संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| अष्टादश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - अष्टादश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत अष्टादश सर्गः Translation - भाषांतर सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः ।तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत् ॥१॥आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः ।आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥२॥न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः ।नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥३॥वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः ।कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥४॥धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः ।जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥५॥क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः ।तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥६॥कुङ्कुमैणमदपङ्कलेपिताः क्षलिताश्च हिमवालुकाम्बुभिः ।रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥७॥नैषधाङ्गपरिमर्दमेदुरामोदमाऋदवमनोज्ञवर्णया ।यद्भुवः क्वचन सूनशय्ययाभजि भालतिलकप्रगल्भता ॥८॥क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः ।सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥९॥ऋद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः ।यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिरञ्चति ॥१०॥कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥११॥चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् ।वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिरकल्पि शिल्पिराट् ॥१२॥भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः ।सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥१३॥तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्द्रचन्द्रिकः ।यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥१४॥यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका ।भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते ॥१५॥यत्र मत्तकलविङ्कशीलिताश्लीलकेलिपुनरुक्तवत्तयोः ।क्वापि दृष्टिभिरवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः ॥१६॥यत्र वैणरववैणवस्वरैर्हुंकृतैरुपवनीपिकालिनाम् ।कङ्कणालिकलहैश्च नृत्यतां कुब्जितं सुरतकूजितं तयोः ॥१७॥सीत्कृतान्यशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः ।जालकैरपवरान्तरेऽपि तौ त्याजितैः कपटकुड्यतां निशि ॥१८॥कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी ।नानिशं त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझंकृतिः ॥१९॥भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससंकथाः ।पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥२०॥पुष्पकाण्डजयडिण्डिमायितं यत्रगौतमकलत्रकामिनः ।पारदारिकविलाससाहसं देवभर्तुरुदटङ्कि भित्तिषु ॥२१॥उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् ।यस्य कीर्तिरवदायति स्म सा कार्तिकीतिथिनिशीथिनीस्वसा ॥२२॥गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः ।रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥२३॥शंभुदारुवनसंभुजिक्रियामाधवव्रजवधूविलासयोः ।गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥२४॥अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तमुज्जगौ ।कालदेशविषायासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥२५॥नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।अप्सरःकुचघटावलम्बनात्स्थायिना क्वचन यत्र चित्रगाः ॥२६॥स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः ।योऽयमीदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥२७॥यत्र वीक्ष्य नलभीमसं भवे मह्यतो रतिरतीशयोरपि ।स्पर्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः ॥२८॥तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः ।ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः ॥२९॥पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया ।यूनि शैशवमतीर्णया कियत्प्रापि भीमसुतया न साध्वसम् ॥३०॥दूत्यसंगतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः ।तं विचिन्त्य विनयव्ययं ह्रिया न स्म वेद करवाणि कीदृशम् ॥३१॥यत्तया सदसि नैषाधः स्वयं प्राग्वृतः सपदि वीतलज्जया ।तन्निजं मनसिकृत्य चापलं सा शशाक न विलोकितुं नलम् ॥३२॥आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् ।तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि ॥३३॥ह्रीसरन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया ।द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् ॥३४॥वेश्म पत्युरविशन्न साध्वसाद्वेशितापि शयनं न साऽभजत् ।भाजितापि सविधं न सास्वपत्स्वापितापि न च संमुखाभवत् ॥३५॥केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति ।भीमजाहृदि जितः स्त्रिया ह्रिया मन्मथोऽपि नियतं स लज्जितः ॥३६॥आत्मनापि हरदारसुन्दरी यत्किमप्यभिललाष चेष्टितुम् ।स्वामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः ॥३७॥ह्रीभराद्विमुखया तया भियं सञ्जितामननुरागशङ्किनि ।स स्वचेतसि लुलोप संस्मरन्दूत्यकालकलितं तदाशयम् ॥३८॥पार्श्वमागमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया ।क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवावशेषिता ॥३९॥संनिधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित् ।आनयद्व्यवधिमानिव प्रियामङ्कपालिवलयेन संनिधिम् ॥४०॥प्रागचुम्बदलिके ह्रियानतां तां क्रमाद्दरनतां कपोलयोः ।तेन विश्वसितमानसां झटित्यानने स परिचुम्ब्य सिष्मिये ॥४१॥लज्जया प्रथममेत्य हुंकृतः साध्वसेन बलिनाथ तर्जितः ।किंचिदुच्छ्वसित एव तद्धृदि न्यग्बभूव पुनरर्भकः स्मरः ॥४२॥वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् ।एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया ॥४३॥हारचारिमविलोकने मृषाकौतुकं किमपि नाटयन्नयम् ।कण्ठमूलमदसीयमस्पृशत्पाणिनोपकुचधाविना धवः ॥४४॥यत्त्वयास्मि सदसि स्रजाञ्चितस्तन्मयापि भवदर्हणार्हति ।इत्युदीर्य निजहारमर्पयन्नस्पृशत्स तदुरोजकोरकौ ॥४५॥नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः ।कम्पितं शयमपास यन्नयं दोलनैर्जनितबोधयाऽनया ॥४६॥स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ सिष्मिये नृपः ।आववार तदथाम्बराञ्चलैः सा निरावृतिरिव त्रपावृता ॥४७॥बुद्धिमान्व्यधित तां क्रमादयं किंचिदित्थमपनीतसाध्वसाम् ।किंच तन्मनसि चित्तजन्मना ह्रीरनामि धनुषा समं मनाक् ॥४८॥सिष्मिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः ।स्वे हि दर्शयति ते परेण कानर्ध्यदन्तकुरुविन्दमालिके ॥४९॥वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाङ्कितम् ।सोढकान्तपरिरम्भगाढता सान्वमायि सुमुखी सखीजनैः ॥५०॥याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यदा ।अन्वमिन्वत तदा विहस्य ता वृत्तमत्र पतिपाणिचापलम् ॥५१॥कुर्वती निचुलितं ह्रिया कियत्सौहृदाद्विवृतसौरभं कियत् ।कुड्नलोन्मिषितसूनसेविनीं पद्मिनीं जयति सा स्म पद्मिनी ॥५२॥नाविलोक्य नलमासितुं स्मरो ह्रीर्न वीक्षितुमदत्त सुभ्रुवः ।तद्दृशः पतिदिशाचलन्नथ व्रीडिताः समकुचन्मुहुः पथः ॥५३॥नाऽनया पतिरनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि ।वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयते ददानया ॥५४॥वासरे विरहनिःसहा निशां कान्तसङ्गसमयं समैहत ।सा ह्रिया निशि पुनर्दिनोदयं वाञ्छतिस्म पतिकेलिलज्जिता ॥५५॥तत्करोमि परमभ्युपैषि यन्मा ह्रियं व्रज भियं परित्यज ।आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान्नलः ॥५६॥येन तन्मदनवह्निना स्थितं ह्रीमहौषधिनिरुद्धशक्तिना ।सिद्धिमद्भिरुदतेजि तैः पुनः स प्रियप्रियवचोभिमन्त्रणैः ॥५७॥यद्विधूय दयितार्पितं करं दोर्द्वयेन पिदधे कुचौ दृढम् ।पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदिस्थितमिवालिलङ्ग तत् ॥५८॥अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥५९॥पीततावकमुखासवोऽधुना भृत्य एष निजकृत्यमर्हति ।तत्करोमि भवदूरुमित्यसौ तत्र संन्यधित पाणिपल्लवम् ॥६०॥चुम्बनादिषु बभूव नाम किं तद्वृथा भियमिहापि मा कृथाः ।इत्युदीर्य रसनावलिव्ययं निर्ममे मृगदृशोऽयमादिमम् ॥६१॥अस्तिवाम्यभरमस्तिकौतुकं सास्तिघर्मजलमस्तिवेपथु ।अस्तिभीति रतमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम् ॥६२॥ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः ।तत्तु निस्त्रपमजस्रसंगमाद्वीडमावहति मामकं मनः ॥६३॥इत्युपालभत संभुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् ।तां तथा स चतुरोऽथ सा यथा त्रप्तुमेव तमनु त्रपामयात् ॥६४॥बाहुवक्त्रजघनस्तनाङ्घ्रितद्बन्धगन्धरतसंगतानतीः ।इच्छुरुत्सुकजने दिनेस्मिते वीक्षिते ति समकेति तेन सा ॥६५॥प्रातरात्मशयनाद्विनिर्यतीं संनिरुध्य यदसाध्यमन्यदा ।तन्मुखार्पणमुखं सुखं भुवो जम्भजित्क्षितिशचीमचीकरत् ॥६६॥नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम् ।आत्मना निजनवस्मरोत्सवस्मारिणीयमहृणीयत स्वयम् ॥६७॥तां मिथोऽभिदधतीं सखीं प्रियस्यात्मनश्च स निशाविचेष्टितम् ।पार्श्वगः सुरवरात्पिधां दधद्दृश्यतां शृउतकथो हसन्गतः ॥६८॥चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साभवत् ।क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम् ॥६९॥चुम्बितं न मुखमाचकर्ष यत्पत्युरन्तरमृतं ववर्ष तत् ।सा नुनोद न भुजं तदर्पितं तेन तस्य किमभून्न तर्पितम् ॥७०॥नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परं ।वीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये ॥७१॥याचनान्न ददतीं नखक्षतं तां विधाय कथयाऽन्यचेतसम् ।वक्षसि न्यसितुमात्ततत्करः स्वं विभिद्य मुमुदे स तन्नखैः ॥७२॥स प्रसह्य हृदयापवारकं हर्तुमक्षमत सुभ्रुवो बहिः ।ह्रीमयं तु न तदीयमान्तरं तद्विनेतुमभवत्प्रभुः प्रभुः ॥७३॥सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला ।भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः ॥७४॥आत्थ नेति रतयाचिनं न यन्मामतोऽनुमतवत्यसि स्फुटम् ।इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा ॥७५॥या शिरोविधुतिराह नेति ते सा मया न किमियं समाकलि ।तन्निषेधसमसंख्यता विधिं व्यक्तमेव तव वक्ति वाञ्छितम् ॥७६॥नात्थ नात्थ शृण्वानि ते न किं तेन वाचमिति तां निगद्य सः ।सा स्म दूत्यगतमाह तं यथा तज्जगाद मृदुभिस्तदुक्तिभिः ॥७७॥नीविसीम्नि निबिडं पुराऽरुणत्पाणिनाऽथ शिथिलेन तत्करम् ।सा क्रमेण नननेति वादिनी विघ्नमाचरदमुष्य केवलम् ॥७८॥रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् ।सान्यदिव्ययुवतिभ्रमक्षमां नित्यमेत्य तमगान्नवा नवा ॥७९॥इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।भक्ततां च परिचर्ययाऽनिशं साधिकाधिकवशं व्यधत्त तम् ॥८०॥स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा ।आतदीयहठसंबुभुक्षुतां नान्वमन्यत पुनस्तमर्थिनम् ॥८१॥आद्यसंगमसमादराण्यधाद्वल्लभाय ददती कथंचन ।अङ्गकानि घनमानवामताव्रीडलम्भितदुरापतानि सा ॥८२॥पत्युरागिरिशमातरु क्रमात्स्वस्य चागिरिजमालतं वपुः ।तस्य चार्हमखिलं पतिव्रता क्रीडति स्म तप्सा विधाय सा ॥८३॥न स्थली न जलधिर्न काननं नाद्रिभूर्न विषायो न विष्टपम् ।क्रीडिता न सह यत्र तेन सा सा विधैव न यया यया न वा ॥८४॥नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया ।भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः ॥८५॥कान्तमूर्ध्नि ददती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।रन्तुमर्चनमिवाचरत्पुरः सा स्ववल्लभतनोर्मनोभुवः ॥८६॥तं पिधाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः ।चित्तमाप कुतुकाद्भुतत्रपातङ्कसंकटनिवेशितस्मरम् ॥८७॥एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।जातवह्निवरसंस्मृतिः शिरः सा विधूय निमिमील केवलम् ॥८८॥पश्य भीरु न मयापि दृश्यसे यन्निमीलितवती दृशावसि ।इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता ॥८९॥चुम्ब्यसेऽयमयमङ्क्यसे नखैः श्लिष्यसेयमयमर्प्यसे हृदि ।नो पुनर्न करवाणि ते गिरं हुं त्यज त्यज तवास्मि किंकरा ॥९०॥इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।चुम्बनादि विततार मायिनी किं विदग्धमनसामगोचरः ॥९१॥स्वेप्सितोद्गमितमात्रलुप्तया दीपिकाचपलया तमोघने ।निर्विशङ्करतजन्मतन्मुखाकूतदर्शनसुखान्यभुङ्क्त सः ॥९२॥यद्भ्रुवौ कुटिलिते तया रते मन्मथेन तदनामि कार्मुकम् ।यत्तु हुंहुमिति सा तदा व्यधात्तत्स्मरस्य शरमुक्तिहुंकृतम् ॥९३॥ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥९४॥सा शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न ।चक्षमे च स न भङ्गुरभ्रुवस्तुङ्गपीनकुचदूरतां गतम् ॥९५॥बाहुवल्लिपरिरम्भमण्डली या परस्परमपीडयत्तयोः ।आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः ॥९६॥वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः ।केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम् ॥९७॥भीमजोरुयुगलं नलाऋपितैः पाणिजस्य मृदुभिः पदैर्बभौ ।तत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् ॥९८॥बह्वमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् ।स व्यधादधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुराह सः ॥९९॥पीडनय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती ।तत्कुचौ कलशपीननिष्थुरौ हारहासविहते वितेनतुः ॥१००॥यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ बधूकुचौ ।स प्रियोरसि तयोः स्वयंभुवोराचचार नखकिंशुकार्चनम् ॥१०१॥अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बमिलितं व्यडम्बयत् ।चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम् ॥१०२॥पूगभागबहुताकषायितैर्वासितैरुदयभास्करेण तौ ।चक्रतुर्निधुवनेऽधरामृतैस्तत्र साधुमधुपानविभ्रमम् ॥१०३॥आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥१०४॥चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् ।प्राप भर्तुममृतैः सुधांशुना सक्तहाटकघटेन मित्त्रताम् ॥१०५॥वीक्ष्य वीक्ष्य पुनरैक्षि सा मुदा पर्यरम्भि परिरभ्य चासकृत् ।चुम्बिता पुनरचुम्बि चादरात्तृप्तिरापि न कथंचनापि च ॥१०६॥छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।न व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥१०७॥यत्तदीयहृदि हारमौक्तिकैरासि तत्र गुण एव कारणम् ।अन्यथा कथममुत्र वर्तितुं तैरशाकि न तदा गुणच्युतैः ॥१०८॥एकवृत्तिरपि मौक्तिकावलिश्छिन्नहारविततौ तदा तयोः ।छाययाऽन्यहृदये विभूषणं श्रान्तिवारिभरभावितेऽभवत् ॥१०९॥वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणानिशम् ।भुज्यमाननवयौवनामुना पारसीमनि चचार सा मुदाम् ॥११०॥आन्तरानपि तदङ्गसंगमैस्तर्पितानवयवानमन्यत ।नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः ॥१११॥भूषणैरतुषदाश्रितैः प्रियां प्रागथ व्यषददेष भावयन् ।तैरभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः ॥११२॥योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः ।तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम् ॥११३॥वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् ।कोऽयमित्युदितसंभ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम् ॥११४॥तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिस्थितिः ।स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां नुनोद सः ॥११५॥स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः ।निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् ॥११६॥विश्लथैरवयवैर्निमीलया लोमभिर्द्रुतमितैर्विनिद्रताम् ।सूचितं श्वसितसीत्कृतैश्च तौ भावमक्रमकमध्यगच्छताम् ॥११७॥आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥११८॥अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।यन्मुहूर्तमवहन्न तत्पुनस्तृप्तिरास्त दयितस्य पश्यतः ॥११९॥तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।तद्विधा हि भवदैवतं प्रिया वेधसोऽपि विदधाइ चापलम् ॥१२०॥स्वेदबिन्दुकितनासिकाशिखं तन्मुखं सुखयति स्म नैषधम् ।प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः ॥१२१॥ह्रीणमेव पृथु सस्मरं कियत्क्लान्तमेव बहुनिर्वृतं मनाक् ।कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात् ॥१२२॥स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथायथा ।नैषधस्य दृगपात्तथातथा चित्रमापदपतृष्णतां न सा ॥१२३॥वीतमाल्यकचहस्तसंयमव्यस्तहस्तयुगया स्फुटीकृतम् ।बाहुमूलमनया तदुज्ज्वलं वीक्ष्ञ सौख्यजलधौ ममज्ज सः ॥१२४॥वीक्ष्य पत्युरधरं कृशोदरी बन्धुजीवमिव भृङ्गसंगतम् ।मञ्जुलं नयनकज्जलैर्निजैः संवरीतुमशकत्स्मितं न सा ॥१२५॥तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः ।ह्रीमती व्यतरदुत्तरं वधूः पाणिपङ्करुहि दर्पणार्पणाम् ॥१२६॥लाक्षयात्मचरणस्य चुम्बनाच्चारुभालमवलोक्य तन्मुखम् ।सा ह्रिया नतनताननाऽस्मरच्छेषरागमुदितं पतिं निशः ॥१२७॥स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् ।निर्ममे धुतरतश्रमं निजैर्ह्रीनतातिमृदुनासिकानिलैः ॥१२८॥सूननायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् ।दन्दतंशमधरेऽधिगामुका सास्पृशन्मृदु चमच्चकार च ॥१२९॥वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् ।कान्तमैक्षत हसस्पृशं कियत्कोपकुञ्चितविलोचनाञ्चला ॥१३०॥रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम् ।तां जगाद स न वेद्मि तन्वि तं कश्चकार तव कोपरोपणाम् ॥१३१॥रोषकुङ्कुमविलेपनान्मनाङ्गन्ववाचि कृशतन्ववाचि ते ।भूदयुक्तसमयैव रञ्जनामानने विधुबिधेयमानने ॥१३२॥क्षिप्रमस्य तु रुजा नखादिजास्तावकीरमृतसीकरं किरत् ।एतदर्थमिदमर्थितं मया कण्ठचुम्बि मणिदाम कामदम् ॥१३३॥स्वापराधमलुपत्पयोधरे मत्करः सुरधनुष्करस्तव ।सेवया व्यजनचालनाभुवा भूय एव चरणौ करोतु वा ॥१३४॥आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।शोध्यते सुदति वैरमस्य तत्किं त्वया वद विदश्य नाधरम् ॥१३५॥दीपलोपमफलं व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः ।नो तदागसि परं समर्थना सोऽयमस्तु पदपातुकस्तव ॥१३६॥इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः ।आत्ममौलिमणिकान्तिभङ्गिनीं तत्पदारुणसरोजसङ्गिनीम् ॥१३७॥तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः ।रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता ॥१३८॥आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मधर्निशा ।एतमेव तु निशान्तरे वरं रोषशेषमनुरोत्स्यसि क्षणम् ॥१३९॥साथ नाथमनयत्कृतार्थतां पाणिगोपितनिजाङ्घ्रिपङ्कजा ।तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती ॥१४०॥तौ मिथो रतिरसायनात्पुनः संबुभुक्षुमनसौ बभूवतुः ।चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना ॥१४१॥स्वप्नुमाप्तशयनीययोस्तयोः स्वैरमाख्यत वचः प्रियां प्रियः ।उत्सवैरधरदानपानजैः सान्तरायपदमन्तरान्तरा ॥१४२॥देवदूत्यमुपगम्य निर्दयं धर्मभीतिकृततादृशागसः ।अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता ॥१४३॥स क्षाणः सुमुखि यत्त्वदीक्षणं तच्चराज्यमुरु येन रज्यसि ।तन्नलस्य सुधयाभिषेचनं यत्त्वदङ्गपरिरम्भविभ्रमः ॥१४४॥शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटने शिवस्य वा ।कामये तव महेषु तन्वि तं नन्वयं सरिदुदन्वदन्वयम् ॥१४५॥धीयतां मयि दृढा ममेति धीर्वक्तुमेवमवकाश एव कः ।यद्विधूय तृणवद्दिवस्पतिं क्रीतवत्यसि दयापणेन माम् ॥१४६॥शृण्वता निभृतमालिभिर्भवद्वाग्विलासमसकृन्मया किल ।मोघराघवविवर्ज्यजानकीश्राविणी भयचलासि वीक्षिता ॥१४७॥छुप्तपत्रविनिमीलितात्क्षुपात्कच्छपस्य धृतचापलात्पलात् ।त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् ॥१४८॥त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहःश्रुता ।नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः ॥१४९॥संगमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम् ।हन्त दत्थ इति रुष्टयावयोर्निद्रयाऽद्य किमु नोपसद्यते ॥१५०॥ईदृशं निगदति प्रिये दृशं संमदात्कियदियं न्यमीलयत् ।प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥१५१॥मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् ।तौ ततोऽनु परिरम्भसंपुटैः पीडनां विदधतौ निदद्रतुः ॥१५२॥तद्यातायातरंहच्छलकलितरतश्रान्तिनिश्वासधारा-जस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् ।बालावक्षोजपत्राङ्कुरकरिमकरीं मुद्रितोर्वीन्द्रवक्ष-श्चिह्नाख्यातैकभावोभयहृदयमयाद्द्वन्द्वमानन्दनिद्राम् ॥१५३॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।यातोऽस्मिञ्शिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महा-काव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमष्टादशः ॥१५४॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP