्रमिमवाप्य दिवः खलु पात्यते ।शितिनिशादृषदि स्फुटदुत्पतत्-कणगणाधिकतारकिताम्बरः ॥४९॥त्वमभिधेहि विधुं सखि ! मद्गिराकिमिदमीदृगधिक्रियते त्वया ।न गणितं यदि जन्म पयोनिधौहरशिरःस्थितिभूरपि विस्मृता ॥५०॥निपततापि न मन्दरभूभृतात्वमुदधौ शशलाच्छन ! चूर्णितः ।अपि मुनेर्जठरार्चिषि जीर्णतांवत गतोऽसि न पीतपयोनिधेः ॥५१॥किमसुभिर्ग्लपितैर्जड ! मन्यसेमयि निमज्जतु भीमसुतामनः ।मम किल श्रुतिमाह तदर्थिकांनलमुखेन्दुपरां विबुधः स्मरः ॥५२॥मुखरय स्वयशोनवडिण्डिमंजलनिधेः कुलमुज्ज्वलयाधुना ।अपि गृहाण वधूवधपौरुषंहरिणलाञ्छन ! मुञ्च कदर्थनाम् ॥५३॥निशि शशिन् ! भज कैतवभानु-तामसति भास्वति तापय पाप ! माम् ।अहमहन्यवलोकयितास्मि तेपुनः अहर्पतिनिह्नुतदर्पताम् ॥५४॥शशकलङ्क ! भयंकर ! मादृशांज्वलसि यन्निशि भूपतिं श्रितः ।तद्भृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी ॥५५॥श्रवणपूरतमालदलाङ्कुरंशशिकुरङ्गमुखे सखि ! निक्षिप ।किमपि तुन्दिलितः स्थगयत्यमुंसपदि तेन तदुच्छसिमि क्षणम् ॥५६॥असमये मति रुन्मिषति ध्रुवंकरगतैव गता यदियं कुहूः ।पुनरुपैति निरुध्यनिवास्यतेसखि ! मुखं न विधोः पुनरीक्ष्यते ॥५७॥अयि ! ममैष चकोरशिशुर्मुनेःव्रजति सिन्धुपिबस्य न शिष्यताम् ।अशितुमब्धिमधीतवतोऽस्य चशशिकराः पिबतः कति शीकराः ॥५८॥कुरु करे गुरुमेवकमयोघनंबहिरतो मुकुरं च कुरुष्व मे ।विशति तत्र यदैव विधुस्तदासखि ! सुखादहितं जहि तं द्रुतम् ॥५९॥उदर एव धृतः किमुदन्वतान विषमो वडवानलवद्विधुः ।विषवदुज्झितमप्यमुना न सस्मरहरः किममुं बुभुजे विभुः ॥६०॥असितमेकसुराशितमप्यभून्नपुनरेष विधुर्विशदं विषम् ।अपि निपीय सुरैर्जनितक्षयंस्वयमुदेति पुनर्नवमार्णवम् ॥६१॥विरहिवर्गवधव्यसनाकुलंकलय पापमशेषकलं विधुम् ।सुरनिपीतसुधाकरपापकंग्रहविदो विपरीतकथाः कथम् ॥६२॥विरहिभिर्बहुमानमवापि यःस बहुलः खलु पक्ष इहाजनि ।तदमितिः सकलैरपि यत्र तैःव्यरचि सा च तिथिः किममाकृता ॥६३॥स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्किमु विधुं ग्रसते स विधुंतुदः ।निपतितं वदने कथमन्यथाबलिकरम्भनिभं निजमुज्झति ॥६४॥वदनगर्भगतं न निजेच्छयाशशिनमुज्झति राहुरसंशयम् ।अशित एव गलत्ययमत्ययंसखि ! विना गलनालबिलाध्वना ॥६५॥ऋजुदृशः कथयन्ति पुराविदोमधुभिदं किल राहुशिरश्छिदम् ।विरहिमूर्धमिदं निगदन्ति नक्व नु शशी यदि तज्जठरानलः ॥६६॥स्मरसखौ रुचिभिः स्मरवैरिणामखमृगस्य यथा दलितं शिरः ।सपदि संदधतुर्भिषजौ दिवःसखि ! तथा तमसोऽपि करोतु कः ॥६७॥नलविमस्तकितस्य रणे रिपोःमिलति किं न कबन्धगलेन वा ।मृतिभिया भृशमुत्पततस्तम्आग्रहशिरस्तदसृग्दृढबन्धनम् ॥६८॥सखि ! जरां परिपृच्छ तमः शिरःसममसौ दधतापि कबन्धताम् ।मगधराजवपुर्दलयुग्मवत्किम्इति न व्यतिसीव्यति केतुना ॥६९॥वद विधुंतुदमालि ! मदीरितैःत्यजसि किं द्विजराजधिया रिपुम् ।किमु दिवं पुनरेति यदीदृशःपतित एष निषेव्य हि वारुणीम् ॥७०॥दहति कण्ठमयं खलु तेन किंगरुडवद्द्विजवासनयोज्झितः ।प्रकृतिरस्य विधुंतुद ! दाहिकामयि निरागसि का वद विप्रता ॥७१॥सकलया कलया किल दंष्ट्रयासमवधाय यमाय विनिर्मितः ।विरहिणीगणचर्वणसाधनंविधुरतो द्विजराज इति श्रुतिः ॥७२॥स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं चकृषे विधिना विधुः ।बहुविधेन वियोगिवधैनसाशशमिषादथ कालिकयाङ्कितः ॥७३॥(द्विजपतिग्रसनाहितपातकप्रभवकुष्ठसितीकृतविग्रहः ।विरहिणीवदनेन्दुजिघत्सयास्फुरति राहुरयं न निशाकरः ॥१॥)इति विधोर्विविधोक्तिवगर्हणंव्यवहितस्य वृथेति विमृश्य सा ।अतितरां दधती विरहज्वरंहृदयभाजमुपालभत स्मरम् ॥७४॥हृदयमाश्रयसे यदि ममाकंज्वलयसीत्थमनङ्ग ! तदेव किम् ।स्वयमपि क्षणदग्धनिजेन्धनः क्वभवितासि हतारा ! हुताशवत् ॥७५॥पुरभिदा गमितस्त्वमदृश्यतांत्रिनयनत्वपरिप्लुतिशङ्कया ।स्मर ! निरैष्यत कस्यचनापि नत्वयि किमक्षिगते नयनैस्त्रिभिः ॥७६॥सहचरोऽसि रतेरिति विश्रुतिःत्वयि वसत्यपि मे न रतिः कुतः ।अथ न संप्रति संगतिरस्ति वा-मनुमृता न भवन्तमियं किल ॥७७॥रतिवियुक्तमनात्मपरज्ञ ! किंस्वमिव मामपि तापितवानसि ।कथमतापभृतस्तव संगमा-दितरथा हृदयं मम दह्यते ॥७८॥अनुममार न मार ! कथं नु सारतिरतिप्रथितापि पतिव्रता ।इयदनाथवधूवधपातकीदयितयापि तयासि किमुज्झितः ॥७९॥सुगत एव विजित्य जितेन्द्रियःत्वदुरुकीर्तितनुं यदनाशयत् ।तव तनूमवशिष्टवतीं ततःसमिति भूतमयीमहरद्धरः ॥८०॥फलमलभ्यत यत्कुसुमैस्त्वयाविषमनेत्रमनङ्ग ! विगृह्णता ।अहद नीतिरवाप्तभया ततोन कुसुमैरपि विग्रहमिच्छति ॥८१॥अपि धयन्नितरामरवत्सुधांत्रिनयनात्कथमापिथ तां दशाम् ।भण रतेरधरस्य रसादरात्अमृतमाप्तघृणः खलु नापिबः ॥८२॥भुवनमोहनजेन किमेनसातव बभूव परेत ! पिशाचता ।यदधुना विरहाधमलीमसाम्अभिभवन्भ्रमसि स्मर ! मद्विधाम् ॥८३॥बत ददासि न मृत्युमपि स्मर !स्खलति तेऽकृपया न धनुः करात् ।अथ मृतोऽसि मृतेन च मुच्यतेन खलु मुष्टि रुरीकृतबन्धनः ॥८४॥दृगुपहत्यपमृत्युविरूपताःशमयतेऽपरनिर्जरसेविता ।अतिशयान्ध्यवपुः क्षतिपाण्डुताःस्मर ! भवन्ति भवन्त्यमुपासितुः ॥८५॥स्मर ! नृशंसतमस्त्वमतो विधिःसुमनसः कृतवान्भवदायुधम् ।यदि धनुर्दृढमाशुगमायसंतव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥८६॥स्मररिपोरिव रोपशिखी पुरांदहतु ते जगतामपि मा त्रयम् ।इति विधिस्त्वदिषून्कुसुमानि किंमधुभिरन्तरसिञ्चदनिर्वृतः ॥८७॥विधिरनंशममेद्यमवेक्ष्य तेजनमनः खलु लक्षमकल्पयत् ।अपि स वज्रमदास्यत चेत्तदात्वदिषुभिर्वदलिष्यदसावपि ॥८८॥अपि विधिः कुसुमानि तवाशुगान्स्मर ! विधाय न निर्वृतिमाप्तवान् ।अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥८९॥उपहरन्ति न कस्य सुपर्वणःसुमनसः कति पञ्च सुरद्रुमाः ।तव तु हीनतया पृथगेकिकांधिगियतापि न तेऽङ्ग ! विगर्हणा ॥९०॥कुसुममप्यतिदुर्णयकारि तेकिमु वितीर्य धनुर्विधिरग्रहीत् ।किमकृतैष तवैकतदास्पदेद्वयमभूदधुना हि नलभ्रुवौ ॥९१॥षड्टतवः कृपया स्वकमेककंकुसुममक्रमनन्दितनन्दनाः ।ददति षड्भवते कुरुते भवान्धनुरिवैकमिषूनिवपञ्च तैः ॥९२॥यदतनुस्त्वमिदं जगते हितंक्व स मुनिस्तव यः सहते हतीः ।विशिखमाश्रवणं परिपूर्ण चेद्अविचलद्भुतमुज्झितुमीशिषे ॥९३॥सह तया स्मर ! भस्म झटित्यभूःपशुपतिं प्रति यामिषुमग्रहीः ।ध्रुवमभूदधुना वितनोः शरःतव पिकस्वर एव स पञ्चमः ॥९४॥स्मर ! स मद्दुरितैरफलीकृतोभगवतोऽपि भवद्दहनश्रमः ।सुरहिताय हुतात्मतनुः पुनःननु जनुर्दिवि तत्क्षणमापिथ ॥९५॥विरहिणो विमुखस्य विधूदयेशमनदिक्पवनः स न दक्षिणः ।सुमनसो नमयन्नटनौ धनुःतव तु बाहुरसौ यदि दक्षिणः ॥९६॥किमु भवन्तमुमापतिरेककंमदमुदान्धमयोगिजनान्तकम् ।यदजयत्तत एव न गीयतेस भगवान्मदनान्धकमृत्युजित् ॥९७॥त्वमिव कोऽपि परापकृतौ कृतीन ददृशे न च मन्मथ ! शुश्रुवे ।स्वमदहो दहनाज्ज्वलतात्मनाज्वलयितुं परिरभ्य जगन्ति यः ॥९८॥त्वमुचितं नयनार्चिषि शंभुनाभुवनशान्तिकहोमहविः कृतः ।तव वयस्यमपास्य मधुं मधुंहतवता हरिणा बत किं कृतम् ॥९९॥इति कियद्वचसैव भृशं प्रिया-धरपिपासु तदाननमाशु तत् ।अजनि पांशुमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥१००॥प्रियसखीनिवहेन सहाथ साव्यरचयद्गिरमर्धसमस्यया ।हृदयमर्मणि मन्मथसायकैःक्षततमा बहु भाषितुमक्षमा ॥१०१॥अकरुणादव सूनशरादसून्सहजयापदि धीरतयात्मनः ।असव एव ममाद्य विरोधिनःकथमरीन्सखि ! रक्षितुमात्थ माम् ॥१०२॥हितगिरं न शृणोषि किमाश्रवे !प्रसभमप्यव जीवितमात्मनः ।सखि ! हिता यदि मे भवसीदृशीमदरिमिच्छसि या मम जीवितम् ॥१०३॥अमृतदीधितिरेष विदर्भज !भजसि तापममुष्य किमंशुभिः ।यदि भवन्ति मृताः सखि ! चन्द्रिकाःशशमृतः क्व तदा परितप्यते ॥१०४॥व्रज धृतिं त्यज भीतिमहेतुकाम्अयमचण्डमरीचिरुदञ्चति ।ज्वलयति स्फुटमातपमुर्मुरैःअनुभवं वचसा सखि ! लुम्पसि ॥१०५॥अयि ! शपे हृदयाय तवैव तद्यदि वधोर्न रुचेरसि गोचरः ।रुचिफलं सखि ! दृश्यत एव तज्ज्वलयति त्वचमुल्ललयत्यसून् ॥१०६॥विधुविरोधितिथेरभिधायिनींननु न किं पुनरिच्छसि कोकिलाम् ।सखि ! किमर्थगवेषणया गिरंकिरति सेयमनर्थमयीं मयि ॥१०७॥हृदय एव तवास्ति स वल्लभःतदपि किं दमयन्ति ! विषीदसि ।हृदि परं न बहिः खलु वर्ततेसखि ! पयस्तत एव विषद्यते ॥१०८॥स्फुटति हारमणौ मदनोष्मणाहृदयमप्यनलंकृतमद्य ते ।सखि ! हतास्मि तदा यदि हृद्यपिप्रियतमः स मम व्यवधापितः ॥१०९॥इदमुदीर्य तदैव मुमूर्च्छ सामनसि मूर्च्छितमन्मथपावका ।क्व सहतामवलम्बलवच्छिदाम्अनुपपत्तिमतीमतिदुःखिता ॥११०॥अधित कापि मुखे सलिलं सखीप्यधित कापि सरोजदलैः स्तनौ ।व्यधित कापि हृदि व्यजनानिलंन्यधित कापि हिमं सुतनौस्तनौ ॥१११॥उपचचार चिरं मृदुशीतलैःजलजनालमृणालजलादिभिः ।प्रियसखीनिवहः स तथा क्रमाद्इयमवाप यथा लघु चेतनाम् ॥११२॥अथ कले ! कलय श्वसिति स्फुटंचलति पक्ष्म चले ! परिभावय ।अधरकम्पनमुन्नय मेनके !किमपि जल्पति कल्पलते ! श्रृणु ॥११३॥रचय चारुमति ! स्तनयोर्वृतिंकलय केशिनि ! कैश्यमसंयतम् ।अवगृहाण तरङ्गिणि ! नेत्रयोःजलझराविति शुश्रुविरे गिरः ॥११४॥कलकलः स तदालिजनाननाद्उदलसद्विपुलस्त्वरितेरितैः ।यमधिगम्य सुतालयमीयिवान्धृतदरः स विदर्भपुरंदरः ॥११५॥कन्यान्तः पुरबाधनाय यदधाकारान्न दोषा नृपंद्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः ।देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलंस्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥११६॥ताभ्यामभूद्युगपदप्यभिधीयमानंभेदव्यपाकृति मिथःप्रतिघातमेव ।श्रोत्रे तु तस्य पपतुर्नृपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥११७॥द्रुतविगमितविप्रयोगचिह्नामपितनयां नृपतिः पदप्रणम्राम् ।अकलयदसमाशुगाधिमग्नांझटिति पराशयवेदिनो हि विज्ञाः ॥११८॥व्यतरदथ पिताशिषं सुतायैनतशिरसे सहसोन्नमय्य मौलिम् ।दयितमभिमतं स्वयंवरे ! त्वं गुणम्अयमाप्नुहि वासरैः कियद्भिः ॥११९॥तदनु स तनुजासखीरवादीत्तुहिनऋतौ गत एव हीदृशीनाम् ।कुसुममपि शरायते शरीरे तद्उचितमाचरतोपचारमस्याः ॥१२०॥कतिपयदिवसैर्वयस्यया वःस्वयमभिलष्य वरिष्यते वरीयान् ।क्रशिमशमनयानया तदाप्तुं रुचि-रुचिताथ भवद्विधाविधाभिः ॥१२१॥एवं यद्वदता नृपेण तनया नापृच्छि लज्जास्पदंयन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः ।पच्चाशीः कपटादवादि सदृशी स्यात्तत्र या सान्त्वनातन्मत्यालिजनो मनोब्धिमतनोदानन्दमन्दाक्षयोः ॥१२२॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुबे जितेन्द्रियचयं मामल्लदेवी च यम् ।तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महा-काव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥१२३॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP