संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| पञ्चदश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - पञ्चदश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत पञ्चदश सर्गः Translation - भाषांतर अथोपकार्या निषधावनीपतिःनिजामयासीद्वरणस्रजाञ्चितः ।वसूनि वर्षन्सुबहूनि बन्दिनांविशिष्यभैमीगुणकीर्तनाकृताम् ॥१॥तथा पथि त्यागमयं वितीर्णवान्यथातिभाराधिगमेन मागधैः ।तृणीकृतं रत्ननिकाय मुच्चकैःचिकाय लोकश्चिरमुञ्छमुत्सुकः ॥२॥त्रपास्य न स्यात्सदसि स्त्रियान्वयात्कुतोऽतिरूपः सुखभाजनं जनः ।अमूदृशी तत्कविबन्दिवर्णनैःअवाक्कृता राजकरञ्जिलोकवाक् ॥३॥अदोषतामेव सतां विवृण्वतेद्विषां मृषादोषकणाधिरोपणाः ।न जातु सत्ये सति दूषाणे भवे-दलीकमाधातुमवद्यमुद्यमः ॥४॥विदर्भराजोऽपि समं तनूजयाप्रविश्य हृष्यन्नवरोधमात्मनः ।शशंस देवीमनुजातसंशयांप्रतीच्छ जामातरमुत्सुके नलम् ॥५॥तनुत्विषा यस्य तृणं स मन्मथाकुलश्रिया यः पवितास्मदन्वयम् ।जगत्त्रयीनायकमेलके वरंसुतां परं वेद विवेक्तुमीदृशम् ॥६॥सृजन्तु पाणिग्रहमङ्गलोचितामृगीदृशः स्त्रीसमयस्पृशः क्रियाः ।श्रृतिस्मृतीनां तु वयं विदध्महेविधीनिति स्माह च निर्ययौ च सः ॥७॥निरीय भूपेन निरीक्षिताननाशशंस मौहूर्तिकसंसदंशकम् ।गुणैररीणैरुदयास्तनिस्तुषांतदा स दातुं तनयां प्रचक्रमे ॥८॥अथावदद्दूतमुखः स नैषधंकुलं च बाला च ममानुकम्प्यताम् ।स पल्लवत्वद्य मनोरथाङ्क्रुर-श्चिरेण नस्त्वच्चरणोदकैरिति ॥९॥तथोत्थितं भीमवचःप्रतिध्वनिंनिपीय दूतस्य स वक्त्रगह्वरात् ।व्रजामि वन्दे चरणौ गुरोरितिब्रुवन्प्रदाय प्रजिघाय तं बहु ॥१०॥निपीतदूतालपितस्ततो नलंविदर्भभर्तागमयांबभूव सः ।निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः ॥११॥क्वचित्तदालेपनदानपण्डिताकमप्यहंकारमगात्पुरस्कृता ।अलम्भि तुङ्गासनसंनिवेशना-दपूपनिर्माणविदग्धयादरः ॥१२॥मुखानि मुक्तामणितोरणोद्गतै-र्मरीचिभिः पान्थविलासमाश्रितैः ।पुरस्य तस्याखिलवेश्मनामपिप्रमोदहासच्छुरितानि रेजिरे ॥१३॥पथामनीयन्त तथाधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः ।वितानतामातपनिर्भयास्तदापटच्छिदाकालिकपुष्पजाः स्रजः ॥१४॥विभूषणैः कञ्चुकिता बभुः प्रजाविचित्रचित्रैः स्नपितत्विषो गृहाः ।बभूव तस्मिन्मणिकुट्टिमैः पुरेवपुः स्वमुर्व्याः परिवर्तितोपमम् ॥१५॥तदा निसस्वानतमां घनं घनंननाद तस्मिन्नितरां ततं ततम् ।अवापुरुच्चैः सुषिराणि राणिताम्अमानमानद्धमियत्तयाध्वनीत् ॥१६॥विपञ्चिराच्छादि न वेणुभिर्न तेप्रणीतगीतैर्न च तेऽपि झर्झरैः ।न ते हुहुक्केन न सोऽपि ढक्कयान मर्दलैः सापि न तेऽपि ढक्कया ॥१७॥विचित्रवादित्रनिनादमूर्च्छितःसुदूरचारी जनतामुखारवः ।ममौ न कर्णेषु दिगन्तदन्तिनांपयोधिपूरप्रतिनादमेदुरः ॥१८॥उदस्य कुम्भीरथ शातकुम्भजाःचतुष्कचारुत्विषि वेदिकोदरे ।यथाकुलाचारमथावनीन्द्रजांपुरन्ध्रिवर्गः स्नपयांबभूव ताम् ॥१९॥विजित्य दास्यादिव वारिहारिताम्अवापितास्तत्कुचयोर्द्वयेन ताः ।शिखामवाक्षुः सहकारशाखिन-स्त्रपाभरम्लानिमिवानतैर्मुखैः ॥२०॥असौ मुहुर्जातजलाभिषेचनाक्रमाद्दुकूलेन सितांशुनोज्ज्वला ।द्वयस्य वर्षाशरदां तदातनींसनाभितां साधु बबन्ध संध्यया ॥२१॥पुरा प्रभिन्नाम्बुददुर्दिनीकृतांनिनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।शिरोरुहौघेण घनेन वर्षताक्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥२२॥विरेजिरे तच्चिकुरोत्कराः किराःक्षाणं गलन्निर्मलवारिविप्रुषाम् ।तमःसुहृच्चामरनिर्जयार्जिताःसिता वमन्तः खलु कीर्तिमुक्तिकाः ॥२३॥म्रदीयसा स्नानजलस्य वाससाप्रमार्जनेनाधिकमुज्ज्वलीकृताः ।अदभ्रमभ्राजत साश्मशाणनात्प्रकाशरोचिःप्रतिमेव हेमजा ॥२४॥तदा तदङ्गस्य बिभर्ति विभ्रमंविलेपनामोदमुचः स्फुरद्रुचः ।दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि ॥२५॥अवापितायाः शुचिवेदिकान्तरंकलासु तस्याः सकलासु पण्डिताः ।क्षणेन सख्यश्चिरशिक्षणैः स्फुटंप्रतिप्रतीकं प्रतिकर्म निर्ममुः ॥२६॥विनापि भूषामवधिः श्रियामियंव्यभूषि विज्ञाभिरदर्शि चाधिका ।न भूषयैषाधिचकास्ति किं तु सानयेति कस्यास्तु विचारचातुरी विधाय ॥२७॥विधाय बन्धूकपयोजपूजनेकृतां विधोर्गन्धफलीबलिश्रियम् ।निनिन्द लब्धाधरलोचनार्चनंमनःशिलाचित्रकमेत्य तन्मुखम् ॥२८॥महीमधोनां मदनान्धतातमी-तमःपटारम्भणतन्तुसंततिः ।अबन्धि तन्मूर्धजपाशमञ्जरीकयापि धूपग्रहधूमकोमला ॥२९॥पुनःपुनः काचन कुर्वती कच-च्छटाधिया धूपजधूमसंयमम् ।सखी स्मितैस्तर्किततन्निजभ्रमाबबन्ध तन्मूर्धजचामरं चिरात् ॥३०॥बलस्य कृष्टेव हलेन भाति याकलिन्दकन्या घनभङ्गभङ्गुरा ।तदार्पितैस्तां करुणस्य कुड्नलैःजहास तस्याः कुटिला कचच्छटा ॥३१॥धृतैतया हाटकपट्टिकालिकेबभूव केशाम्बुदविद्युदेव सा ।मुखेन्दुसंबन्धवशात्सुधाजुषःस्थिरत्वमूहे नियतं तदायुषः ॥३२॥ललाटिकासीमनि चूर्णकुन्तलाबभुः स्फुटं भीमनरेन्द्रजन्मनः ।मनःशिलाचित्रकदीपसंभवाभ्रामीभृतः कज्जलधूमवल्लयः ॥३३॥अपाङ्गमालिङ्ग्य तदीयमुच्चकै-रदीपि रेखा जनिताञ्जनेन या ।अपाति सूत्रं तदिव द्वितीययावयःश्रिया वर्धयितुं विलोचने ॥३४॥अनङ्गलीलाभिरपाङ्गधाविनःकनीनिकानीलमणेः पुनः पुनः ।तमिस्रवंशप्रभवेन रश्मिनास्वपद्धतिः सा किमरञ्जि नाञ्जनैः ॥३५॥असेविषातां सुषमां विदर्भ-जादृशाववाप्याञ्जनरेखयाऽन्वयम् ।भुजद्वयज्याकिणपद्धतिस्पृशोःस्मरेण बाणीकृतयोः पयोजयोः ॥३६॥तदक्षितत्कालतुलागसा नखंनिखाय कृष्णस्य मृगस्य चक्षुषी ।विधिर्यदुद्धर्तुमियेष तत्तयो-रदूरवर्तिक्षतता स्म शंसति ॥३७॥विलोचनाभ्यामतिमात्रपीडितेवतंसनीलाम्बुरुहद्वयीं खलु ।तयोः प्रतिद्वन्द्विधियाधिरोपयां-बभूवतुर्भीमसुताश्रुती ततः ॥३८॥धृतं वतंसोत्पलयुग्ममेतयाव्यराजदस्यां पतिते दृशाविव ।मनोभुवान्ध्यं गमितस्य पश्यतःस्थिते लगित्वा रसिकस्य कस्यचित् ॥३९॥विदर्भपुत्रीश्रवणावतंसिका-मणीमहःकिंशुककार्मुकोदरे ।उदीतनेत्रोत्पलबाणसंभृति-र्नलं परं लक्ष्यमवैक्षत स्मरः ॥४०॥अनाचरत्तथ्यमृषाविचारणांतदाननं कर्णलतायुगेन किम् ।बबन्ध जित्वा मणिकुण्डले विधूद्विचन्द्रबुद्ध्या कथितावसूयकौ ॥४१॥अवादि भैमी परिधाप्य कुण्डलेवयस्ययाभ्यामभितः समन्वयः ।त्वदाननेन्दोः प्रियकामजन्मनिश्रयत्ययं दौरुधरीं धुरं ध्रुवम् ॥४२॥निवेशितं यावकरागदीप्तयेलगत्तदीयाधरसीम्नि सिक्थकम् ।रराज तत्रैव निवस्तुमुत्सुकंमधूनि निर्धूय सुधासधर्मणि ॥४३॥स्वरेण वीणेत्यविशेषणं पुरास्फुरत्तदीया खलु कण्ठकन्दली ।अवाप्य तन्त्रीरथ सप्त मुक्तिका-सरानराजत्परिवादिनी स्फुटम् ॥४४॥उपास्यमानाविव शिक्षितुंततो मृदुत्वमप्रौढमृणालनालया ।विरेजतुर्माङ्गलिकेन संगतौभुजौ सुदत्या वलयेन कम्बुनः ॥४५॥पदद्वयेऽस्या नवयावरञ्जनाजनैस्तदानीमुदनीयतार्पिता ।चिराय पद्मौ परिरभ्य जाग्रतीनिशीव विश्लिष्य नवा रविद्युतिः ॥४६॥कृतापराधः सुतनोरनन्तरंविचिन्त्य कान्तेन समं समागमम् ।स्फुटं सिषेव कुसुमेषुपावकःस रागचिह्नश्चरणौ न यावकः ॥४७॥स्वयं तदङ्गेषु गतेषु चारुतांपरस्परेणैव विभूषितेषु च ।किमूचिरेऽलंकरणानि तानि तद्दृथैव तेषां करणं बभूव यत् ॥४८॥क्रमाधिकामुत्तरमुत्तरं श्रियंपुपोष यां भूषणचुम्बनैरियम् ।पुरः पुरस्तस्थुषि रामणीयकेतया बबाधेऽवधिबुद्धिधोरणिः ॥४९॥मणीसनाभौ मुकुरस्य मण्डलेबभौ निजास्यप्रतिबिम्बदर्शिनी ।विधोरदूरं स्वमुखं विधाय सानिरूपयन्तीव विशेषमेतयोः ॥५०॥जितस्तदास्येन कलानिधिर्दधेद्विचन्द्रधीसाक्षिकमायकायताम् ।तथापि जिग्ये युगपत्सखीयुग-प्रदर्शितादर्शबहूभविष्णुना ॥५१॥किमालियुग्मार्पितदर्पणद्वयेतदास्यमेकं बहु चान्यदम्बुजम् ।हिमेषु निर्वाप्य निशासमाधिभिःतदीयसालोक्यमितं व्यलोक्यत ॥५२॥पलाशदामेतिमिलच्छिलीमुखै-र्वृता विभूषामणिरश्मिकार्मुकैः ।अलक्षि लक्षैर्धनुषामसौ तदारतीशसर्वस्वतयाऽभिरक्षिता ॥५३॥विशेषतीर्थैरिव जह्नुनन्दिनीगुणैरिवाजानिकरागभूमिता ।जगाम भाग्यैरिव नीतिरुज्ज्वलै-र्विभूषणैस्तत्सुषमा महार्धताम् ॥५४॥नलात्स्ववैश्वस्त्यमनाप्तुमानतानृपस्त्रियो भीममहोत्सवागताः ।तदङ्घ्रिलाक्षामदधन्त मङ्गलंशिरःसु सिन्दूरमिव प्रियायुषे ॥५५॥अमोघभावेन सनाभितां गताःप्रसन्नगीर्वाणवराक्षरस्रजाम् ।ततः प्रणम्राधिजगाम सा ह्रियागुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥५६॥तथैव तत्कालमथानुजीविभिःप्रसाधनासञ्जनशिल्पपारगैः ।निजस्य पाणिग्रहणक्षणोचिताकृता नलस्यापि विभोर्विभूषणा ॥५७॥नृपस्य तत्राधिकृताः पुनः पुन-र्विचार्य तान्बन्धमवापिपन्कचान् ।कलापलीलोपनिधिर्गरुत्त्यजः स यैरपालापि कलापिसंपदः ॥५८॥पतत्त्रिणां द्राधिमशालिना धनु-र्गुणेन संयोगजुषां मनोभुवः ।कचेन तस्यार्जितमार्जनश्रियासमेत्य सौभाग्यमलम्भि कुङ्नलैः ॥५९॥अनर्ध्यरत्नौघमयेन मण्डितोरराज राजा मुकुटेन मूर्धनि ।वनीपकानां स हि कल्पभूरुह-स्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥६०॥नलस्य भाले मणिवीरपट्टिका-निभेन लग्नः परिधिर्विधोर्बभौ ।तदा शशाङ्काधिकरूपतां गतेतदानने मातुमशक्नुवन्निव ॥६१॥बभूव भैम्याः खलु मानसौकसंजिघांसतो धैर्यभरं मनोभुवः ।उपभ्रु तद्वर्तुलचित्ररूपिणीधनुःसमीपे गुलिकेव संभृता ॥६२॥अचुम्बि या चन्दनबिन्दुमण्डलीनलीयवक्त्रेण सरोजतर्जिना ।श्रियं श्रिता काचन तारकासखीकृता शशाङ्कस्य तयाङ्कवर्तिनी ॥६३॥न यावदग्निभ्रममेत्युदूढतांनलस्य भैमीति हरेर्दुराशया ।स बिन्दुरिन्दुः प्रहितः किमस्य सान वेति भाले पठितुं लिपीमिव ॥६४॥कपोलपालीजनिजानुबिम्बयोःसमागमात्कुण्डलमण्डलद्वयी ।नलस्य तत्कालमवाप चित्तभूःअथ स्फुरच्चक्रचतुष्कचारुताम् ॥६५॥श्रितास्य कण्ठं गुरुविप्रवन्दना-द्विनम्रमोलेश्चिबुकाग्रचुम्बिनी ।अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥६६॥यतोऽजनि श्रीर्बलवान्बलं द्विषन्बभूव यस्याजिषु वारणेन सः ।अपूपुरत्तान्कमलार्थिनो घनान्समुद्रभावं स बभार तद्भुजः ॥६७॥कृतार्थयन्नर्थिजनाननारतंबभूव तस्यामरभूरुहः करः ।तदीयमूले निहितं द्वितीयवद्द्ध्रुवं दधे कङ्कणमालवालताम् ॥६८॥रराज दोर्मण्डनमण्डलीजुषोःस वज्रमाणिक्यसितारुणत्विषोः ।मिषेण वर्षन्दशदिङ्मुखोन्मुखौयशःप्रतापाववनीजयार्जितौ ॥६९॥घने समस्तापघनावलम्बिनांविभूषणानां मणिमण्डले नलः ।स्वरूपरेखामवलोक्य निष्फली-चकार सेवाचणदर्पणार्पणाम् ॥७०॥व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणाऋपणाद्युतिः ।अदर्शि विस्फारितरत्नलोचनैःपरस्परेणेव विभूषणैरपि ॥७१॥ततोऽनु वार्ष्णेयनियन्तृकं रथंयुधि क्षितारिक्षितिभृज्जयद्रथः ।नृपः पृथासूनुरिवाधिरूढवान्सजन्ययात्रामुदितः किरीटवान् ॥७२॥विदर्भनाम्नस्त्रिदिवस्य वीक्षितुंरसोदयादप्सरसस्तमुज्ज्वलम् ।गृहाद्गृहादेत्य धृतप्रसाधनाव्यराजयन्राजपथानथाधिकम् ॥७३॥अजानती कापि विलोकनोत्सुकासमीरधूतार्धमपि स्तनांशुकम् ।कुचेन तस्मै चलतेऽकरोत्पुरःपुराङ्गना मङ्गलकुम्भसंभृतिम् ॥७४॥सखीं नलं दर्शयमानयाङ्कतोजवादुदस्तस्य करस्य कङ्कणे ।विषज्य हारैस्त्रुटितैरतर्कितैःकृतं कयापि क्षणलाजमोक्षणम् ॥७५॥लसन्नखादर्शमुखाम्बुजस्मित-प्रसूनवाणीमधुपाणिपल्लवम् ।यियासतस्तस्य नृपस्य जज्ञिरेप्रशस्तवस्तूनि तदेवयौवतम् ॥७६॥करस्थताम्बूलजिघत्सुरेकिकाविलोकनैकाग्रविलोचनोत्पला ।मुखे निचिक्षेप मुखद्विराजता-रुषेव लीलाकमलं विलासिनी ॥७७॥कयापि वीक्षाविमनस्कलोचनेसमाज एवोपपतेः समीयुषः ।घनं सविघ्नं परिरम्भसाहसैःतदा तदालोकनमन्वभूयत ॥७८॥दिदृक्षुरन्या विनिमेषावीक्षणांनृणामयोग्यां दधती तनुश्रियम् ।पदाग्रमात्रेण यदस्पृशन्महींन तावता केवलमप्सरोऽभवत् ॥७९॥विभूषणस्रंसनशंसनार्पितैःकरप्रहारैरपि धूननैरपि ।अमान्तमन्तः प्रसभं पुराऽपरासखीषु संमापयतीव संमदम् ॥८०॥वतंसनीलाम्बुरुहेण किं दृशाविलोकमाने विमनीबभूवतुः ।अपि श्रुती दर्शनसक्तचेतसांन तेन ते शुश्रुवतुर्मृगीदृशाम् ॥८१॥काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तास्वशङ्कन्त कान्तामौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् ।साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किंज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥८२॥भवन्सुद्युम्नः स्त्री नरपतिरभूद्यस्य जननीतमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा ।हरारब्धक्रोधेन्धनमदनसिंहासनमसा-वलंकर्मीणश्रीरुदभवदलंकर्तुमधुना ॥८३॥अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृतेपर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जराजाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥८४॥अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैःस्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् ।व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथंभैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥८५॥मा जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसींसेयं भद्रमचीकरन्मघवता न स्वं द्वितीयां शचीम् ।कः शच्या रचयांचकार चरिते काव्यं स नः कथ्यता-मेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥८६॥वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रियानेत्राभ्यां स्वदते युवायमवनीवासः प्रसूनायुधः ।गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापयायोगं भीमजयानुभूय भजतामद्वैतमद्य त्विषाम् ॥८७॥स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभू-दभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसंपत्तये ।आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडया-प्येतज्जम्पतिगाढरागरचना प्राकर्षि चेतोभुवः ॥८८॥ताभिर्दृश्यत एष यान्पथि महाज्यैष्ठीमहे मन्महेयदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।सा स्त्रीराट् पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैःसस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥८९॥वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिल-क्षोणीचक्रशतक्रतौ निजगदे तद्बृत्तवृत्तक्रमैः ।किंचास्माकनरेन्द्रभूसुभगतासंभूतये लग्नकंदेवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥९०॥आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजेतादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा ।आत्मानं त्रिदशप्रसादफलताम् पत्ये विधायानयाह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥९१॥इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रिया-हंकुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः ।सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनंतस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥९२॥श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतंश्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।यातः पञ्चदशः कृशेतररसस्वादाविहायं महा-काव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥९३॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP