नैषधीयचरितम् - पञ्चम सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


यावदागमयतेऽथ नरेन्द्रान्स
स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुः
नारदस्त्रिदशधाम जगाम ॥१॥
नात्र चित्रमनु तं प्रययौ
यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चै-
र्विस्मयाय गगनं विललङ्घे ॥२॥
गच्छता पथि विनैव विमानं
व्योम तेन मुनिना विजगाहे ।
साधने हि नियमोऽन्यजनानां
योगिनां तु तपसाखिलसिद्धिः ॥३॥
खण्डितेन्द्रभवनाद्यभिमा-
नाल्लङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथितामनुमेने
नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥४॥
तस्य तापनभिया तपनः स्वं
तावदेव समकोचयदर्चिः ।
यावदेव दिवसेन शशीव
द्रागतप्यत न तन्महसैव ॥५॥
पर्यभूद्दिनमणिर्द्विजराजं
यत्करैरहह तेन तदा तम् ।
पर्यभूत्खलु करैर्द्विजराजः
कर्म कः स्वकृतमत्र न भुङ्क्ते ॥६॥
विष्टरं तटकुशालिभिरद्धिः
पाद्यमर्ध्यमथ कच्छरुहाभिः ।
पद्मवृन्दमधुभिर्मधुपर्कं
स्वर्गसिन्धुरदितातिथयेऽस्मै ॥७॥
स व्यतीत्य वियदन्तरगाधं
नाकनायकनिकेतनमाप ।
संप्रतीर्य भवसिन्धुमनार्दि
ब्रह्म शर्मभरचारु यतीव ॥८॥
अर्चनाभिरुचितोच्चतराभिः
चारु तं सदकृतातिथिमिन्द्रः ।
यावदर्हकरणं किल साधोः
प्रत्यवायधुतये न गुणाय ॥९॥
नामधेयसमतासखमद्रेरद्रि-
भिन्मुनिमथाद्रियत द्राक् ।
पर्वतोऽपि लभतां कथमर्चां
न द्विजः स विबुधप्रभुलम्भी ॥१०॥
तद्भुजादतिवितीर्णसपर्याद्
दयुद्रुमानपि विवेद मुनीन्द्रः ।
स्वः सहस्थितिसुशिक्षितया
तान्दानपारमितयैव वदान्यान् ॥११॥
मुद्रितान्यजनसंकथनः सन्
नारदं बलरिपुः समवादीत् ।
आकरः स्वपरभूरिकथानां
प्रायशो हि सुहृदोः सहवासः ॥१२॥
तं कथानुकथनप्रसृतायां
दूरमालपनकौतुकितायाम् ।
भूभृतां चिरमनागतिहेतुं
ज्ञातुमिच्छुरवदच्छतमन्युः ॥१३॥
प्रागिव प्रसुवते नृपवंशाः
किंनु संप्रति न वीरकरीरान् ।
ये परप्रहरणैः परिणामे
विक्षताः क्षितितले निपतन्ति ॥१४॥
पार्थिवं हि निजमाजिषु वीरा
दूरमूर्ध्वगमनस्य विरोधि ।
गौरवाद्वपुरपास्य भजन्ते
मत्कृतामतिथिगौरवऋद्धिम् ॥१५॥
साभिशापमिव नातिथयस्ते
मां यदद्य भगवन्नुपयन्ति ।
तेन न श्रियमिमां बहु मन्ये
स्वोदरैकभृतिकार्यकदर्याम् ॥१६॥
पूर्वपुण्यविभवव्ययलब्धाः
श्रीभरा विपद एव विमृष्टाः ।
पात्रपाणिकमलार्पणमासां
तासु शान्तिकविधिर्विधिदृष्टः ॥१७॥
तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् ।
भूयतां भगवतः श्रुतिसारैः
अद्य वाग्भिरघमर्षणऋग्भिः ॥१८॥
इत्युदीर्य मघवा विनयर्धिं
वर्धयन्नवहितत्वभरेण ।
चक्षुषां दशशतीमनिमेषां
तस्थिवान्मुनिमुखे प्रणिधाय ॥१९॥
वीक्ष्य तस्य विनये परिपाकं
पाकशासनपदं स्पृशतोऽपि ।
नारदः प्रमदगद्गदयोक्त्या
विस्मितः स्मितपुरः सरमूचे ॥२०॥
भिक्षिता शतमखी सुकृतं यत्
तत्परिश्रमविदः स्वविभूतौ ।
तत्फले यदि परं तव हेला
क्लेशलब्धमधिकादरदं तु ॥२१॥
संसपदस्तव गिरामपि दूरा
यन्न नाम विनयं विनयन्ते ।
श्रद्दधाति क इवेह न साक्षाद्
आह चेदनुभवः परमाप्तः ॥२२॥
श्रीभरानतिथिसात्करवाणि
स्वोपभोगपरता न हितेति ।
पश्यतो बहिरिवान्तरपीयं
दृष्टिसृष्टिरधिका तव कापि ॥२३॥
आः स्वभावमधुरैरनुभावैः
तावकैरतितरां तरलाः स्मः ।
द्यां प्रशाधि गलितावधिकालं
साधु साधु विजयस्व बिडौजः ॥२४॥
संख्यविक्षततनुस्रवदस्रक्षालि-
ताखिलनिजाघलघूनाम् ।
यत्त्विहानुपगमः शृणु राज्ञां
तज्जगद्युवमुदं तमुदन्तम् ॥२५॥
सा भुवः किमपि रत्नमनर्घे
भूषणं जयति तत्र कुमारी ।
भीमभूपतनया दमयन्ती
नाम या मदनशस्त्रममोघम् ॥२६॥
संप्रति प्रतिमुहूर्तमपूर्वा
कापि यौवनजवेन भवन्ती ।
आशिखं सुकृतसारभृते सा
क्वापि यूनि भजते किल भावम् ॥२७॥
कथ्यते न कतमः स इति त्वं
मां विवक्षुरसि किं चलदोष्ठः ।
अर्धवर्त्मनि रुणत्सि न पृच्छां
निर्गमेण न परिश्रमयैनाम् ॥२८॥
यत्पथावधिरणुः परमः सा
योगिधीरपि न पश्यति यस्मात् ।
बालया निजमनः परमाणौ
ह्रीदरीशयहरीकृतमेनम् ॥२९॥
सा शरस्य कुसुमस्य शरव्यं
सूचिता विरहवाचिभरङ्गैः ।
तातचित्तमपि धातुरधत्त स्व-
स्वयंवरमहाय सहायम् ॥३०॥
मन्मथाय यदथादित राज्ञां
हूतिदूत्यविधये विधिराज्ञाम् ।
तेन तत्परवशाः पृथिवीशाः
संगरं गरमिवाकलयन्ति ॥३१॥
येषु येषु सरसा दमयन्ती
भूषणेषु यदि वापि गुणेषु ।
तत्र तत्र कलयापि विशेषो यः
स हि क्षितिभृतां पुरुषार्थः ॥३२॥
शैशवव्ययदिनावधि तस्या
यौवनोदयिनि राजसमाजे ।
आदरादहरहः कुसुमेषोः
उल्ललास मृगयाभिनिवेशः ॥३३॥
इत्यमी वसुमतीकमितारः
सादरास्त्वदतिथीभवितुं न ।
भीमभूसुरभुवोरभिलापे
दूरमन्तरमहो नृपतीनाम् ॥३४॥
तेन जाग्रदधृतिर्दिवमागां
संख्यसौख्यमनुसर्तुमनु त्वाम् ।
यन्मृधं क्षितिभृतां न विलोके
तन्निमग्नमनसां भुवि लोके ॥३५॥
वेद यद्यपि न कोऽपि भवन्तं
हन्त हन्त्रकरुणं विरुणद्धि ।
पृच्छयसे तदपि येन विवक-
प्रोञ्छनाय विषये रससेकः ॥३६॥
एवमुक्तवति देवऋषीन्द्रे
द्रागभेदि मघवाननमुद्रा ।
उत्तरोत्तरशुभो हि विभूनां
कोऽपि मञ्जुलतमः क्रमवादः ॥३७॥
कानुजे मम निजे दनुजारौ
जाग्रति स्वशरणे रणचर्चा ।
यद्भुजाङ्कमुपधाय जयाङ्कं
शर्मणा स्वपिमि वीतविशङ्कः ॥३८॥
विश्वरूपकलनादुपपन्नं
तस्य जैमिनिमुनित्वमुदीये ।
विग्रहं मखभुजामसहिष्णुः
व्यर्थतां मदशनिं स निनाय ॥३९॥
ईदृशानि मुनये विनयाब्धिः
तस्थिवान् स वचनान्युपहृत्य ।
प्रांशुनिःश्वसितपृष्ठचरी वाङ्
नारदस्य निरियाय निरोजाः ॥४०॥
स्वारसातलभवाहवशङ्की
निर्वृणोमि न वसन्वसुमत्याम् ।
द्यां गतस्य हृदि मे दुरुदर्कः
क्ष्मातलद्वयभटाजिवितर्कः ॥४१॥
वीक्षितस्त्वमसि मामथ गन्तुं
तन्मनुष्यजगतेऽनुमनुष्व ।
किं भुवः परिवृढा न विवोढुं
तत्र तामुपगता विवदन्ते ॥४२॥
इत्युदीर्य स ययौ मुनिरुर्वो
स्वर्पतिं प्रतिनिवर्त्य बलेन ।
वारितोऽप्यनुजगाम सयत्नं
तं कियन्त्यपि पदान्यपराणि ॥४३॥
पाणये बलरिपोरथ भैमी-
शीतकोमलकरग्रहमर्हम् ।
भेषजं चिरचिताशनिवास-
व्यापदामुपदिदेश रतीशः ॥४५॥
नाकलोकभिषजोः सुषमा या
पुष्पचापमपि चुम्बति सैव ।
वेद्मि तादृगभिषज्यदसौ तद्-
द्वारसंक्रमितवैद्यकविद्यः ॥४६॥
मानुषीमनुसरत्यथ पत्यौ
खर्वभावमवलम्ब्य मघोनी ।
खण्डितं निजमसूचयदुच्चैः
मानमाननसरोरुहनत्या ॥४७॥
यो मघोनि दिवमुच्चरमाणे
रम्भया मलिनिमालमलम्भि ।
वर्ण एव स खलूज्ज्वलमस्याः
शान्तमान्तरमभाषत भङ्ग्या ॥४८॥
जीवितेन कृतमप्सरसां तत्
प्राणमुक्तिरिह युक्तिमती नः ।
इत्यनक्षरमवाचि धृताच्या
दीर्घनिःश्वसितनिर्गमितेन ॥४९॥
साधु नः पतनमेवमितः स्यात्
इत्यभण्यत तिलोत्तमयापि ।
चामरस्य पतनेन कराब्जात्
तद्विलोलनचलद्भुजनालात् ॥५१॥
उर्वशी गुणवशीकृतविश्वा
तत्क्षणस्तिमितभावनिभेन ।
शक्रसौहृदसमापनसीमः
तम्भकार्यमपुषद्वपुषैव ॥५२॥
कापि कामपि बभाण बुभुत्सुं
शृण्वति त्रिदशभर्तरि किंचित् ।
एष कश्यपसुतामभिगन्ता
पश्य कश्यपसुतः शतमन्युः ॥५३॥
आलिमात्मसुभगत्वसगर्वा
कापि शृण्वति मघोनि बभाषे ।
वीक्षणेऽपि सघृणासि नृणां
किं यासि न त्वमपि सार्थगुणेन ॥५४॥
अन्वयुर्द्युतिपयः पितृनाथाः
तंमुदाथ हरितां कमितारः ।
वर्त्म कर्षतु पुरः परमेकस्तद्
गतानुगतिको न महार्घः ॥५५॥
प्रेषिताः पृथगथो दमयन्त्यै
चित्तचौर्यचतुरा निजदूत्यः ।
तहुरुं प्रति च तैरुपहाराः
संख्यसौख्यकपटेन निगूढाः ॥५६॥
चित्रमत्र विबुधैरपि यत्तैः
स्वर्विहाय बत भूरनुसस्रे ।
द्यौर्न काचिदथवास्ति निरुढा
सैव सा चलति यत्र हि चित्तम् ॥५७॥
किं घनस्य जलधेरथवैवं
नैव संशयितुमप्यलभन्त ।
स्यन्दनं परमदूरमपश्यन्
निःस्वनश्रुतिसहोपनतं ते ॥५९॥
सूतविश्रमदकौतुकिभावं
भावबोधचतुरं तुरगाणाम् ।
तत्र नेत्रजनुषः फलमेते
नैषधं बुबुधिरे विबुधेन्द्राः ॥६०॥
वीक्ष्य तस्य वरुणस्तरुणत्वं
तद्बभार निबिडं जडभूयम् ।
नौचिती जलपतेः किमु सास्य
प्राज्यविस्मयरसस्तिमितस्य ॥६१॥
रूपमस्य विनिरूप्य तथातिम्
लानिमाप रविवंशवतंसः ।
कीर्त्यते यदधुनापि स देवः
काल एव सकलेन जनेन ॥६२॥
यं बभार दहनः खलु तापं
रूपधेयभरमस्य विमृश्य ।
तत्र भूदनलता जनिकर्त्री मा
तदप्यनलतैव तु हेतुः ॥६३॥
कामनीयकमधः कृतकामं
काममक्षिभिरवेक्ष्य तदीयम् ।
कौशिकः स्वमखिलं परिपश्यन्
मन्यते स्म खलु कौशिकमेव ॥६४॥
रामणीयकगुणाद्वयवादं
मूर्तमुत्थितममुं परिभाव्य ।
विस्मयाय हृदयानि वितेरुः
तेन तेषु न सुराः प्रबभूवुः ॥६५॥
प्रैयरूपकविशेषनिवेशैः
संवदद्भिरमराः श्रुतपूर्वैः ।
एष एव स नलः किमितीदं
मन्दमन्दमितरेतरमूचुः ॥६६॥
तेषु तद्विधवधूवरणार्हं
भूषणं स समयः स रथाध्वा ।
तस्य कुण्डिनपुरं प्रतिसर्पन्
भूपतेर्व्यवसितानि शशंसुः ॥६७॥
धर्मराजसलिलेशहुताशैः
प्राणातां श्रितममुं जगतस्तैः ।
प्राप्य हृष्टचलविस्तृततापैः
चेतसा निभृतमेतदचिन्ति ॥६८॥
नैव नः प्रियतमोभयथासौ
यद्यमुं न वृणुते वृणुते वा ।
एकतो हि धिगमूमगुणज्ञम्
अन्यतः कथमदः प्रतिलम्भः ॥६९॥
मां वरिष्यति तदा यदि मत्
तो वेद नेयमियदस्य महत्त्वम् ।
ईदृशी च कथमाकलयित्री
मद्विशेषमपरान्नृपपुत्री ॥७०॥
नैषधे बत वृते दमयन्त्या
व्रीडितो नहि बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्यं
ह्रीनिमीलि खलु दर्शयिताहे ॥७१॥
इत्यवेत्य मनसात्मविधेयं
किंचन त्रिविबुधी बुबुधे न ।
नाकनायकमपास्य तमेकं
सा स्म पश्यति परस्परमास्यम् ॥७२॥
किं विधेयमधुनेति विमुग्धं
स्वानुगाननमवेक्ष्य ऋभुक्षाः ।
शंसति स्म कपटे पटुरुच्चैः
वञ्चनं समभिलष्य नलस्य ॥७३॥
सर्वतः कुशलवानसि किच्चित्वं
स नैषध इति प्रतिभा नः ।
स्वासनार्धसुहृदस्त्वयि
रेखां वीरसेननृपतेरिव विद्मः ॥७४॥
क्व प्रयास्यसि नलेत्यलमुक्त्वा
यात्रयात्र शुभयाजनि यन्नः ।
तत्तयैव फलसत्वरया त्वं
नाध्वनोऽर्धमिदमागमितः किम् ॥७५॥
एष नैषध ! स दण्डभृदेष
ज्वालजालजटिलः स हुताशः ।
यादसां स पतिरेष च शेषं
शासितारमधिगच्छ सुराणाम् ॥७६॥
अर्थितो वयममी समुपेमः
त्वां नलेति फलितार्थमवेहि ।
अध्वनः क्षणमपास्य च खेदं
कुर्महे भवति कार्यनिवेदम् ॥७७॥
ईदृशीं गिरमुदीर्य बिडौजा
जोषमास न विशिष्य बभाषे ।
नात्र चित्रमभिधाकुशलत्वे
शैशवावधि गुरुर्गुरुरस्य ॥७८॥
अर्थिनामहृषिताखिललोमा
स्वं नृपः स्फुटकदम्बकदम्बम् ।
अर्चनार्थमिव तच्चरणानां
स प्रणामकरणादुपनिन्ये ॥७९॥
दुर्लभं दिगधिपैः किममीभिः
तादृशं कथमहो मदधीनम् ।
ईदृशं मनसिकृत्य विरोधं
नैषधेन समशायि चिराय ॥८०॥
जीवितावधि वनीयकमात्रैः
याच्यमानमखिलैः सुलभं यत् ।
अर्थिने परिवृढाय सुराणां किं
वितीर्य परितुष्यति चेतः ॥८१॥
भीमजा च हृदि मे परमास्ते
जीवितादपि धनादपि गुर्वी ।
न स्वमेव मम सार्हति यस्याः
षोडशीमपि कलां किल नोर्वी ॥८२॥
मीयतां कथमभीप्सितमेषां
दीयतां कथमयाचितमेव ।
तं धिगस्तु कलयन्नपि वाञ्छाम्
अर्थिवागवसरं सहते यः ॥८३॥
प्रापितेन चटुकाकुविडम्बं
लम्भितेन बहुयाचनलज्जाम् ।
अर्थिना यदघमर्जति दाता
तन्न लुम्पति विलम्ब्य ददानः ॥८४॥
यत्प्रदेयमुपनीय वदान्यैः
दीयते सलिलमर्थिजनाय ।
सार्थनोक्तिविफलत्वविशङ्का
त्रासमूर्च्छदपमृत्युचिकित्सा ॥८५॥
अर्थिने न तृणवद्धनमात्रं किं
तु जीवनमपि प्रतिपाद्यम् ।
एवमाह कुशवज्जलदापी
दव्यदानविधिरुक्तिविदग्धः ॥८६॥
पङ्कसंकरविगर्हितमर्हं
न श्रियः कमलमाश्रयणाय ।
अर्थिपाणिकमलं विमलं
तद्वासवेश्म विदधीत सुधीस्तत् ॥८७॥
याचमानजनमानसवृत्तेः
पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं
न द्रुमैर्न गिरिभिर्न समुद्रैः ॥८८॥
मा धनानि कृपणः खलु जीवं
स्तृष्णयार्पयतु जातु परस्मै ।
तत्र चैष कुरुते मम चित्रं
यत्तु नार्पयति तानि मृतोऽपि ॥८९॥
माममीभिरिह याचितवद्भिः
दातृजातमवमत्य जगत्याम् ।
यद्यशो मयि निवेक्षितमेतन्
निष्क्रयोऽस्तु कतमस्तु तदीयः ॥९०॥
लोक एष परलोकमुपेता
हा विहाय निधने धनमेकः ।
इत्यमुं खलु तदस्य निनीषत्-
यर्थिबन्धुरुदयद्दयचित्तः ॥९१॥
दानपात्रमधर्मणमिहैक-
ग्राहि कोटिगुणितं दिवि दायि ।
साधुरेति सुकृतैर्यदि कर्तुं
पारलौकिककुसीदमसीदत् ॥९२॥
एवमादि स विचिन्त्य मुहूर्तं
तानवोचत पतिर्निषधानाम् ।
अर्थिदुर्लभमवाप्य सहर्षान्
याच्यमानमुखमुल्लसितश्रि ॥९३॥
नास्ति जन्यजनकव्यतिभेदः
सत्यमन्नजनितो जनदेहः ।
वीक्ष्य वः खलु तनूममृतादं
दृङ्गिमज्जनमुपैति सुधायाम् ॥९४॥
मत्तपः क्व नु तनु क्व फलं वा
यूयमीक्षणपथं व्रजथेति ।
ईदृशं परिणमन्ति पुनर्नः
पूर्वपूरुषतपांसि जयन्ति ॥९५॥
प्रत्यतिष्ठिपदिलां खलु देवीं
कर्म सर्वसहनव्रतजन्म ।
यूयमप्यहह पूजनमस्या
यन्निजैः सृजथ पादपयोजैः ॥९६॥
जीवितावधि किमप्यधिकं वा
यन्मनीषितमितो नरडिम्भात् ।
तेन वश्चरणमर्चतु सोऽयं
ब्रूत वस्तु पुनरस्तु किमीदृक् ॥९७॥
एवमुक्तवति वीतविशङ्के
वीरसेनतनये विनयेन ।
वक्रभावविषमामथ शक्रः
कार्यकैतवगुरुर्गिरमूचे ॥९८॥
पाणिपीडनमहं दमयन्त्याः
कामयेमहि महीमिहिकांशो ! ।
दूत्यमत्र कुरु नः स्मरभीतिं
निर्जितस्मर ! चिरस्य निरस्य ॥९९॥
आसते शतमधिक्षिति भूपाः
तोयराशिरसि ते खलु कूपाः ।
किं ग्रहा दिवि न जाग्रति ते ते
भास्करस्य कतमस्तुलयास्ते ॥१००॥
विश्वदृश्वनयना वयमेव
त्वह्गुणाम्बुधिमगाधमवेमः ।
त्वामिहैवमनिवेश्य रहस्ये
निर्वृतिं नहि लभेमहि सर्वे ॥१०१॥
शुद्धवंशजनितोऽपि गुणस्य
स्थानतामनुभवन्नपि शक्रः ।
क्षिप्नुरेमृजुमाशु सपक्षं
सायकं धनुरिवाजनि वक्रः ॥१०२॥
तेन तेन वचसैव मघोनः
स स्म वेद कपटं पटुरुच्चैः ।
आचरत्तदुचितामथ वाणी-
मार्जवं हि कुटिलेषु न नीतिः ॥१०३॥
सेयमुच्चतरता दुरितानाम्
अन्यजन्मनि मयैव कृतानाम् ।
युष्मदीयमपि या महिमनं
जेतुमिच्छति कथापथपारम् ॥१०४॥
वित्थ चित्तमखिलस्य न कुर्यां
धुर्यकार्यपरिपन्थि तु मौनम् ।
ह्रीर्गिरास्तु वरमस्तु पुनर्मा
स्वीकृतैव परवागपरास्ता ॥१०५॥
यन्मतौ विमलदर्पणिकायां
संमुखस्थमखिलं खलु तत्त्वम् ।
तेऽपि किं वितरथेदृशमाज्ञां
या न यस्य सदृशी वितरीतुम् ॥१०६॥
यामि यामिह वरीतुमहो
तदृततां नु करवाणि कथं वः ।
ईदृशां न महतां बत जाता
वञ्चने मम तृणस्य घृणापि ॥१०७॥
उद्भ्रमामि विरहान्मुहुरस्या
मोहमेमि च मुहूर्तमहं यः ।
ब्रुत वः प्रभवितास्मि रहस्यं
रक्षितुं स कथमीदृगवस्थः ॥१०८॥
यां मनोरथमयीं हृदि कृत्वा
यः श्वसिम्यथ कथं स तदग्रे ।
भावगुप्तिमवलम्बितुमीशे
दुर्जया हि विषया विदुषापि ॥१०९॥
यामिकाननुपमृद्य च मादृक्
तां निरीक्षितुमपि क्षमते कः ।
रक्षिलक्षजयचण्डचरित्रे
पुंसि विश्वसिति कुत्र कुमारी ॥११०॥
आदधीचि किल दातृकृतार्घं
प्राणमात्रपणसीम यशो यत् ।
आददे कथमहं प्रियया
तत् प्राणतः शतगुणेन पणेन ॥१११॥
अर्थना मयि भवद्भिरिवास्यै
कर्तुमर्हति मयापि भवत्सु ।
भीमजार्थपरयाचनचाटौ
यूयमेव गुरवः करणीयाः ॥११२॥
अर्थिताः प्रथमतो दमयन्तीं
यूयमन्वहमुपास्य मया यत् ।
ह्रीर्न चेद्व्यतियतामपि तद्वः
सा ममापि सुतरां न तदस्तु ॥११३॥
कुण्डिनेन्द्रसुतया किल पूर्वं
मां वरीतुमुररीकृतमास्ते ।
व्रीडमेष्यति परं मयि दृष्टे
स्वीकरिष्यति न सा खलु युष्मान् ॥११४॥
तत्प्रसीदत विधत्त न खेदं
दूत्यमत्यसदृशं हि ममेदम् ।
हास्यतैव सुलभा न तु साध्यं
तद्विधित्सुभिरनौपयिकेन ॥११५॥
ईदृशानि गदितानि तदानीम्
आकलय्य स नलस्य बलारिः ।
शंसति स्म किमपि स्मयमानः
स्वानुगाननविलोकनलोलः ॥११६॥
नाभ्यधायि नृपते !
भवतेदं रोहिणीरमणवंशभुवैव ।
लज्जते न रसना तव
वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥११७॥
भङ्गुरं न वितथं न कथं वा
जीवलोकमवलोकयसीमम् ।
येन धर्मयशसी परिहातुं
धीरहो चलति धीर ! तवापि ॥११८॥
कः कुलेऽजनि जगन्मुकुटे वः
प्रार्थकेप्सितमपूरि न येन ।
इन्दुरादिरजनिष्ट कलङ्की
कष्टमत्र स भवानपि मा भूत् ॥११९॥
यापदृष्टिरपि या मुखमुद्रा
याचमानमनु या च न तुष्टिः ।
त्वादृशस्य सकलः स कलङ्कः
शीतभासि शशकृः परमङ्कः ॥१२०॥
नाक्षराणि पठता किमपाठि
प्रस्मृतः किमथवा पठितोऽपि ।
इत्थमर्थिचयसंशय दोला-
खेलनं खलु चकार नकारः ॥१२१॥
अब्रवीत्तमनलः क्व नलेदं
लब्धमुज्झसि यशः शशिकल्पम् ।
कल्पवृक्षपतिमर्थिनमित्थं
नाप कोऽपि शतमन्युमिहान्यः ॥१२२॥
न व्यहन्यत कदापि मुदं यः
स्वः सदामुपनयन्नभिलाषः ।
तत्पदे त्वदभिषेककृतां नः
स त्यजत्वसमतामदमद्य ॥१२३॥
अब्रवीदथ यमस्तमहृष्टं
वीरसेनकुलदीप ! तमस्त्वाम् ।
यत्किमप्यभिबुभूषति
तत्किं चन्द्रवंशवसतेः सदृशं ते ॥१२४॥
रोहणः किमपि यः कठिनानां
कामधेनुरपि या पशुरेव ।
नैनयोरपि वृथाऽभवदर्थी
ही विधित्सुरसि वत्स ! किमेतत् ॥१२५॥
याचितश्चिरयति क्व नु धीरः
प्राणने क्षणमपि प्रतिभूः कः ।
शंसति द्विनयनी दृढनिद्रां
द्राङ्गिमेषमिषघूर्णनपूर्णा ॥१२६॥
अभ्रपुष्पमपि दित्सति शीतं
सार्थिना विमुखता यदभाजि ।
स्तोककस्य खलु चञ्चुपुटेन
म्लानिरुल्लसति तद्धनसङ्घे ॥१२७॥
ऊचिवानुचितमक्षरमेनं
पाशपाणिरपि पाणिमुदस्य ।
कीर्तिरेव भवतां प्रियदारा
दाननीरझरमौक्तिकहारा ॥१२८॥
चर्म वर्म किल यस्य नभेद्यं
यस्य वज्रमयमस्थि च तौ चेत् ।
स्थायिनाविह न कर्णदधीची
तन्न धर्ममवधीरय धीर ! ॥१२९॥
अद्य यावदपि येन निबद्धौ
न प्रभू विचलितुं बलिविन्ध्यौ ।
आस्थितावितथतागुणपाशः
त्वादृशा स विदुषा दुरपासः ॥१३०॥
प्रेयसी जितसुधांशुमुखश्रीः
या न मुञ्चति दिगन्तगतापि ।
भङ्गिसङ्गमकुरङ्गदृगर्थे
कः कदर्थयति तामपि कीर्तिम् ॥१३१॥
यान्वरं प्रति परेऽर्थयितार
स्तेऽपि यं वयमहो स पुनस्त्वम् ।
नैव नः खलु मनोरथमात्रं
शूर ! पूरय दिशोऽपि यशोभिः ॥१३२॥
अर्थिता त्वयि गतेषु सुरेषु
म्लानदानजनिजोरुयशः श्रीः ।
अद्य पाण्डु गगनं सुरशाखी
केवलेन कुसुमेन विधत्तम् ॥१३३॥
प्रवसते भरतार्जुनवैन्यंवत्
स्मृतिधृतोऽपि नल ! त्वमभीष्टदः ।
स्वगमनाफलतां यदि शङ्कसे
तदफलं निखिलं खलु मङ्गलम् ॥१३४॥
इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी
धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।
त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशना-
द्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥१३५॥
यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं
स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति ।
एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने
साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥१३६॥
इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा
वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार ।
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे
भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥१३७॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महा-
काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥१३८॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP