संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| तृतीयः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - तृतीयः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत तृतीयः सर्गः Translation - भाषांतर आकुञ्चिताभ्यामथ पक्षतिभ्यांनमोविभागात्तरसावतीर्य ।निवेशदेशाततधूतपक्षःपपात भूमावुपभैमि हंसः ॥१॥आकस्मिकः पक्षपुटाहतायाःक्षितेस्तदा यः स्वन उच्चचार ।द्रागन्यविन्यस्तदृशः स तस्याःसंभ्रान्तमन्तः करणं चकार ॥२॥नेत्राणि वैदर्भसुतासंखीनांविमुक्ततत्तद्विषयग्रहाणि ।प्रापुस्तमेकं निरुपाख्यरूपंब्रह्मेव चेतांसि यतव्रतानाम् ॥३॥हंसं तनौ सन्निहितं चरन्तंमुनेर्मनोवृत्तिरिव स्विकायाम् ।ग्रहीतुकामादरिणा शयेनयत्नादसौ निश्चलतां जगाहे ॥४॥तामिङ्गितैरप्यनुमाय मायाम्-अयं न भैम्या वियदुत्पपात ।तत्पाणिमात्मोपरिपातुकंतु मोघं वितेने प्लुतिलाघवेन ॥५॥व्यर्थीकृतं पत्ररथेन तेनतथाऽवसाय व्यवसायमस्याः ।परस्परामर्पितहस्ततालंतत्कालमालीभिरहस्यतालम् ॥६॥उच्चाटनीयः करतालिकानांदानादिदानीं भवतीभिरेषः ।यान्वेति मां दुह्यति मह्ममेवसात्रेत्युपालम्भि तयालिवर्गः ॥७॥धृताल्पकोपा हसिते सखीनांछायेव भास्वन्तमभिप्रयातुः ।श्यामाथ हंसस्य करानवाप्तेःमन्दाक्षलक्ष्या लगति स्म पश्चात् ॥८॥शस्ता न हंसाभिमुखी पुनस्तेयात्रेति ताभिश्छलहस्यमाना ।साह स्म नैवाशकुनीभवेन्मेभाविप्रियावेदक एष हंसः ॥९॥हंसोऽप्यसौ हंसगतेः सुदत्याःपुरः पुरश्चारु चलन्वमासे ।वैलक्ष्यहेतोर्गतिमेतदीयाम्अग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥पदे पदे भाविनि भाविनी तंयथा करप्राप्यमवैति नूनम् ।तथा सखेलं चलता लतासुप्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥रुषा निषिद्धालिजनां यदैनांछायाद्वितीयां कलयांचकार ।तदा श्रमाम्भः कणभूषिताङ्गींस कीरवन्मानुषवागवादीत् ॥१२॥अये ! कियद्यावदुपैषि दूरंव्यर्थे परिश्राम्यसि वा किमित्थम् ।उदेति ते भीरपि किं नु बाले !विलोकयन्त्या न घना वनालीः ॥१३॥वृथार्पयन्तीमपथे पदं त्वांमरुल्ललत्पल्लवपाणिकम्पैः ।आलीव पश्य प्रतिषेधतायंकपोतहुंकारगिरा वनाली ॥१४॥धार्यः कथंकारमहं भवत्यावियद्विहारी वसुधैकगत्या ।अहो ! शिशुत्वं तव खण्डितं नस्मरस्य सख्या वयसाप्यनेन ॥१५॥सहस्रपत्रासनपत्रहंस-वंशस्य पत्राणि पतत्रिणः स्मः ।अस्मादृशां चाटुरसामृतानिस्वर्लोकलोकेतरदुर्लभानि ॥१६॥स्वर्गापगाहेममृणालिनीनांनालामृणालाग्रभुजो भजामः ।अन्नानुरूपां तनुरूपऋद्धिंकार्ये निदानाद्धि गुणानधीते ॥१७॥धातुर्नियोगादिह नैषधीयंलीलासरः सेवितुमागतेषु ।हैमेषु हंसेष्वहमेक एवभ्रमामि भूलोकविलोकनोत्कः ॥१८॥विधेः कदाचिद्भ्रमणीविलासेश्रमातुरेभ्यः स्वमहत्तरेभ्यः ।स्कन्धस्य विश्रान्तिमदां तदादिश्राम्यामि नाविश्रमविश्वगोऽपि ॥१९॥बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः स्यात् ।एकं विना मादृशि तन्नरस्यस्वर्भोगभाग्यं विरलोदयस्य ॥२०॥इष्टेन पूर्तेन नलस्य वश्याःस्वर्भोगमत्रापि सृजन्त्यमर्त्याः ।महीरुहा दोहदसेकशक्ते-राकालिकं कोरकमुद्गिरन्ति ॥२१॥सुवर्णशैलादवतीर्य तूर्णंस्वर्वाहिनीवारिकणावकीर्णैः ।तं वीजयामः स्मरकेलिकालेपक्षैर्नृपं चामरबद्धसख्यैः ॥२२॥क्रियेत चेत्साधुविभक्तिचिन्ताव्यक्तिस्तदा सा प्रथमाभिधेया ।या स्वौजसां साधयितुं विलासैःतावत्क्षमानामपदं बहु स्यात् ॥२३॥राजा स यज्वा विबुधव्रजत्राकृत्वाध्वराज्योपमयैव राज्यम् ।भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीःपूर्वं त्वहो शेषमशेषमन्त्यम् ॥२४॥दारिद्र्यदारिद्रविणौघवर्षैरमोघमेघव्रतमर्थिसार्थे ।संतुष्टमिष्टानि तमिष्टदेवंनाथन्ति के नाम न लोकनाथम् ॥२५॥अस्मत्किल श्रोत्रसुधां विधायरम्भा चिरं भामतुलां नलस्य ।तत्रानुरक्ता तमनाप्य भेजेतन्नामगन्धान्नलकूबरं सा ॥२६॥स्वर्लोकमस्माभिरितः प्रयातैःकेलीषु तद्गानगुणान्निपीय ।हा हेति गायन्यदशोचि तेननाम्नैव हाहा हरिगायनोऽभूत् ॥२७॥शृण्वन्सदारस्तदुदारभावंहृष्यन्मुहुर्लोम पुलोमजायाः ।पुण्येन नालोकत लोकपालःप्रमोदबाष्पावृतनेत्रमालः ॥२८॥सापीश्वरे शृण्वति तद्गुणौधान्प्रसह्य चेतो हरतोऽर्धशम्भुः ।अभूदपर्णाङ्गुलिरुद्धकर्णाकदा न कण्डूयनकैतवेन ॥२९॥अलं सजन्धर्मविधौ विधातारुणद्धि मौनस्य मिषेण वाणीम् ।तत्कण्ठमालिङ्ग्य रसस्य तृप्तांन वेद तां वेदजडः स वक्राम् ॥३०॥श्रियस्तदालिङ्गनभूर्न भूताव्रतक्षतिः कापि पतिव्रतायाः ।समस्तभूतात्मतया न भूतंतद्भर्तुरीर्ष्याकलुषाणुनापि ॥३१॥धिक् तं विधेः पाणिमजातलज्जंनिर्माति यः पर्वणि पूर्णमिन्दुम् ।मन्ये स विज्ञः स्मृततन्मुखश्रीःकृत्वार्धमौज्झद्धरमूर्ध्नि यस्तम् ॥३२॥निलीयते ह्रीविधुरः स्वजैत्रंश्रुत्वा विधुस्तस्य मुखं मुखान्नः ।सूरे समुद्रस्य कदापि पूरेकदाचिदभ्रभ्रमदभ्रगर्भे ॥३३॥संज्ञाप्य नः स्वध्वजभृत्यवर्गान्दैत्यारिरत्यब्जनलास्यनुत्यै ।तत्संकुचन्नाभिसरोजपीताद्धातुर्विलज्जं रमते रमायाम् ॥३४॥रेखाभिरास्ये गणनादिवास्यद्वात्रिंशता दन्तमयीभिरन्तः ।चतुर्दशाष्टादश चात्र विद्याद्वेधापि सन्तीति शशंस वेधाः ॥३५॥श्रियौ नरेन्द्रस्य निरीक्ष्य तस्यस्मरामरेन्द्रावपि न स्मरामः ।वासेन तस्मिन्क्षमयोश्च सम्यग्-बुद्धौ न दध्मः खलु शेष बुद्धौ ॥३६॥विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः ।मनोभिरासीदनणुप्रमाणै-र्न लङ्घिता दिक्कतमा तदश्वैः ॥३७॥संग्रामभूमीषु भवत्यरीणाम्अस्रैर्नदीमातृकतां गतासु ।तद्बाणधारापवनाशनानांराजव्रजीयैरसुभिः सुभिक्षम् ॥३८॥यशो यदस्याजनि संयुगेषुकण्डुलभावं भजता भुजेन ।हेतोर्गुणादेव दिगापगालीकूलंकषत्वव्यसनं तदीयम् ॥३९॥यदि त्रिलोकी गणनापरा स्यात्-तस्याः समाप्तिर्यदि नायुषः स्यात् ।पारेपरार्धे गणितं यदि स्याद्-गणेयनिःशेष गुणोऽपि स स्यात् ॥४०॥अवारितद्वारतया तिरश्चाम्-अन्तःपुरे तस्य निविश्य राज्ञः ।गतेषु रम्येष्वधिकं विशेषम्अध्यापयामः परमाणुमध्याः ॥४१॥पीयूषधारानधराभिरन्तःतासां रसोदन्वति मज्जयामः ।रम्भादिसौभाग्यरहःकथाभिःकाव्येन काव्यं सृजतादृताभिः ॥४२॥ काभिर्न तत्राभिनवस्मराज्ञा-विश्वासनिक्षेपवणिक् क्रियेऽहम् ।जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चस्त्रपते न तेन ॥४३॥वार्तापि नासत्यपि सान्यमेतियोगादरन्ध्रे हृदि यां निरुन्धे ।विरञ्चिनानाननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः ॥४४॥नलाश्रयेण त्रिदिवोपभोगंतवानवाप्यं लभते बतन्या ।कुमुद्वतीवेन्दुपरिग्रहेणज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥४५॥तन्नैषधानूढतया दुरापंशर्म त्वयास्मत्कृतचाटुजन्म ।रसालवन्या मधुपानुविद्धंसौबाग्यमप्राप्तवसन्तयेव ॥४६॥तस्यैव वा यास्यसि किं न हस्तंदृष्टं मनः केन विधेः प्रविश्य ।अजातपाणिग्रहणासि तावत्रूपस्वरूपातिशयाश्रयश्च ॥४७॥निशा शशाङ्कं शिवया गिरीशंश्रिया हरिं योजयतः प्रतीतः ।विधेरपि स्वारसिकः प्रयासःपरस्पर योग्यसमागमाय ॥४८॥वेलातिगस्त्रैणगुणआब्धिवैणिःन योगयोग्यासि नलेतरेण ।संदर्भ्यते दर्भगुणेन मल्ली-माला न मृद्वी भृशकर्कशेन ॥४९॥विधिं वधूसृष्टिमपृच्छमेवतद्यानयुग्यो नलकेलियोग्याम् ।त्वन्नामवर्णा इव कर्णपीतामयास्य संक्रीडति चक्रिचक्रे ॥५०॥अन्येन पत्या त्वयि योजितायांविज्ञत्वकीर्त्या गतजन्मनो वा ।जनापवादार्णवमुत्तरीतुंविधा विधातुः कतमा तरीः स्यात् ॥५१॥आस्तां तदप्रस्तुतचिन्तयालंमयासि तन्वि ! श्रमितातिवेलम् ।सोऽहं तदागः परिमार्ष्टुकामःकिमीप्सितं ते विदधेऽभिधेहि ॥५२॥इतीरयित्वा विरराम पत्रीस राजपुत्रीहृदयं बुभुत्सुः ।ह्रदे गभीरे हृदि चावगाढेशंसन्ति कार्यावतरं हि सन्तः ॥५३॥किंचित्तिरश्चीनविलोलमौलिःविचिन्त्य वाच्यं मनसा मुहूर्तम् ।पतत्रिणं सा पृथिवीन्द्रपुत्रीजगाद वक्रेण तृणीकृतेन्दुः ॥५४॥धिक्चापले वत्सिमवत्सलत्वंयत्प्रेरणादुत्तरलीभवन्त्या ।समीरसङ्गादिव नीरभङ्ग्यामया तटस्थस्त्वमुपद्रुतोऽसि ॥५५॥आदर्शतां स्वच्छतया प्रयासिसतां स तावत्खलु दर्शनीयः ।आगः पुरस्कुर्वति सागसं मांयस्यात्मनीदं प्रतिबिम्बितं ते ॥५६॥अनार्यमप्याचरितं कुमार्याभवान्मम क्षाम्यतु सौम्य ! तावत् ।हंसोऽपि देवांशतयासि वन्द्यःश्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥५७॥मत्प्रीतिमाधित्ससि कां त्वदीक्षा-मुदं मदक्ष्णोरपि यातिशेताम् ।निजामृतैर्लोचनसेचनाद्वापृथक्किमिन्दुः सृजति प्रजानाम् ॥५८॥मनस्तु यं नोज्झति जातु यातुमनोरथः कण्ठपथं कथं सः ।का नाम बाला द्विजराजपाणि-ग्रहाभिलाषं कथयेदलज्जा ॥५९॥वाचं तदीयां परिपीय मृद्वींमृद्वीकया तुल्यरसां स हंसः ।तत्याज तोषं परपुष्टघुष्टेघृणां च वीणाक्वणिते वितेन ॥६०॥मन्दाक्षमन्दाक्षरमुद्रमुक्त्वातस्यां समाकुञ्चितवाचि हंसः ।तच्छंसिते किंचन संशयालुःगिरा मुखाम्भोजमयं युयोज ॥६१॥करेण वाञ्छेव विधुं विधर्तुंयमित्थमात्थादरिणी तमर्थम् ।पातुं श्रुतिभ्यामपि नाधिकुर्वेवर्णे श्रुतेर्वर्ण इवान्तिमः किम् ॥६२॥अवाप्यते वा किमियद्भवत्याचित्तैकपद्यामपि विद्यते यः ।यत्रान्धकारः किल चेतसोऽपिजिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥ईशाणिमैश्वर्यविवर्तमध्येलोकेशलोकेशयलोकमध्ये ।तिर्यञ्चमप्यञ्च मृषानभिज्ञ-रसज्ञतोपज्ञसमज्ञमज्ञम् ॥६४॥मध्ये श्रुतीनां प्रतिवेशिनीनांसरस्वती वासवती मुखे नः ।ह्रियेव ताभ्यश्चलतीयमद्धापथान्न सत्सङ्गगुणेन नद्धा ॥६५॥पर्यङ्कतापन्नसरस्वदङ्कांलङ्कां पुरीमप्यभिलाषि चित्तम् ।कुत्रापि चेद्वस्तुनि ते प्रयातितदप्यवेहि स्वशये शयालु ॥६६॥इतीरिता पत्ररथेन तेनह्रीणा च हृष्टा च बभाण भैमी ।चेतो नलङ्कामयते मदीर्यंनान्यत्र कुत्रापि च साभिलाषम् ॥६७॥विचिन्त्य बालाजनशीलशैलंलज्जानदीमज्जदनङ्गनागम् ।आचष्ट विस्पष्टमभाषमाणा-मेनां स चक्राङ्गपतङ्गशक्रः ॥६८॥नृपेण पाणिग्रहणे स्पृहेतिनलं मनः कामयते ममेति ।आश्लेषि न श्लेषकवेर्भवत्याःश्लोकद्वयार्थः सुधिया मया किम् ॥६९॥त्वच्चेतसः स्थैर्यविपर्ययं तुसंभाव्य भाव्यस्मि तमज्ञ एव ।लक्ष्ये हि बालाहृदि लोलशीलेदरापराद्धेषुरपि स्मरः स्यात् ॥७०॥महीमहेन्द्रः खलु नैषधेन्दुःतद्वोधनीयः कथमित्थमेव ।प्रयोजनं सांशयिकं प्रतीदृक्पृथग्जनेनेव स मद्विधेन ॥७१॥पितुर्नियोगेन निजेच्छया वायुवानमन्यं यदि वा वृणीषे ।त्वदर्थमर्थित्वकृति प्रतीतिःकीदृङ्मयि स्यान्निषधेश्वरस्य ॥७२॥त्वपायि किं शङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये निदातुम् ।इतः पृथक्प्रार्थयसे तु यद्यत्कुर्वे तदुर्वीपतिपुत्रि ! सर्वम् ॥७३॥श्रवः प्रविष्टा इव तद्गिरस्ताविधूय वैमत्यधुतेन मूर्ध्ना ।ऊचे ह्रियोऽपि श्लथितानुरोधापुनर्धरित्रीपुरुहूतपुत्री ॥७४॥मदन्यदानं प्रति कल्पना यावेदस्त्वदीये हृदि तावदेषा ।निशोऽपि सोमेतरकान्तशङ्कामोंकारमग्रेसरमस्य कुर्याः ॥७५॥सरोजिनीमानसरागवृत्तेःअनर्कसंपर्कमतर्कयित्वा ।मदन्यपाणिग्रहशङ्कितेयम्-अहो महीयस्तव साहसिक्यम् ॥७६॥साधु त्वया तर्कितमेतदेवस्वेनानलं यत्किल संश्रयिष्ये ।विनामुना स्वात्मनि तु प्रहर्तुमृषागिरं त्वां नृपतौ न कर्तुम् ॥७७॥मद्विप्रलभ्यं पुनराह यस्त्वांतर्कः स किं तत्फलवाचि मूकः ।अशक्यशङ्काव्यभिचारहेतुःवाणी न वेदा यदि सन्तु के तु ॥७८॥अनैषधायैव जुहोति तातःकिं मां कृशानौ न शरीरशेषाम् ।ईष्टे तनूजन्मतनोः स नूनंमत्प्राणनाथस्तु नलस्तथापि ॥७९॥तदेकदासीत्वपदादुदग्रेमदीप्सिते साधु विधित्सुता ते ।अहेलिनां किं नलिनी विधत्तेसुधाकरेणापि सुधाकरेण ॥८०॥तदेकलुब्धे हृदि मेऽस्ति लब्धुंचिन्ता न चिन्तामणिमप्यनर्ष्यम् ।चित्ते ममैकः सकलत्रिलोकी-सारो निधिः पद्ममुखः स एव ॥८१॥श्रुतः स दृष्टश्च हरित्सु मोहात्द्यातः स नीरन्ध्रितबुद्धिधारम् ।ममाद्य तत्प्राप्तिरसुव्ययो वाहस्ते तवास्ते द्वयमेकशेषः ॥८२॥संचीयतामाश्रुतपालनोत्थंमत्प्राणविश्राणनजं च पुण्यम् ।निवार्यतामार्य ! वृथा विशङ्काभद्रेऽपि मुद्रेयमये ! भृशं का ॥८३॥अलं विलङ्घ्य प्रियविज्ञ ! याच्ञांकृत्वापि वाग्यं विविधं विधेये ।यशः पथादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात् ॥८४॥स्वजीवमप्यार्तमुदे ददद्भ्यःतव त्रपा नेदृशबद्धमुष्टेः ।मह्यं मदीयान्यदसूनदित्सोःधर्मः कराद्भ्रश्यति कीर्तिधौतः ॥८५॥दत्त्वात्मजीवं त्वयि जीवदेऽपिशुध्यामि जीवाधिकदे तु केन ।विधेहि तन्मां त्वदृणान्यशोद्धुम्अमुद्रदारिद्र्यसमुद्रमग्नाम् ॥८६॥क्रीणीष्व मज्जीवितमेव पण्वम्अन्यन्न चेदस्ति तदस्तु पुण्यम् ।जीवेशदातर्यदि ते न दातुंयशोऽपि तावत्प्रभवामि गातुम् ॥८७॥वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते ।प्राणैः पणः स्वं निपुणं भणन्तःक्रीणन्ति तानेव तु हन्त सन्तः ॥८८॥स भूभृदष्टावपि लोकपालाःतैर्मे तदेकाग्रधियः प्रसेदे ।न हीतरस्माद्धटते यदेत्यस्वयं तदाप्तिप्रतिभूर्ममाभूः ॥८९॥अकाण्डमेवात्मभुवार्जितस्यभूत्वापि मूलं मयि वीरणस्य ।भवान्न मे किं नलदत्वमेत्यकर्ता हृदश्चन्दनलेपकृत्यम् ॥९०॥अलं विलम्ब्य त्वरितुं हि वेलाकार्ये किल स्थैर्यसहे विचारः ।गुरूपदेशं प्रतिमेव तीक्ष्णाप्रतीक्षते जातु न कालमर्तिः ॥९१॥अभ्यर्थनीयः स गतेन राजात्वया न शुद्धान्तगतो मदर्थम् ।प्रियास्यदाक्षिण्यवलात्कृतो हितदोदयेदन्यवधूनिषेधः ॥९२॥शुद्धान्तसंभोगनितान्ततुष्टेन नैषधे कार्यमिदं निगाद्यम् ।अपां हि तृप्ताय न वारिधारास्वादुः सुगन्धिः स्वदते तुषारा ॥९३॥त्वया विधेया न गिरो मदर्थाःकुधा कदुष्णे हृदि नैषधस्य ।पित्तेन दूने रसने सितापितिक्तायते हंसकुलावतंस ! ॥९४॥धरातुरासाहि मदर्थयाच्ञाकार्या न कार्यान्तरचुम्बिचित्ते ।तदार्थितस्यानवबोधनिद्राबिभर्त्यवज्ञाचरणस्य मुद्राम् ॥९५॥विज्ञेन विज्ञाप्यमिदं नरेन्द्रेतस्मात्त्वयास्मिन्समयं समीक्ष्य ।आत्यन्तिकासिद्धिविलम्बिसिध्द्योःकार्यस्य कार्यस्य शुभा विभाति ॥९६॥इत्युक्तवत्या यदलोपि लज्जासानौचिती चेतसि नश्चकास्तु ।स्मरस्तु साक्षी तददोषतायाम्उन्माद्य यस्तत्तदवीवदत्ताम् ॥९७॥उन्मत्तमासाद्य हरः स्मरश्चद्वावप्यसीमां मुदमुद्वहेते ।पूर्वः परस्पर्धितया प्रसूनं नूनंद्वितीयो विरहाधिदूनम् ॥९८॥तथाभिधात्रीमथ राजपुत्रींनिर्णीय तां नैषधबद्धरागाम् ।अमोचि चञ्चूपुटमौनमुद्राविहायसा तेन विहस्य भूयः ॥९९॥इदं यदि क्ष्मापतिपुत्रि ! तत्त्वंपश्यामि तन्न स्वविधेयमस्मिन् ।त्वामुच्चकैस्तापयता नृपं चपञ्चेषुणैवाजनि योजनेयम् ॥१००॥त्वद्वद्धबुद्धेर्बहिरिन्द्रियाणांतस्योपवासव्रतिनां तपोभिः ।त्वमद्य लब्ध्वामृततृप्तिभाजांस्वदेवभूयं चरितार्थमस्तु ॥१०१॥तुल्यावयोर्मूर्तिरभून्मदीयादग्धा परं सास्य न ताप्यतेऽपि ।इत्यभ्यसूयन्निव देहतापंतस्यातनुस्त्वद्विरहाद्विधत्ते ॥१०२॥लिपिं दृशा भित्तिविभूषणं त्वांनृपः पिबन्नादरनिर्निमेषः ।चक्षुर्झरैरर्पितमात्मचक्षू-रागं स धत्ते रचितं त्वया नु ॥१०३॥पातुर्दृशालेख्यनयीं नृपस्यत्वामादरादस्तनिमीलयास्ते ।ममेदमित्यश्रुणि नेत्रवृत्तेःप्रीतेर्निमेषच्छिदया विवादः ॥१०४॥त्वं हृद्गता भैमि ! बहिर्गतापिप्राणायिता नासिकयास्यगत्या ।न चित्रमाक्रामति तत्र चित्रम्एतन्मनो यद्भवदेकवृत्ति ॥१०५॥अजस्रमारोहसि दूरदीर्घोसंकल्पसोपानततिं तदीयाम् ।श्वासान्स वर्षत्यधिकं पुनर्य-द्यानात्तव त्वन्मयतां तदाप्य ॥१०६॥हृत्तस्य यन्मन्त्रयते रहस्त्वांतद्व्यक्तमामन्त्रयते मुखं यत् ।तद्वैरिपुष्पायुधमित्रचन्द्र-सख्यौचिती सा खलु तन्मुखस्य ॥१०७॥स्थितस्य रात्रावधिशय्य शय्यांमोहे मनस्तस्य निमज्जयन्ती ।आलिङ्ग्य या चुम्बति लोचने सानिद्राधुना न त्वदृतेऽङ्गना वा ॥१०८॥स्मरेण निस्तक्ष्य वृथैव बाणैःलावण्यशेषां कृशतामनायि ।अनङ्गतामप्ययमाप्यमानःस्पर्धां न सार्धे विजहाति तेन ॥१०९॥त्वत्प्रापकात्त्रस्यति नैनसोऽपित्वय्येष दास्येऽपि न लज्जते यत् ।स्मरेण बाणैरतितक्ष्य तीक्ष्णैःलूनः स्वभावोऽपि कियान्किमस्य ॥११०॥स्मारं ज्वरं घोरमपत्रपिष्णोःसिद्धागदङ्कारचये चिकित्सौ ।निदानमौनादविशद्विशालासाङ्क्रामिकी तस्य रुजेव लज्जा ॥१११॥बिभेति रुष्टासि किलेत्यकस्मात्स त्वां किलापेति हसत्यकाण्डे ।यान्तीमिव त्वामनु यात्यहेतोःउक्तस्त्वयेव प्रतिवक्ति मोघम् ॥११२॥भवद्वियोगाच्छिदुरार्तिधारा-यमस्वसुर्मज्जति निःशरण्यः ।मूर्च्छामयद्वीपमहान्ध्यपङ्केहा हा महीभृद्भटकुञ्जरोऽयम् ॥११३॥सव्यापसव्यत्यजनाद्द्विरुक्तैःपञ्चेषुबाणैः पृथगर्जितासु ।दशासु शेषा खलु तद्दशा यातया नभः पुष्प्यतु कोरकेण ॥११४॥त्वयि स्मराधेः सततास्मितेनप्रस्थापितो भूमिभृतास्मि तेन ।आगत्य भूतः सफलो भवत्याभावप्रतीत्या गुणलोभवत्याः ॥११५॥धन्यासि वैदर्भि ! गुणैरुदारैःयया समाकृष्यत नैषधोऽपि ।इतः स्तुतिः कः खलु चन्द्रिकायायदब्धिमप्युत्तरलीकरोति ॥११६॥नलेन भायाः शशिना निशेवत्वया स भायान्निशया शशीव ।पुनः पुनस्तद्युगयुग्विधातायोग्यामुपास्ते नु युवां युयुक्षुः ॥११७॥स्तनद्वये तन्वि ! परं तवैवपृथो यदि प्राप्स्यति नैषधस्य ।अनल्पवैदग्ध्यविवर्धिनीनांपत्रावलीनां वलना समाप्तिम् ॥११८॥एकः सुधांशुर्न कथंचन स्यात्तृप्तिक्षमस्त्वन्नयनद्वयस्य ।त्वल्लोचनासेचनकस्तदस्तुनलास्यशीतद्युतिसद्वितीयः ॥११९॥अहो तपः कल्पतरुर्नलीयःत्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।त्वद्भ्रूयुगं यस्य खलु द्विपत्रीतवाधरो रज्यति यत्कलम्बः ॥१२०॥यस्ते नवः पल्लवितः कराभ्यांस्मितेन यः कोरकितस्तवास्ते ।अङ्गम्रदिम्ना तव पुष्पितो यःस्तनश्रिया यः फलितस्तवैव ॥१२१॥कांसीकृतासीत्खलु मण्डलीन्दोःसंसक्तरश्मिप्रकरा स्मरेण ।तुला च नाराचलता निजैवमिथोनुरागस्य समीकृतौ वाम् ॥१२२॥सत्त्वस्रुतस्वेदमधूत्थसान्द्रेतत्पाणिपद्मे मदनोत्सवेषु ।लग्नोत्थितास्त्वत्कुचपत्रलेखाःतन्निर्गतास्तं प्रविशन्तु भूयः ॥१२३॥बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुद्भिः ।प्रसूनवृष्टिं पुनरुक्तमुक्तांप्रतीच्छतं भैमि ! युवां युवानौ ॥१२४॥अन्योन्यसंगमवशादधुना विभातांतस्यापि तेऽपि मनसी विकसद्विलासे ।स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्त-मादाविवि ह्यणुककृत्परमाणुयुगमम् ॥१२५॥कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनु-र्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ ।ग्रीवालंकृतिपट्टसूत्रलतया पृष्ठे कियल्लम्बयाभ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥१२६॥त्वह्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभो-र्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् ।यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानं लस-न्नाभीमध्यबिला विलासमखिलं रोमालिरालम्बते ॥१२७॥पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनूरौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यश्चिक्षिपे ।निर्विद्याश्रयदाश्रयं स वितनुस्त्वां तज्जयायाधुनापत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥१२८॥इत्यालपत्यथ पतत्रिणि तत्र भैमींसख्यश्चिरात्तदनुसंधिपराः परीयुः ।शर्मास्तु ते विसृज मामिति सोऽप्युदीर्यवेगाज्जगाम निषधाधिपराजधानीम् ॥१२९॥चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्-त्प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् ।स्वादं स्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सातापं प्राय नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि ॥१३०॥तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तंवाप्यवारि न चिरादवधीवभूव ।पार्श्वेऽपि विप्रचकृषे यदनेनदृष्टेःआरादपि व्यवदधे न तु चित्तवृत्तेः ॥१३१॥अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैःआख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ।कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किं नु मुग्धे ।मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः ॥१३२॥सरसि नृपमपश्यद्यत्र तत्तीरभाजःस्मरतरलमशोकानोकहस्योपमूलम् ।किसलयदलतल्पम्लायिनं प्राप तं सज्वलदसमशरेषुस्पर्धिपुष्पार्द्धिमौलेः ॥१३३॥परवति दमयन्ति ! त्वां न किंचिद्वदामिद्रुतमुपनम किं मामाह सा शंस हंस ! ।इति वदति नलेऽसौ तच्छशंसोपनम्रःप्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥१३४॥कथितमपि नरेन्द्रः शंसयामास हंसंकिमिति किमिति पृच्छन्भाषितं स प्रियायाः ।अधिगतमथ सान्द्रानन्दमाध्वीकमत्तःस्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥१३५॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तार्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महा-काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥१३६॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP