संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| एकादश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - एकादश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत एकादश सर्गः Translation - भाषांतर लाभाय चेतसि धृतस्य वरस्य भीम-भूमीन्द्रजा तदनु राजसभां बभाज ॥१॥तन्निर्मलावयवभित्तिषु तद्विभूषा-रत्नेषु च प्रतिफलन्निजदेहदम्भात् ।दृष्ट्या परं न हृदयेन न केवलं तैःसर्वात्मनैव सुतनौ युवभिर्ममज्जे ॥२॥द्यामन्तरा वसुमतीमपि गाधिजन्मायद्यन्यमेव निरमास्यत नाकलोकम् ।चारुः स यादृगभविष्यदभूद्विमानै-स्तादृक्तदभ्रमवलोकितुमागतानाम् ॥३॥कुर्वद्भिरात्मभवसौरभसंप्रदानंभूपालचक्रचलचामरमारुतौघम् ।आलोकनाय दिवि संचरतां सुराणांतत्रार्चनाविधिरभूदधिवासधूपैः ॥४॥तत्रावनीन्द्रचयचन्दनचन्द्रलेप-नेपथ्यगन्धवहगन्धवहप्रवाहम् ।आलीभिरापतदनङ्गशरानुसारीसंरुध्य सौरभमगाहत भृङ्गवर्गः ॥५॥उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गी-सर्वानुवादविधिबोधितसाधुमेधाः ।सौधस्रजः प्लुतपताकतयाभिनिन्युःमन्ये जनेषु निजताण्डवपण्डितत्वम् ॥६॥संभाषणं भगवती सदृशं विधायवाग्देवता विनयवन्धुरकंधरायाः ।ऊचे चतुर्दशजगज्जनतानमस्यातन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥७॥अभ्यागमन्मुखभुजामिह कोटिरेषायेषां पृथक्कथनमब्दशतातिपाति ।अस्यां वृणीष्व मनसा परिभाव्य कंचि-द्यं चित्तवृत्तिरनुधावति तावकीना ॥८॥एषां त्वदीक्षणरसादनिमेषतैषास्वाभाविकानिमिषतामिलिता यथाभूत् ।आस्ये तथैव तव नन्वधरोपभोगैःमुग्धे विधावमृतपानमपि द्विधाष्तु ॥९॥एषां गिरेः सकलरत्नफलस्तरुः सप्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः ।मुक्ताफलं फलनसान्वयनाम तन्व-न्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥१०॥वक्त्रेन्दुसंनिधिनिमीलदलारविन्द-द्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ ।कृत्वापराधभयचञ्चलमीक्षमाणासान्यत्र गन्तुममरैः कृपयान्वमानि ॥११॥तत्तद्विरागमुदितं शिबिकाधरस्थाःसाक्षाद्विदुः स्म न मनागपि यानधुर्याः ।आसन्ननायकविषण्णमुखानुमेय-भैमीविरक्तचरितानुमया तु जज्ञुः ॥१२॥रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तोविद्याधरेष्वधरतां वपुषैव भैम्याः ।गन्धर्वसंसदि न गन्धमपि स्वरस्यतस्या विमृश्य विमुखोऽजनि यानवर्गः ॥१३॥दीनेषु सत्स्वपि कृताफलवित्तरक्षैःयक्षैरदर्शि न मुखं त्रपयैव भैम्याम् ।ते जानते स्म सुरशाखिपतिव्रतां किंतां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥१४॥जन्यास्ततः फणभृतामधिपः सुरौघान्माञ्जिष्थमञ्जिमवगाहिपदोष्ठलक्ष्मीम् ।तां मानसं निखिलवारिचयान्नवीनाहंसावलीमिव घना गमयांबभूवुः ॥१५॥यस्या विभोरखिलवाङ्मयविस्तरोऽयम्आख्यायते परिणतिर्मुनिभिः पुनः सा ।उद्गत्वरामृतकरार्धपरार्ध्यभालांबालामभाषत सभासततप्रगल्भा ॥१६॥आश्लेषलग्नगिरिजाकुचकुङ्कुमेनयः पट्टसूत्रपरिरम्भणशोणशोभः ।यज्ञोपवीतपदवीं भजते स शंभोःसेवासु वासुकिरयं प्रसितः सितश्रीः ॥१७॥पाणौ फणी भजति कङ्कणभूयमैशेसोऽयं मनोहरमणीरमणीयमुच्चैः ।कोटीरबन्धनधनुर्गुणयोगपट्ट-व्यापारपारगममुं भज भूतभर्तुः ॥१८॥धृत्वैकया रसनयामृतमीश्वरेन्दो-रप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।आस्वादयन्युगपदेष परं विशेषंनिर्णेतुमेतदुभयस्य यदि क्षमः स्यात् ॥१९॥आशीविषेण रदनच्छददंशदानम्एतेन ते पुनरनर्थतया न गण्यम् ।बाधां विधातुमधरे हि न तावकीनेपीयूषसारधटिते घटतेऽस्य शक्तिः ॥२०॥तद्विस्फुरत्फणविलोकनभूतभीतेःकम्पं च वीक्ष्य पुलकं च ततोनु तस्याः ।संजातसात्विकविकारधियः स्वभृत्यान्नृत्यान्न्यषेधदुरगाधिपतिर्विलक्षाः ॥२१॥तद्दर्शिभिः स्ववरणे फणिभिर्निराशैःनिश्वस्य तत्किमपि सृष्टमनात्मनीनम् ।यत्तान्प्रयातुमनसोऽपि विमानवाहाहा हा प्रतीपपवनाशकुनान्न जग्मुः ॥२२॥ह्रीसंकुचत्फणगणादुरगप्रधानात्तां राजसङ्घमनयन्त विमानवाहाः ।संध्यानमद्दलकुलात्कमलाद्विनीयकह्लारमिन्दुकिरणा इव हासभासम् ॥२३॥देव्याभ्यधायि भव भीरु धृतावधानाभूमीभुजो भजत भीमभुवो निरीक्षाम् ।आलोकितामपि पुनः पिबतां दृशैनाम्इच्छा विगच्छति न वत्सरकोटिभिर्वा ॥२४॥लोकेशकेशवशिवानपि यश्चकारशृङ्गारसान्तरभृशान्तरशान्तभावान् ।पञ्चेन्द्रियाणि जगतामिषुपञ्चकेनसंक्षोभयन्वितनुतां वितनुर्मदं वः ॥२५॥पुष्पेषुणा ध्रुवममूनिषुवर्षजप्ति-हुंकारमन्त्रबलभस्मितशान्तशक्तीन् ।शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वंद्वीपाधिपान्नयनयोर्नय गोचरत्वम् ॥२६॥स्वादूदके जलनिधौ सवनेन सार्धंभव्या भवन्तु तव वारिविहारलीलाः ।द्वीपस्य तं पतिममुं भज पुष्करस्यनिस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥२७॥सावर्तभावभवदद्भुतनाभिकूपेस्वर्भौममेतदुपवर्तनमात्मनैव ।स्वाराज्यमर्जयसि न श्रियमेतदीयाम्एतद्गृहे परिगृहाण शचीविलासम् ॥२८॥देवः स्वयं वसति तत्र किल स्वयंभूःन्यग्रोधमण्डलतले हिमशीतले यः ।स वां विलोक्य निजशिल्पमनन्यकल्पंसर्वेषु कारुषु करोतु करेण दर्पम् ॥२९॥न्यग्रोधनादिव दिवः पतदातपादेःन्यग्रोधमात्मभरधारमिवावरोहैः ।तं तस्य पाकिफलनीलदलद्युतिभ्यांद्वीपस्य पश्य शिखिपत्त्रजमातपत्रम् ॥३०॥न श्वेततां चरतु वा भुवनेषु राज-हंसस्य न प्रियतमा कथमस्य किर्तिः ।चित्रं तु यद्विशदिमाद्वयमाविशन्तीक्षीरं च नाम्बु च मिथः पृथगातनोति ॥३१॥शूरेऽपि सूरिपरिषत्प्रथमाऋचितेऽपिशृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।तस्मिन्नवद्यमियमाप तदेव नामयत्कोमलं न किल तस्य नलेति नाम ॥३२॥भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषालिङ्गं चकार तदनादरणस्य विज्ञा ।राज्ञोऽपि तस्य तदलाभजतापवह्निःचिह्नीबभूव मलिनच्छविभूमधूमः ॥३३॥राजान्तराभिमुखमिन्दुमुखीमथैनांजन्या जनीं हृदयवेदितयैव निन्युः ।अन्यानपेक्षितविधौ न खलु प्रधान-वाचां भवत्यवसरः सति भव्यभृत्ये ॥३४॥ऊचे पुनर्भगवती नृपमन्यमस्यैनिर्दिश्य दृश्यतमतावमताश्विनेयम् ।आलोक्यतामयमये कुलशीलशालीशालीनतानतमुदस्य निजास्यबिम्बम् ॥३५॥एतत्पुरःपठदपश्रमबन्दिवृन्द-वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।उत्पत्तुमस्ति पदमेव न मत्पदानाम्अर्थोऽपि नाऋथपुनरुक्तिषु पातुकानाम् ॥३६॥नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्या ।एतद्भुजाबिरुदबन्दिजयानयापिकिं रागि राजनि गिराजनि नान्तरं ते ॥३७॥शाकः शुकच्छदसमच्छविपत्त्रमाल-भारी हरिष्यति तरुस्तव तत्र चित्तम् ।यत्पल्लवौघपरिरम्भविजृम्भितेनख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥३८॥स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मायन्मारुतः कमपि संमदमादधाति ।कौतूहलं तदनुभूय विधेहि भूयःश्रद्धां पराशरपुराणकथान्तरेऽपि ॥३९॥क्षीरार्णवस्तवकटाक्षरुचिच्छटानाम्अन्वेतु तत्र विकटायितमायताक्षि ।वेलावनीवनततिप्रतिबिम्बचुम्बी-किर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥४०॥कल्लोलजालचलनोपनतेन पीवाजीवातुनानवरतेन पयोरसेन ।अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिःअध्यास्यते मधुभिदा भुजगाधिराजः ॥४१॥त्वद्रूपसंपदवलोकनजातशङ्कापादाब्जयोरिह कराङ्गुलिलालनेन ।भूयाच्चिराय कमला कलितावधानानिद्रानुबन्धमनुरोधयितुं धवस्य ॥४२॥बालातपैः कृतकगैरिकतां कृतां द्विःतत्रोदयाचलशिलाः परिशीलयन्तु ।त्वद्विभ्रमभ्रमणजश्रमवारिधारि-पादाङ्गुलीगलितया नखलाक्षयापि ॥४३॥नॄणां करम्बितमुदामुदयन्मृगाङ्क-शङ्कां सृजत्वनघजङ्घि परिभ्रमन्त्याः ।तत्रोदयाद्रिशिखरे तव दृश्यमास्यंकश्मीरसंभवसमारचनाभिरामम् ॥४४॥एतेन ते विरहपावकमेत्य तावत्कामं स्वनाम कलितान्वयमन्वभावि ।अङ्गीकरोषि यदि तत्तव नन्दनाद्यैःलब्धान्वयं स्वमपि नन्वयमातनोतु ॥४५॥लक्ष्मीलतासमवलम्बभुजद्रुमेऽपिवाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।सामुत्र दूषणमजीगणदेकमेवनाऋथी बभूव मघवा यदमुष्य देवः ॥४६॥लक्ष्मीविलासवसतेः सुमनःसु मुख्यात्अस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् ।स्थानान्तरं तदनु निन्युरिमां विमान-वाहाः पुनः सुरभितामिव गन्धवाहाः ॥४७॥भूयस्ततो निखिलवाङ्मयदेवता साहेमोपमेयतनुभा समभाषतैनाम् ।एतं स्वबाहुबहुवारनिवारितारिंचित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ॥४८॥द्वीपस्य पश्य दयितं द्युतिमन्तमेतंक्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।यन्मण्डले स परिमण्डलसंनिवेशःपाण्डुश्चकास्ति दधिमण्डपयोधिपूरः ॥४९॥तत्राद्रिरस्ति भवदङ्घ्रिविहारयाचीक्रौञ्चः स्फुरिष्यति गुणानिव यस्त्वदीयान् ।हंसावली कलकलप्रतिनादवाग्भिःस्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥५०॥वैदर्भि दर्भदलपूजनयापि यस्यगर्भे जनः पुनरुदेति न जातु मातुः ।तस्यार्चनां रचय तत्र मृगाङ्कमौलेःतन्मात्रदैवतजनाभिजनः स देशः ॥५१॥चूडाग्रचुम्बिमिहिरोदयशैलशीलःतेनाः स्तनंधयसुधाकरशेखरस्य ।तस्मिन्सुवर्णरसभूषणरम्यहर्म्य-भूभृद्धटा घटय हेमघटावतंसाः ॥५२॥तस्मिन्मलिम्लुच इव स्मरकेलिजन्म-घर्मोदबिन्दुमययौक्तिकमण्डनं ते ।जालैर्मिलन्दधिमहोदधिपूरलोल-कल्लोलचामरमरुत्तरुणि छिनत्तु ॥५३॥एतद्यशो नवनवं खलु हंसवेषंवेशन्तसंतरणदूरगमक्रमेण ।अभ्यासमर्जयति संतरितुं समुद्रान्गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥५४॥तस्मिन्गुणैरपि भृते गणनादरिद्रैःतन्वी न सा हृदयबन्धमवाप भूपे ।दैवे निरुन्धति निबन्धनतां वहन्तिहन्त प्रयासपरुषाणि न पौरुषाणि ॥५५॥ते निन्यिरे नृपतिमन्यमिमाममुष्माद्अंसावतंसशिबिकांशभृतः पुमांसः ।रत्नाकरादिव तुषारमयूखलेखांलेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥५६॥एकैकमद्भुतगुणं धुतदूषणं चहित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।एनां जगाद जगदञ्चितपादपद्मापद्मामिवाच्युतभुजान्तरविच्युतां सा ॥५७॥ईशः कुशेशयसनाभिशये कुशेनद्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।ज्योतिष्मता सममनेन वनीघनासुतत्त्वं विनोदय घृतोदतटीषु चेतः ॥५८॥वातोर्मिदोलनचलद्दलमण्डलाग्र-भिन्नाभ्रमण्डलगलज्जलजातसेकः ।स्तम्बः कुशस्य भविताम्बरचुम्बिचूडःचित्राय तत्र तव नेत्रनिपीयमानः ॥५९॥पाथोधिमाथसमयोत्थितसिन्धुपुत्री-पत्पङ्कजार्पणपवित्रशिलासु तत्र ।पत्या सहावह विहारमयैर्विलासैःआनन्दमिन्दुमुखि मन्दरकन्दरासु ॥६०॥आरोहणाय तव सज्ज इवास्ति तत्रसोपानशोभिवपुरश्मवलिच्छटाभिः ।भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-क्षुब्धाचलः कनककेतकगोत्रगात्रि ॥६१॥मन्था नगः स भुजगप्रभुवेष्टघृष्टि-लेखावलद्धवलनिर्झरवारिधारः ।त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेष-शेषाङ्गवेष्टिततनुभ्रममातनोतु ॥६२॥एतेन ते स्तनयुगेन सुरेभकुम्भौपाणिद्वयेन दिविषह्रुमपल्लवानि ।आस्येन स स्मरतु नीरधिमन्थनोत्थंस्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥६३॥वेदैर्वचोभिरखिलैः कृतकीर्तिरत्नेहेतुं विनैव धृतनित्यपरार्थयत्ने ।मीमांसयेव भगवत्यमृतांशुमौलौतस्मिन्महीभुजि तयानुमतिर्न भेजे ॥६४॥तस्मादिमां नरपतेरपनीय तन्वींराजन्यमन्यमथ जन्यजनः स निन्ये ।स्त्रीभावधावितपदामविमृश्य याच्ञाम्अर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥६५॥देवी पवित्रितचतुर्भुजवामभागावागालपत्पुनरिमां गरिमाभिरामाम् ।अस्यारिनिष्कृपकृपाणसनाथपाणेःपाणिग्रहादनुगृहाण गणं गुणानाम् ॥६६॥द्वीपस्य शाल्मल इति प्रथितस्य नाथःपाथोधिना वलयितस्य सुराम्बुनायम् ।अस्मिन्वपुष्मति न विस्मयसे गुणाब्धौरक्ता तिलप्रसवनासिकि नासि किं वा ॥६७॥विप्रे धयत्युदधिमेकतमं त्रसत्सुयस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।तस्मिन्ननेन च निजालिजनेन च त्वंसार्धं विधेहि मधुरा मधुपानकेलीः ॥६८॥द्रोणः स तत्र वितरिष्यति भाग्यलभ्य-सौभाग्यकाऋमणमयीमुपदां गिरिस्ते ।तद्द्वीपदीप इव दीप्तिभिरौषधीनांचूडामिलज्जलदकज्जलदर्शनीयः ॥६९॥तद्वीपलक्ष्मपृथुशाल्मलितूलजालैःक्षोणीतले मृदुनि मारुतचारुकीर्णैः ।लीलाविहारसमये चरणार्पणानियोग्यानि ते सरससारसकोशमृद्वि ॥७०॥एतद्गुणश्रवणकालविजृम्भमाण-तल्लोचनाञ्चलनिकोचनसूचितस्य ।भावस्य चक्ररुचितं शिबिकाभृतस्तेतामेकतः क्षितिपतेरपरं नयन्तः ॥७१॥तां भारती पुनरभाषत नन्वमुष्मिन्काश्मीरपङ्कनिभलग्नजनानुरागे ।श्रीखण्डलेपमयदिग्जयकीर्तिराजि-राजद्भुजे भज महीभुजि भैमि भावम् ॥७२॥द्वीपं द्विपाधिपति मन्दपदे प्रशास्तिप्लक्षोपलक्षितमयं क्षितिपस्तदस्य ।मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्यासाक्षाद्यथैव कमला यमलार्जुनारेः ॥७३॥प्लक्षे महीयसि महीवलयातपत्रेतत्रेक्षिते खलु तवापि मतिर्भवित्री ।खेलां विधातुमधिशाखविलम्बिदोला-लोलाखिलाङ्गजनताजनितानुरागे ॥७४॥पीत्वा तवाधरसुधां वसुधासुधांशुःन श्रद्दधातु रसमिक्षुरसोदवाराम् ।द्वीपस्य तस्य दधतां परिवेषवेषंसोऽयं चमत्कृतचकोरचलाचलाक्षि ॥७५॥सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्नाश्नाति यस्तदितरत्रिदशानभिज्ञः ।तस्यैन्दवस्य भवदास्यनिरीक्षयैवदर्शे श्नतोऽपि न भवत्यवकीर्णिभावः ॥७६॥उत्सर्पिणी न किल तस्य तरिङ्गिणीया त्वन्नेत्रयोरहह तत्र विपाशि जाता ।नीराजनाय नवनीरजराजिरास्ताम्अत्राञ्जसानुरज राजनि राजमाने ॥७७॥एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसादुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।क्षीरे पयस्यपि पदे द्वयवाचिभूयंनानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥७८॥ब्रूमः किमस्य नलमप्यलमाजुहूषोःकीर्तिं स चैष च समादिशतः स्म कर्तुम् ।स्वद्वीपसीमसरिदीश्वरपूरपार-वेलाचलाक्रमणविक्रममक्रमेण ॥७९॥अम्भोजगर्भरुचिराथ विदर्भसुभ्रूःतं गर्भरूपमपि रूपजितत्रिलोकम् ।वैराग्यरूक्षमवलोकयति स्म भूपंदृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥८०॥ते तां ततोऽपि चकृषुर्जगदेकदीपा-दंसस्थलस्थितसमानविमानदण्डाः ।चण्डद्युतेरुदयिनीमिव चन्द्रलेखांसोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥८१॥भूपेषु तेषु न मनागपि दत्तचित्ताविस्मेरया वचनदेवतया तयाथ ।वाणीगुणोदयतृणीकृतपाणिवीणा-निक्वाणया पुनरभाणि मृगेक्षणा सा ॥८२॥यन्मौलिरत्नमुदितासि स एष जम्बू-द्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ।दोलायितेन बहुना भवभीतिकम्प्रःकंदर्पलोक इव खात्पतितस्त्रुटित्वा ॥८३॥विष्वग्वृतः परिजनैरयमन्तरीपैःतेषामधीश इव राजति राजपुत्रि ।हेमाद्रिणा कनकदण्डमहातपत्रःकैलासरश्मिचयचामरचक्रचिह्नः ॥८४॥एतत्तरुस्तरुणि राजति राजजम्बूःस्थूलोपलानिव फलानि विमृश्य यस्याः ।सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति-यूथानि केन तरुमारुरुहुः पथेति ॥८५॥जाम्बूनदं जगति विश्रुतिमेति मृत्स्नाकृत्स्नापि सा तव रुचा विजितश्रि ।यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुःजम्बूसरिद्वहति सीमनि कम्बुकण्ठि ॥८६॥अस्मिञ्जयन्ति जगतीपतयः सहस्रम्अस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु ।रम्भोरु चारु कतिचित्तव चित्तबिन्धि-रूपान्निरूपय मुदाहमुदाहरामि ॥८७॥प्रत्यर्थियौवतवतंसतमालमालोन्मीलत्तमः प्रकरतस्करशौर्यसूर्ये ।अस्मिन्नवन्तिनृपतौ गुणसंततीनांविश्रान्तिधामनि मनो दमयन्ति किं ते ॥८८॥तत्रानुतीरवनवासितपस्विविप्राशिप्रा तवोर्मिभुजया जलकेलिकाले ।आलिङ्गनानि ददती भवता वयस्याहास्यानुबन्धिरमणीयसरोरुहास्या ॥८९॥अस्याधिशय्य पुरमुज्जयिनीं भवानीजागर्ति या सुभगयौवतमौलिमाला ।पत्याऽर्धकायघटनाय मृगाक्षि तस्याःशिष्या भविष्यसि चिरं वरिवस्ययापि ॥९० ॥निःशङ्कमङ्कुरिततां रतिवल्लभस्यदेवः स्वचन्द्रकिरणामृतसेचनेन ।तत्रावलोक्य सुदृशां हृदयेषु रुद्रःतद्देहदाहफलमाह स किं न विद्मः ॥९१॥आगश्शतं विदधतोऽपि समिद्धकामानाधीयते परुषामक्षरमस्य वामाः ।चान्द्री न तत्र हरमौलिशयालुरेका-नध्यायहेतुतिथिकेतुरपैति लेखा ॥९२॥भूपं व्यलोकत न दूरतरानुरक्तंसा कुण्डिनावनिपुरंदरनन्दिनी तम् ।अन्यानुरागविरसेन विलोकनाद्वाजानामि सम्यगविलोकनमेव रम्यम् ॥९३॥भैमीङ्गितानि शिबिकामधरे वहन्तःसाक्षान्न यद्यपि कथंचन जानते स्म ।जज्ञुस्तथापि सविधस्थितसंमुखीन-भूपालभूषणमणिप्रतिविम्बितेन ॥९४॥भैमीमवापयत जन्यजनस्तदन्यंगङ्गामिव क्षितितलं रधुवंशदीपः ।गाङ्गेयपीतकुचकुम्भयुगां च हार-चूडासमागमवशेन विभूषितां च ॥९५॥तां मत्स्यलाञ्छनदराञ्छितचापभासानीराजितभ्रुवमभाषत भाषितेशा ।व्रीडाजडे किमपि सूचय चेतसा चेत्क्रीडारसं वहसि गौडविडौजसीह ॥९६॥एतद्यशोभिरमलानि कुलानि भासांतथ्यं तुषारकिरणस्य तृणीकृतानि ।स्थाने ततो वसति तत्र सुधाम्बुसिन्धौरङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥९७॥आलिङ्गितः कमलवत्करकस्त्वयाऽयंश्यामः सुमेरुशिस्वयेव नवः पयोदः ।कन्दर्पमूर्धरुहमण्डनचम्पकस्र-ग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥९८॥एतेन संमुखमिलत्करिकुम्भमुक्ताःकौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ।एतद्भुजोष्मभृशनिःसहया विकीर्णाःप्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥९९॥आश्चर्यमस्य ककुभामवधीनवाप-दाजानुगाद्भुजयुगादुदितः प्रतापः ।व्यापत्सदाशयविसारितसप्ततन्तु-जन्मा चतुर्दश जगन्ति यशःपटश्च ॥१००॥औदास्यसंविदवलम्बितशून्यमुद्रा-मस्मिन्दृशोर्निपतितामवगम्य भैम्याः ।स्वेनैव जन्यजनतान्यमजीगमत्तांसुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥१०१॥एतां कुमारनिपुणां पुनरप्यभाणी-द्वाणी सरोजमुखि निर्भरमारभस्व ।अस्मिन्नसंकुचितपङ्कजसख्यशिक्षा-निष्णातदृष्टिपरिरम्भविजृम्भितानि ॥१०२॥प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थ-पृथ्वीधरः पृथुरयं मथुराधिनाथः ।अश्मश्रुजातमनुयाति न शर्वरीशःश्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥१०३॥बालेऽधराधरितनैकविधप्रवालेपाणौ जगद्विजयकार्मणमस्य पश्य ।ज्याघातजेन रिपुराजकधूमकेतु-तारायमाणमुपरज्य मणिं किणेन ॥१०४॥एतद्भुजारणिसमुद्भवविक्रमाग्नि-चिह्नं धनुर्गुणकिणः खलु धूमलेखा ।जातं ययारिपरिषन्मशकाऋथयाश्रु-विश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥१०५॥श्यामीकृता मृगमदैरिव माथुरीणांधौतैः कलिन्दतनयामधिमध्यदेशम् ।तत्राप्तकालियमहाह्रदनाभिशोभांरोमावलीमिव विलोकयितासि भूमेः ॥१०६॥गोवर्धनाचलकलापिचयप्रचार-निर्वासिताहिनि घने सुरभिप्रसूनैः ।तस्मिन्ननेन सह निर्विश निर्विशङ्कंवृन्दावने वनविहारकुतूहलानि ॥१०७॥भावी करः कररुहाङ्कुरकोरकोऽपितद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ।अन्तस्त्वदास्यहृतसारतुषारभानु-शोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥१०८॥तज्जः श्रमाम्बु सुरतान्तमुदा नितान्त-मुत्कण्टके स्तनतटे तव संचरिष्णुः ।खञ्जन्प्रभञ्जनजनः पथिकः पिपासुःपाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥१०९॥पूजाविधौ मखभुजामुपयोगिनो येविद्वत्कराः कमलनिर्मलकान्तिभाजः ।लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैःते हाटकैः स्फुटवराटकगौरगर्भाः ॥११०॥वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यःकिंचिन्न तृप्यति धरावलयैकवीरः ।स त्वामवाप्य निपतन्मदनेषुवृन्द-स्यन्दीति तृप्यतु मधूनि पिबन्निवायम् ॥१११॥तस्मादियं क्षितिपतिक्रमगम्यमान-मध्वानमैक्षत नृपादवतारिताक्षी ।तद्भावबोधबुधतां निजचेष्टयैवव्याचक्षते स्म शिबिकानयने नियुक्ताः ॥११२॥भूयोऽपि भूपमपरं प्रति भारती तांत्रस्यच्चमूरुचलचक्षुषमाचचक्षे ।एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मी-मक्ष्णोः सुखं जनय खञ्जनमञ्जुनेत्रे ॥११३॥एतस्य सावनिभुजः कुलराजधानीकाशी भवोत्तरणधर्मतरिः स्मरारेः ।यामागता दुरितपूरितचेतसोऽपिपापं निरस्य चिरजं विरजीभवन्ति ॥११४॥आलोक्य भाविविधिकर्तृकलोकसृष्टि-कष्टानि रोदिति पुरा कृपयैव रुद्रः ।नामेच्छयेति मिषमात्रमधत्त यत्तांसंसारतारणतरीमसृजत्पुरीं सः ॥११५॥वाराणसी निविशते न वसुंधरायांतत्र स्थितिर्मखभुजां भुवने निवासः ।तत्तीर्थमुक्तवपुषामत एव मुक्तिःस्वर्गात्परं पदमुदेतु मुदे तु कीदृक् ॥११६॥सायुज्यमृच्छति भवस्य भवाब्धियाद-स्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ।भूताभिधानपटुमद्यतनीमवाप्यभीमोद्भवे भवतिभावमिवास्तिधातुः ॥११७॥निर्विश्य निर्विरति काशिनिवासि भोगा-न्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।गौरीगिरीशघटनाधिकमेकभावंशर्मोर्मिकञ्चुकितमञ्चति पञ्चतायाम् ॥११८॥न श्रद्दधासि यदि तन्मम मौनमस्तुकथ्या निजाप्ततमयैव तवानुभूत्या ।न स्यात्कनीयसितरा यदि नाम काश्याराजन्वती मुदिरमण्डनधन्वना भूः ॥११९॥ज्ञानाधिकासि सुकृतान्यधिकाशि कुर्याःकार्यं किमन्यकथनैरपि यत्र मृत्योः ।एकं जनाय सतताभयदानमन्य-द्धन्ये वहत्यमृतसत्त्रमवारितार्थि ॥१२०॥भूभर्तुरस्य रतिरेधि मृगाक्षि मूर्तासोऽयं तवास्तु कुसुमायुध एव मूर्तः ।भातं च ताविव पुरा गिरिशं विराद्ध-माराद्धुमाशु पुरि तत्र कृतावतारौ ॥१२१॥कामानुशासनशते सुतरामधीतीसोऽयं रहो नखपदैर्महतु स्तनौ ते ।रुष्टाद्रिजाचरणकुङ्कुमपङ्कराग-संकीर्णशंकरशशाङ्ककलाङ्ककारैः ॥१२२॥पृथ्वीश एष नुदतु त्वदनङ्गताप-मालिङ्ग्य कीर्तिचयचामरचारुचापः ।सङ्ग्रामसंगतविरोधिशिरोधिदण्ड-खण्डिक्षुरप्रशरसंप्रसरत्प्रतापः ॥१२३॥वक्षस्त्वदुग्रविरहादपि नास्य दीर्णंवज्रायते पतनकुण्ठतशत्रुशस्त्रम् ।तत्कन्दकन्दलतया भुजयोर्न तेजोवह्निर्नमत्यरिवधूनयनाम्बुनापि ॥१२४॥किं न द्रुमा जगति जाग्रति लक्षसंख्या-स्तुल्योपनीतपिककाकफलोपभोगाः ।स्तुत्यस्तु कल्पविटपी फलसंप्रदानंकुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥१२५॥अस्मै करं प्रवितरन्तु नृपा न कस्मा-दस्यैव तत्र यदभूत्प्रतिभूः कृपाणः ।दैवाद्यदा प्रवितरन्ति न ते तदैवनेदंकृपा निजकृपाणकरग्रहाय ॥१२६॥एतद्बलैः क्षणिकतामपि भूखुराग्र-स्पर्शायुषां रयरसादसमापयद्भिः ।दृक्पेयकेवलनभःक्रमणप्रवाहै-र्वाहैरलुप्यत सहस्रदृगर्वगर्वः ॥१२७॥तद्वर्णनासमय एव समेतलोक-शोभावलोकनपरा तमसौ निरासे ।मानी तया गुणविदा यदनादृतोऽसौतद्भूभृतां सदसि दुर्यशसेव मम्लौ ॥१२८॥सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाज-श्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गीनिःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः ॥१२९॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।शृङ्गारामृतशीतगावयमगादेकादशस्तन्महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३०॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP