संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| एकविंशतिः सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - एकविंशतिः सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत एकविंशतिः सर्गः Translation - भाषांतर तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः ।अपर्णान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे ॥१॥तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति ।तां प्यधत्त शिरसां खलु माल्यैराजराजिरभितः प्रणमन्ती ॥२॥द्रागुपाह्रियत तस्य नृपैतद्दृष्टिदानबहुमानकृतार्थैः ।स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥३॥अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् ।रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत् ॥४॥तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य ।अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः ॥५॥मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य ।स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छुः ॥६॥यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् ।गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना सिषिचुरुच्चकुचास्तम् ॥७॥भृभृतं पृथुतपोघनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः ।संदधज्जलधरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥८॥प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् ।स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत् ॥९॥कल्प्यमानममुनाचमनाअर्थं गाङ्गमम्बु चुलुकोदरचुम्बि ।निर्मलत्वमिलितप्रतिबिम्बद्यामयच्छदुपनीय करे नु ॥१०॥मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा ।अङ्गमङ्गमनुकं परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥११॥मूलमध्यशिखरस्थितवेधःशौरिशंभुकरकाङ्घ्रिशिरःस्थैः ।तस्य मूर्ध्नि चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः ॥१२॥प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य ।आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥१३॥मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् ।अम्बरं परिदधे विधुमौलेः स्पर्धयेव दशदिग्वसनस्य ॥१४॥भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः ।आववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥१५॥स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः ।केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाप्लवनश्रीः ॥१६॥श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् ।वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवासीत् ॥१७॥राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण ।भ्रान्तयः स्फुरति तेजसि चक्रुस्त्वष्टृतर्कुचलदर्कवितर्कम् ॥१८॥सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानमभजन्त कराब्जे ।शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥१९॥पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य ।न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोऽभूत् ॥२०॥पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन ।ब्रह्मचारिपरिचारि सुरार्चा वेश्म राजऋषिरेष विवेश ॥२१॥क्वापि यन्नभसि धूपजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् ।भूयते स्म सुमनःसुमनःस्रग्दामधामपटले पटलेन ॥२२॥साङ्कुरेव रुचिपीततमा यैर्यैः पुरास्ति रजनी रजनीव ।ते धृआ वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥२३॥यत्र मौक्तिकमणेर्विरहेण प्रीतिकामधृतवह्निपदेन ।कङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः ॥२४॥अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् ।प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि ॥२५॥गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति ।यत्र साम्यमगमन्नमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः ॥२६॥उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने ।भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम् ॥२७॥स्खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसंपत् ।मल्लिकाकुसुमराशिरकाऋषीद्यत्र च स्फटिकसानुमनुच्चम् ॥२८॥स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूमवजज्ञौ ।हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥२९॥यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः ।गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥३०॥नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये ।अध्यतिष्ठदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥३१॥सम्यगर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुनाकलि कर्णः ।श्रद्दधानहृदयप्रति चातः साम्बमम्बरमणिर्निरचैषीत् ॥३२॥तत्तदर्यमरहस्यजपेषु स्रङ्नयः शयममुष्य बभाज ।रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥३३॥हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः ।आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥३४॥अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन ।सोयमापयदतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥३५॥नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् ।स्फाटिकीमपि तनुं निरमासीन्नीलकण्ठपदसान्वयतायै ॥३६॥प्रीतिमेष्यति कृतेन ममेदृक्कर्मणा पुररिपुर्मदनारिः ।तत्पुरः पुरमतोयमधाक्षीद्धूपरूपमथ कामशरं च ॥३७॥तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् ।शूलिमौलिशशिभीततयाऽभूद्ध्यानमूर्च्छननिमीलितनेत्रः ॥३८॥दण्डवद्भुवि लुठन्स ननाम त्र्यम्बकं शरणभागिव कामः ।आत्मशस्त्रविशिखासनबाणान्न्यस्य तत्पदयुगे कुसुमानि ॥३९॥त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि ।दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यमुपगम्य ननाम ॥४०॥व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् ।भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिरश्रयत रुद्रपरस्य ॥४१॥उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः ।द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य ववन्दे ॥४२॥मल्लिकाकुसुमदुण्डुभकेन स भ्रामीवलयितेन कृते तम् ।आसने निहितमैक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥४३॥मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि स्फुरति स्म ।कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥४४॥स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य ।मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तमकार्षीत् ॥४५॥नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः ।शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् ॥४६॥राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् ।निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥४७॥अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः ।तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥४८॥अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसंकरमेत्य ।शौरिमुक्तजपितुः पुनरापत्पद्मसद्मचिरवासविलासम् ॥४९॥कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन ।जह्नुजेव भुवनप्रभुणाऽभात्सेवितानुनयतायतमाना ॥५०॥स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन ।गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥५१॥इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः ।सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः ॥५२॥दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा ।तत्क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत् ॥५३॥स्वप्रकाश जड एष जनस्ते वर्णनं यदभिलष्यति कर्तुम् ।नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम् ॥५४॥मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते ।उत्कचातकयुगस्य घनः स्यात्तृप्तये घनमनाप्नुवतोऽपि ॥५५॥छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः ।श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा ॥५६॥भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः ।चुम्बितावतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥५७॥दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान् ।तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टयेऽस्तु मम वाऽस्तु जगत्याः ॥५८॥उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः ।ब्राह्ममण्डमभवद्वलिनीपं केलिकोल तव तत्र न मातः ॥५९॥दानवाद्यगहनप्रभवस्त्वं सिंह मामव रवैर्घनघोरैः ।वैरिदारिदिविषत्सुकृतास्त्रग्रामसंभवभवन्मनुजार्धः ॥६०॥दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसंपदमिवोद्धरतस्ते ।पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलग्नतदन्त्रम् ॥६१॥स्वेन पूर्यत इयं सकलाशा भो बले न मम किं भवतेति ।त्वं बटुः कपटवाचि पटीयान्देहि वामन मनःप्रमदं नः ॥६२॥दानवारिरसिकायविभूतेर्वश्मि तेऽस्मि सुतरां प्रतिपत्तिम् ।इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम् ॥६३॥भोगिभिः क्षितितले दिवि वासं बन्धमेष्यसि चिरं ध्रियमाणः ।पाणिरेष भुवनं वितरेति छद्मवाग्भिरव वामन विश्वम् ॥६४॥आशयस्य विवृतिः क्रियते किं दित्सुरस्मि हि भवच्चरणेभ्यः ।विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन पायाः ॥६५॥क्षत्त्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् ।जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम् ॥६६॥पांसुला बहुपतिर्नियतं या वेधसारचि रुषा नवखण्डा ।तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात् ॥६७॥कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये ।कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते ॥६८॥हस्तलेखमसृजत्खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥६९॥उद्भवाजतनुजादज कामं विश्वभूषण न दूषणमत्र ।दूषणप्रशमनाय समर्थं येन देव तव वैभवमेव ॥७०॥नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं रघुवीर ।येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम् ॥७१॥आज्ञया च पितुरज्ञभिया च श्रीरहीयत महीप्रभवा द्विः ।लङ्घितश्च भवता किमु नद्विर्वारिराशिरुदकाङ्कगलङ्कः ॥७२॥कामदेवविशिखैः खलु नेशं माऋपयज्जनकजामिति रक्षः ।दैवतादमरणे वरवाक्यं तथ्ययत्स्वमपुनाद्भवदस्त्रैः ॥७३॥तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि ।नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात् ॥७४॥मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपाऋज्य यशस्तत् ।ह्रीणवानसि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥७५॥इष्टदारविरहौर्वपयोधिस्त्वं शरण्य शरणं स ममैधि ।लक्ष्मणक्षाणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥७६॥क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजत्कविराद्यः ।स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध ॥७७॥विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः ।किं चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥७८॥ते हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः ।छद्मयादवतनोरुदपाटि स्पर्धमान इव दानमदेन ॥७९॥बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान् ।भाविबाणभुजभेदनलीलासूत्रपात्र इव पातु तदस्मान् ॥८०॥कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम् ॥८१॥नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।मा स भूत्सुरवधूसुरतज्ञो दिव्यपि व्रतविलोपभियेति ॥८२॥घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः ।अर्धदुःखसुखमभ्यनयस्त्वं सास्रुभानुविहसद्विधुनेत्रः ॥८३॥प्राणवत्प्रणयिराध न राधा पुत्रशत्रुसखिता सदृशी ते ।श्रीप्रियस्य सदृगेव तवश्रीवत्समात्महृदि धर्तुमजस्रम् ॥८४॥तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः ।साध्वसाववतरस्तव धत्ते तज्जरच्चिकुरनालविलासः ॥८५॥हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः ।भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥८६॥रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा ।कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥८७॥एकचित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् ।पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः ॥८८॥तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ ।पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्त्रशरसंततिरेव ॥८९॥तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे ।कुण्ठनादतितमां कुसुमानां छत्त्रमित्त्रमुखतैव शराणाम् ॥९०॥यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः ।त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्ब्रुवतया शितिकण्ठः ॥९१॥भूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिनां करवालम् ।कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥९२॥देहिनेव यशसा भ्रमतोर्व्यां पाण्डुरेण रणरेणुभिरुच्चैः ।विष्णुना जनयितुर्भवताभून्नाम विष्णुयशसश्च सदर्थम् ॥९३॥सन्तमद्वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोर्जनबीजम् ।नौमि योगजयितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥९४॥भानुसुनुमनुगृह्य जय त्वं राममूर्तिहतवृत्रहपुत्रः ।इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्न निहतार्कतनूजम् ॥९५॥वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः ।वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त नमस्ते ॥९६॥मां त्रिविक्रम पुनीहि पदे ते किं लगन्नजनि राहुरुपानत् ।किं प्रदक्षिणनकृद्भ्रमिपाशं जाम्बवानदित ते बलिबन्धे ॥९७॥अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम् ।तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चिक्रम् ॥९८॥पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि ।चेतनाः स्थ किल पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ॥९९॥तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव ।स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥१००॥त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः ।आननं च नयनायितबिम्बः सेवते कुमुदहासकरांशुः ॥१०१॥ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च ।हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति ॥१०२॥केयमर्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम् ।शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम् ॥१०३॥प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् ।नापरः स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः ॥१०४॥ऊर्ध्वदिक्कदलनां द्विरकार्षीः किं तनुं हरिहरीभवनाय ।किं च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ॥१०५॥आप्तकाम सृजसि त्रिजगत्किं किं भिनत्सि यदि निर्मितमेव ।पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥१०६॥जाह्नवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् ।उत्थिताब्धिसलिलात्त्वयि लोला श्रीःस्थिता परिचितान्परिचिन्त्य ॥१०७॥वस्तु वास्तु घटते न भिदानां यौक्तनैकविधबाधविरोधैः ।तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्वनिरुक्तिः ॥१०८॥वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः ।स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वमवैषि ॥१०९॥ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् ।बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः ॥११०॥धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः ।कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव ॥१११॥लीलयापि तव नाम जना ये गृह्णते नरकनाशकरस्य ।तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्यतु कथं नरकेभ्यः ॥११२॥मृत्युहेतुषु न वज्रनिपाताद्भीतिमर्हति जनस्त्वयि भक्तः ।यत्तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥११३॥सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये ।उद्भवन्ति भविनां हृदि तेषां शोधनी भवदनुस्मृतिधारा ॥११४॥अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥११५॥भक्तिभाजमनुगृह्य दृशा मां भाष्करेण कुरु वीततमस्कम् ।अर्पितेन मम नाथ न तापं लोचनेन विधुना विधुनासि ॥११६॥लङ्घयन्नहरहर्भवदाज्ञामस्मि हा विधिनिषेधमयीं यः ।दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥११७॥विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि कुर्वे ।हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥११८॥इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः समपादि ।भावनाबलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः ॥११९॥विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः ।श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं प्रविवेश ॥१२०॥माध्यंदिनादनु विधेर्वसुधाषुधांशुरास्वादितामृतमयौदनमोदमानः ।प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचीभिरलंचकार ॥१२१॥भीमात्मजापि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु ।तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरातिभरालसाङ्गी ॥१२२॥तामन्वगादशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य ।कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥१२३॥कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन ।तिर्यग्धृतस्फटिकदण्डकवर्तिनैका तामन्ववर्तत पिकेन मदाधिकेन ॥१२४॥शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः ।आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम् ॥१२५॥तासामभासत कुरङ्गदृशां विपञ्ची किंचित्पुरः कलितनिष्कलकाकलीका ।भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव ॥१२६॥सा यद्धृताखिलकलागुणभूमभूमीभैमीतुलाधिगतये स्वरसंगतासीत् ।तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति ॥१२७॥नादं निषादमधुरं ततमुज्जगार साभ्यासभागवनिभृत्कुलकुञ्जरस्य ।स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा वीणा विचित्रकरचापलमाभजन्ती ॥१२८॥आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरमसर्जि न कण्ठनालम् ।तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचत्किमु वालयेषु ॥१२९॥तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम् ।इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन्मुदमुदीरयति स्म विश्वाः ॥१३०॥अस्माकमुक्तिभिरवैष्यथ एव बुद्धेर्गाधं युवामतिमती स्तुमहे तथापि ।ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न स्यात् ॥१३१॥भूभृद्भवाङ्कभुवि राजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् ।यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः ॥१३२॥एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति ।त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः ॥१३३॥एतां धरामिव सरिच्छविहारिहारामुल्लासितस्वमिदमाननचन्द्रभासा ।बिभ्रद्विभासि पयसामिव राशिरन्तर्वेदिश्रियं जनमनः प्रियमध्यदेशाम् ॥१३४॥दत्ते जयं जनितपत्त्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी ।मध्यस्थदुर्बलतमत्वफलं किमेतद्भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः ॥१३५॥चेतोभवस्य भवती कुचपत्त्रराजधानीयकेतुमकरा ननु राजधानी ।अस्यां महोदयमहस्पृशिमीनकेतो के तोरणं तरुणि न ब्रुवते भ्रुवौ ते ॥१३६॥अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छति नाम गच्छन् ।छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्वजस्य ॥१३७॥स्वेदाप्लवप्रणयिनी नवरोमराजी रत्यै यदाचरति जागरितव्रतानि ।आभासितेन नरनाथ मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः ॥१३८॥प्राप्ता तवापि नृप जीवितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी ।ते ते यथा रतिपतेः कुसुमानि बाणाः स्वेदस्तथैव किमु तस्य शरक्षतास्रम् ॥१३९॥रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयमजायत रक्तमेतत् ।तद्वीक्ष्य वां किमिह केलिसरित्सरोजैःकामेषुतोचितमुखत्वमधीयमानम् ॥१४०॥अन्योन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिदपयातु तदालिवर्गः ।अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥१४१॥इति पठति शुके मृषा ययुस्ता बहु नृपकृत्यमवेत्य सांधिवेलम् ।कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्यः ॥१४२॥अकृत परभृतः स्तुहिस्तुहीति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुः ।पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥१४३॥तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्यामद्राक्षोदर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् ।वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्तान्योन्यं विद्रुत्य तीरे रथपदमिथुनैः सूचितामर्तिरुत्या ॥१४४॥अथ रथचरणौ विलोक्य रक्तावतिविरहासहताहताविवास्रैः ।अपि तमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा ॥१४५॥अभिलपति पतिं प्रति स्म भैमी सदय विलोकय कोकयोरवस्थाम् ।मम हृदयमिमौ च भिन्दतीं हा क इव विलोक्य नरो न रोदितीमाम् ॥१४६॥कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत् ।प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥१४७॥अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ ।इदमहह निदर्शनं विहंगौ विधिवशचेतनचेष्टनानुमाने ॥१४८॥अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता ।रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणवलये संसज्य किं निज्यते ॥१४९॥इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय ।स्मितशबलवलन्मुखोऽवदत्तां स्फुटमिदमीदृशमीदृशं यथात्थ ॥१५०॥स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ ।त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥१५१॥पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्यते ।का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः ॥१५२॥खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत्पुण्ड्रकः ।स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरामुद्देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः ॥१५३॥उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्दानान्तःश्रुतशऋकराचलमथः स्वेनामृतान्धाः स्मरः ।नव्यामिक्षुरसोदधेर्यदि सुधामुत्थापयेत्सा भवज्जिह्वायाः कृतिमाह्वयेत परमां मत्कर्णयोः पारणाम् ॥१५४॥आस्ये या तव भारती वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते ।तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥१५५॥वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती कापि ते खण्डः खण्ड इतीदमीयपुलिनस्यालप्यते वालुका ।एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः किं पीयूषमिदंपयांसि किमिदं तीरे तवैवाधरौ ॥१५६॥परभृतयुवतीनां सम्यगायाति गातुं न तव तरुणि वाणी यं सुधासिन्धुवेणी ।कति न रसिककण्ठे कर्तुमभ्यस्यतेऽसौ भवदुपविपिनाम्रे ताभिराम्रेडितेन ॥१५७॥ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता ।एषा वागपि तावकी ननु धनुर्वेदः प्रिये मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिरभ्यस्यते ॥१५८॥स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यपाङ्क्तेयतां तं च स्प्रस्ष्टुमपि स्मरस्य विशिखा मुग्धे विगानोन्मुखाः ।यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृङ्नाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम् ॥१५९॥मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलिघिमा मां प्रतीशित्वमेषि ।सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् ॥१६०॥त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुमस्तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स जानेऽजनि ।द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥१६१॥शोकश्चेत्कोकयोस्त्वां सुदति तुदति तद्व्याहराज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् ।बद्धे मय्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥१६२॥तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् ।इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं यंतनविधिविधित्सुर्बहिरभूत् ॥१६३॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।तस्यागादयमेकविंशगणनाकाव्येऽतिनव्येकृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥१६४॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP