संस्कृत सूची|संस्कृत साहित्य|नैषधीयचरितम्| त्रयोदश सर्गः नैषधीयचरितम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थ सर्गः पञ्चम सर्गः षष्ठ सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादश सर्गः द्वादश सर्गः त्रयोदश सर्गः चतुर्दश सर्गः पञ्चदश सर्गः षोडश सर्गः सप्तदश सर्गः अष्टादश सर्गः एकोनविंशतिः सर्गः विंशतिः सर्गः एकविंशतिः सर्गः द्वाविंशतिः सर्गः नैषधीयचरितम् - त्रयोदश सर्गः महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय. Tags : shriharshaनैषधीयचरितम्श्रीहर्षसंस्कृत त्रयोदश सर्गः Translation - भाषांतर कल्पद्रुमान्परिमला इव भृङ्गमालामात्माश्रयामखिलनिन्दनशाखिवृन्दात् ।तां राजकादपगमय्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्चवीरान् ॥१॥साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा ।ऊचे यथा स च शचीपतिरभ्यधायि प्राकाशि तस्य न च नैषधकायमाया ॥२॥ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य ।सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः ॥३॥शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः ।अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चैष बहुलाभरणार्चिताभिः ॥४॥क्षोणीभृतामतुलकर्कशविग्रहाणामुद्दामदर्पहरिकुञ्जरकोटिभाजाम् ।पक्षच्छिदामयमुदग्रबलो विधाय मग्नं विपज्जलनिधौ जगदुज्जहार ॥५॥भूमीभृतः समिति जिष्णुमपव्यपायं जानीहि न त्वमघवन्तममुं कथंचित् ।गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं नालोकसेऽतिशयमद्भुतमेतदीयम् ॥६॥लेखा नितम्बिनि बलादिसमृद्धराज्यप्राज्योपभोगपिशुना दधते सरागम् ।एतस्य पाणिचरणं तदनेन पत्या सार्धं शचीव हरिणा मुदमुद्वहस्व ॥७॥आकर्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम् ।रूपं समानमुभयत्र विगाहमाना श्रोत्रान्न निर्णयमवापदसौ न नेत्रात् ॥८॥शक्रः किमेष निषाधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् ।निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसः स्रजं सा ॥९॥एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम् नार्जितमनेन धनंजयेन ।हेम प्रभूतमधिगच्छ शुचेरमुष्मानास्येव कस्यचन भास्वररूपसंपत् ॥१०॥अस्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः ।अप्यङ्गरागजननाय महेश्वरस्य संजायते रुचिरकर्णि तपस्विनोऽपि ॥११॥एतन्मुखा विबुधसंसदसावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि ।एनं महस्विनमुपेहि सदारुणोच्चैर्येनामुना पितृमुखि ध्रियते करश्रीः ॥१२॥नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि ।उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनर्भवति केन विरोधिनायम् ॥१३॥साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्या ।ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूते स्म चान्यदनलोऽयमितीदमीयम् ॥१४॥एतादृशीमथ विलोक्य सरस्वती तां संदेहचित्रभयचित्रितचित्तवृत्तिम् ।देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे ॥१५॥दण्डं बिभर्त्ययमहो जगतस्ततः स्यात्कम्पाकुलस्य सकलस्य न पङ्कपातः ।स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः किमु कश्चिदस्ति ॥१६॥मित्त्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य ।छायेदृगस्य च न कुत्रचिदध्यगायि तप्तं यमेन नियमेन तपोऽमुनैव ॥१७॥किंच प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः ।उत्क्रान्तिदा कमनु न प्रतिभाति शक्तिः कृष्णत्वमस्य च परेषु गदान्नियोक्तुः ॥१८॥एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र निधत्स्व मुग्धे ।भूतेषु यस्य खलु भूरियमस्य वश्यभावं समाश्रयति दस्रसहोदरस्य ॥१९॥गुम्फो गिरां शमननैषाधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के ।चित्ते विदर्भवसुधाधिपतेः सुताया यन्निर्ममे खलु तदेष पिपेष पिष्टम् ॥२०॥तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः ।याथःपतिं प्रति धृताभिमुखाङ्गुलीकपाणिः क्रमोचितमुपाक्रमताभिधातुम् ॥२१॥या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैर्जयति नैकविदारका या ।एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः ॥२२॥नासीरसीमनि घनध्वनिरस्य भूयान्कुम्भीरवान्समकरः सहदानवारिः ।उत्पद्मकाननसखः सुखमातनोति रत्नैरलंकरणभावमितैर्नदीनः ॥२३॥सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम ।तस्या विलासवति कर्कशताश्रिता या भूमः कथम् बहुतयासिकता वयं ताः ॥२४॥शोणं पदप्रणयिनं गुणमस्य पश्य किंचास्य सेवनपरैव सरखती सा ।एनं भजस्व सुभगे भुवनाधिनाथं किं वा भजन्ति तमिमं कमलाशया न ॥२५॥शङ्कालताततिमनेकनलावलम्बां वाणी नवर्धयतु तावदभेदिकेयम् ।भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥२६॥बालां विलोक्य विबुधैरपि मायिभिस्तैरच्छद्मितामियमलीकनलीकृतस्वैः ।आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् ॥२७॥अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥२८॥येनामुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा बभूवे ।आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र ॥२९॥यच्चण्डिमारणविधिव्यसनं च तत्त्वं बुद्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् ।सैषा नले सहजरागभरादमुष्मिन्नात्मानमर्पयितुमर्हसि धर्मराजे ॥३०॥किं ते तथा मतिरमुष्य यथाशयः स्यात्त्वत्पाणिपीडनविनिर्मितयेऽनपाशः ।कान्मानवानवति नो भुवनं चरिष्णून्नासावमुत्र नरता भवतीति युक्तम् ॥३१॥श्लोकादिह प्रथमतो हरिणा द्वितीयाद्धूमध्वजेन शमनेन समं तृतीयात् ।तुर्याच्च तस्य वरुणेन समानभावं सा जानती पुनरवादि तया विमुग्धा ॥३२॥त्वं याऽर्थिनी किल नले न शुभाय तस्याः क्व स्यान्निजार्पणममुष्य चतुष्टये ते ।इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥३३॥देवः पतिर्विदुषि नैष धराजगत्या निर्णीयते न किमु न व्रियते भवत्या ।नायं नलः खलु तवातिमहानलाभो यद्येनमुज्झसि वरः कतरः परस्ते ॥३४॥इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताथ समां प्रमाय ।सा सिन्धुवेणिरिव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुताप तापम् ॥३५॥साप्तुं प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।श्रद्धां दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥३६॥कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतनूमदुनोत्पुरस्तात् ।भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम् ॥३७॥उत्कण्ठयन्पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः ।जानीवहे निजशिलीमुखशीलिसंख्यासाफल्यमाप स तदा यदि पञ्चबाणः ॥३८॥देवानियं निषाधराजरुचस्त्यजन्ती रूपादरज्यत नले न विदर्भसुभ्रूः ।जन्मान्तराधिगतकर्मविपाकजन्मैवोन्मीलति क्वचन कस्यचनानुरागः ॥३९॥क्व प्राप्यते स पतगः परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति ।सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी ॥४०॥एकैकमैक्षत मुहुर्महतादरेण भेदं विवेद न च पञ्चसु कंचिदेषा ।शङ्काशतं वितरता हरता पुनस्तदुन्मादिनेव मनसेयमिदं तदाह ॥४१॥अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः ।स्वच्छोपसर्पणमपि प्रतिमाभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥४२॥किं वा तनोति मयि नैषध एव कावव्यूहं विधाय परिहासमसौ विलासी ।विज्ञानवैभवभृतः किमु तस्य विद्या सा विद्यते न तुरगाशयवेदितेव ॥४३॥एको नलः किमयमन्यतमः किमैलः कामोऽपरः किमु किमु द्वयमाश्विनेयौ ।किं रूपधेयभरसीमतया समेषु तेष्वेव नेह नलमोहमहं वहे वा ॥४४॥पूर्वं मया विरहनिःसहयापि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः ।भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान् ॥४५॥मुग्धा दधामि कथमित्थमथापशङ्कां संक्रन्दनादिकपटः स्फुटमीदृशोऽयम् ।देव्यानयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः स्पृशन्ति ॥४६॥एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम् ।लक्ष्माणि तानि किममी न वहन्ति हन्त बर्हिर्मुखा धुतरजस्तनुतामुखानि ॥४७॥याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि ममाफलिनैरलं तैः ।कंदर्पशोषणशिलीमुखपातपीतकारुण्यनीरनिधिगह्वरधोरचित्तैः ॥४८॥ईशा दिशां नलभुवं प्रतिपद्य लेखा वर्णिश्रियं गुणवतामपि वः कथं वा ।मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतत्वम् ॥४९॥यस्येश्वरेण यदलेखि ललाटपट्टे तत्स्यादयोग्यमपि योग्यमपास्य तस्य ।का वासनास्तु बिभृयामिह यां हृदाहं नार्कातपैर्जलजमेति हिमैस्तु दाहम् ॥५०॥इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः ।संकोचसंज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन्भवति मां प्रति बद्धमुष्टिः ॥५१॥देव्याः करे वरणमाल्यमथार्पये वा यो वैरसेनिरिह तत्र निवेशयेति ।सैषा मया मखभुजां द्विषती कृता स्यात्स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम् ॥५२॥यः स्यादमीषु परमाऋथनलः स मालामङ्गीकरोतु वरणाय ममेति चैनाम् ।तं प्रापयामि यदि तत्तु विसृज्य लज्जां कुर्वे कथं जगति शृङ्वति ही विडम्बः ॥५३॥इतरनलतुलाभागेष शेषाः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः ।प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलासः ॥५४॥इति मनसि विकल्पानुद्यतः संत्यजन्ती क्वचिदपि दमयन्ती निर्णयं नाससाद ।मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं निनिन्द ॥५५॥श्रीहर्शं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महाकाव्येऽयं व्यरमन्नलस्य चरिते सर्गो रसाम्भोनिधिः ॥५६॥ N/A References : N/A Last Updated : January 19, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP